तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः । तासामु ह स्मैतां चतुर्थीम् । माहाचमस्यः प्रवेदयते । मह इति । तद्ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः । भूरिति वा अयं लोकः । भुव इत्यन्तरिक्षम् । सुवरित्यसौ लोकः ॥ १ ॥
संहिताविषयमुपासनमुक्तम् । तदनु मेधाकामस्य श्रीकामस्य चानुक्रान्ता मन्त्राः । ते च पारम्पर्येण विद्योपयोगार्था एव । अनन्तरं व्याहृत्यात्मनो ब्रह्मणः अन्तरुपासनं स्वाराज्यफलं प्रस्तूयते -

वृत्तानुवादपूर्वकमुत्तरानुवाकद्वयतात्पर्यमाह —

संहिताविषयमित्यादिना ।

संहितोपासनं फलाभिसन्धिं विनानुष्ठितं चित्तशुद्धिद्वारा विद्योपयोगार्थमिति सूचयति —

ते चेति ।

च-शब्दोऽप्यर्थः । संहितोपासनवत्तेऽपीत्यर्थः ।

अन्तरिति ।

व्याहृतीनां श्रद्धागृहीतत्वात्तत्परित्यागेनोपदिश्यमानं ब्रह्म न बुद्धिमारोहति । अतो व्याहृतिशरीरस्य ब्रह्मणो हृदयान्तरुपासनमुपदिश्यत इत्यर्थः ।