तात्पर्यमुक्त्वाक्षरव्याख्यानाय प्रतीकमादत्ते —
भूर्भुवः सुवरिति ।
इतीत्युक्तेति ।
भूर्भुवःसुवरिति वाक्येनोक्तानां व्याहृतीनां पाठक्रमलब्धक्रमानुवादार्थः श्रुतावितिशब्द इत्यर्थः ।
प्रदर्शितानामिति ।
प्रदर्शितक्रमोपेतानां व्याहृतीनां स्वरूपानुवादार्थ एतास्तिस्रो व्याहृतय इति शब्द इत्यर्थः ।
ननु क्रमतः स्वरूपतश्च ताः किमर्थं परामृश्यन्ते ? तत्राह —
परामृष्टा इति ।
स्मृतिं विवृणोति —
तिस्र एता इति ।
स्मर्यन्ते तावदिति ।
तावच्छब्दः प्राथम्यार्थः । कर्मकाण्डे कर्माङ्गत्वेन प्रसिद्धव्याहृतयः इह प्रथमं स्मर्यन्ते वै-शब्देन तासु क्रमेणोपासनविधानार्थमित्यर्थः । सोमपानार्थं महांश्चमसो यस्य स महाचमस इति वेदभाष्यकाराः ।
अपत्यमिति ।
गोत्रापत्यमित्यर्थः । तथा च वार्त्तिके दर्शितम् - ‘महाचमसगोत्रत्वाद्गोत्रार्थस्तद्धितो भवेत्’ इति ।
प्रवेदयत इति लटो भूतार्थपरत्वेन व्याख्याने हेतुमहा —
उ ह स्म इत्येतेषामिति ।
ऋषेश्चतुर्थव्याहृतिविषयकं वेदनं योगप्रभावजनितं प्रत्यक्षमेवेति मत्वाह —
ददर्शेत्यर्थः इति ।
आर्षेति ।
ऋषिसम्बन्ध्यनुस्मरणमार्षम् , तस्यानुस्मरणस्य कर्तव्यताद्योतनार्थमित्यर्थः ।
ननु तस्योपासनाङ्गत्वे सति कर्तव्यता सिध्यति, तदेव कुत इति ; तत्राह —
ऋष्यनुस्मरणमपीति ।
इहोपदेशादिति ।
उपासनप्रकरणे ऋषेः सङ्कीर्तनादित्यर्थः । उत्तरत्रोपदेक्ष्यमाणाया गतेरपि चिन्तनमुपासनाङ्गत्वेन कर्तव्यमिहोपदेशाविशेषादित्यपेरर्थः ।
तद्ब्रह्मेति ।
तच्चतुर्थव्याहृतिस्वरूपं ब्रह्मेति चिन्तयेदित्यर्थः ।
इतरव्याहृतित्यागेन चतुर्थव्याहृतिस्वरूपे ब्रह्मदृष्टिविधाने नियामकमाह —
महद्धि किल ब्रह्म महती च व्याहृतिरिति ।
महत्त्वं व्यापकत्वम् , तच्च ब्रह्मणः श्रुतिषु प्रसिद्धमिति द्योतनार्थौ हि किलेति निपातौ । चतुर्थव्याहृतेरितरव्याहृत्यपेक्षया व्यापकत्वं वक्ष्यति । तथा च व्यापकत्वसाम्येन चतुर्थव्याहृतिस्वरूपे ब्रह्मदृष्टिविधिरिति भावः ।
चतुर्थव्याहृतेर्व्यापकत्वं निरूपयितुं पृच्छति —
किं पुनस्तदिति ।
मह इति व्याहृतिस्वरूपं ब्रह्मेत्युक्तम् , तद्व्याहृतिस्वरूपं पुनरपि किं कीदृशमित्यक्षरार्थः । अत्रोत्तरं स आत्मेति श्रुतिः । विधेयापेक्षया पुंलिङ्गनिर्देशः, स चतुर्थव्याहृतिस्वरूपमात्मा इतरव्याहृत्यपेक्षया व्यापकमित्यर्थः ।
ननु चेतने रूढस्यात्मशब्दस्य कथं व्यापकत्वमर्थः ? योगेनेत्याह —
आप्नोतेरिति ।
व्याप्तिः कर्म क्रिया अर्थो यस्य ; ततश्च व्याप्तिवाचकादाप्नोतेः सकाशान्निष्पन्नोऽयमात्मशब्दो व्यापकत्वबोधक इत्यर्थः ।
मह इति व्याहृतेरात्मश्रुत्युक्तमितरव्याहृत्यपेक्षया व्यापकत्वमुपपादयति —
इतराश्चेत्यादिना यतोऽत इत्यन्तेन ।
च-शब्दोऽवधारणे ।
नन्वितरव्याहृतयो मह इत्यनेन व्याप्यन्त इत्ययुक्तम् , इतरव्याहृतेषु मह इत्यस्याक्षरानुवृत्तेरदर्शनादित्याशङ्क्याह —
आदित्यचन्द्रब्रह्मान्नभूतेनेति ।
