वृत्तानुवादपूर्वकमुत्तरानुवाकद्वयतात्पर्यमाह —
संहिताविषयमित्यादिना ।
संहितोपासनं फलाभिसन्धिं विनानुष्ठितं चित्तशुद्धिद्वारा विद्योपयोगार्थमिति सूचयति —
ते चेति ।
च-शब्दोऽप्यर्थः । संहितोपासनवत्तेऽपीत्यर्थः ।
अन्तरिति ।
व्याहृतीनां श्रद्धागृहीतत्वात्तत्परित्यागेनोपदिश्यमानं ब्रह्म न बुद्धिमारोहति । अतो व्याहृतिशरीरस्य ब्रह्मणो हृदयान्तरुपासनमुपदिश्यत इत्यर्थः ।