मह इति व्याहृत्यात्मन आदित्यादिभूतत्वमित्थं श्रूयते - ’मह इत्यादित्यः, मह इति चन्द्रमाः मह इति ब्रह्म, मह इत्यन्नम्’ इति । मह इति ब्रह्मेत्यत्र ब्रह्मोङ्कार इति वक्ष्यति । नन्वादित्यादीनां लोकादिष्वेव व्याप्तिः, न व्याहृतिषु, अनुपलम्भात् ; ततश्च कथमादित्यचन्द्रब्रह्मान्नभूतेन मह इत्यनेन इतरा व्याहृतयो व्याप्यन्त इत्याशङ्क्य तासामादित्यादिव्याप्यतासिद्ध्यर्थं लोकाद्यात्मकतामाह – लोकादेवावेदाः प्राणाश्चेति । इतरव्याहृतयो लकदेववेदप्राणात्मिका इत्यक्षरार्थः । तासामित्थं लोकाद्यात्मकत्वं श्रूयते - ‘भूरिति वा अयं लोकः, भुव इत्यन्तरिक्षम् , सुवरित्यसौ लोकः ; भूरिति वा अग्निः, भुव इति वायुः, सुवरित्यादित्यः ; भूरिति वा ऋचः, भुव इति सामानि, सुवरिति यजूषि ; भूरिति वै प्राणः, भुव इत्यपानः, सुवरिति व्यानः’ इति । अत्र पृथिव्यन्तरिक्षद्युलोकानामादित्यव्याप्यता प्रसिद्धा, अग्निवाय्वादित्यदेवतानां चन्द्रव्याप्यता प्रसिद्धैव, चन्द्रसूर्ययोः स्वदीप्त्या सर्वलोकव्यापकत्वात् ; वागात्मकानां वेदानामोङ्कारव्याप्यता ‘तद्यथा शङ्कुना’ इत्यादिश्रुतिसिद्धा, प्राणानामन्नरसद्वारान्नव्याप्यता प्रसिद्धा ; तथा च लोकदेववेदप्राणात्मिका इतरव्याहृतयो यत आदित्यचन्द्रब्रह्मान्नभूतेन मह इत्यनेन व्याहृत्यात्मना व्याप्यन्ते, अतो मह इति व्याहृतेरितरापेक्षया व्यापकत्वमित्यर्थः ।
इत्थं स आत्मेति वाक्यं व्याख्याय अनन्तरवाक्यमादत्ते —
अङ्गानीति ।
नन्वन्या व्याहृतयो यथा देवतारूपत्वेन श्रुतास्तथा लोकादिरूपत्वेनापि श्रुताः ; ततश्च कथमग्न्यादिदेवतारूपाणामेव तासामङ्गत्ववचनम् ? तत्राह —
देवताग्रहणमिति ।
देवतापदमजहल्लक्षणया लोकादीनामपि ज्ञापनार्थम् ; अतो नोक्तदोष इत्यर्थः ।
लोकाद्युपलक्षणे कृते सति फलितम् ‘अङ्गान्यन्या देवताः’ इति वाक्यार्थं दर्शयति —
मह इत्येतस्येत्यादिना इतीत्यन्तेन ।
अत्रेतिशब्दोऽत इत्यर्थे, यत इत्युपक्रमात् ; तथा च यत आदित्यादिभिर्लोकादयो महीयन्ते अतः सर्वे देवा लोकादयश्च मह इत्येतस्य व्याहृत्यात्मनोऽवयवभूता इति योजना ।
अत्र दृष्टान्तमाह —
आत्मना हीति ।
प्रसिद्धशरीरस्य मध्यभागोऽत्रात्मशब्दार्थः । तेन हस्तपादाद्यङ्गानि महीयन्ते । शरीरमध्यभागगतान्नादिना अङ्गानां वृद्धिः प्रसिद्धेति हि-शब्दार्थः । अयं भावः - यथा देवदत्तस्य मध्यमभागं प्रति पादादीन्यङ्गानि मध्यमभागाधीनवृद्धिभाक्त्वात् , मध्यमभागश्चाङ्गी तद्वृद्धिहेतुत्वात् , तथा लोकाद्यात्मिका इतरव्याहृतयः पादादिरूपाङ्गाणि, आदित्याद्यात्मकं चतुर्थव्याहृतिस्वरूपमङ्गीति कल्प्यते ; मह इत्यस्यादित्याद्यात्मनेतरवृद्धिहेतुत्वेन वृद्धिहेतुत्वसाम्यात् , इतरव्याहृतीनां च लोकाद्यात्मना तदधीनवृद्धिभाक्त्वेन प्रसिद्धाङ्गवद्वृद्धिभाक्त्वसाम्यात् ; तत्रापि प्रथमा व्याहृतिः पादौ, द्वितीया बाहू, तृतीया शिर इति विभागः ; तथा च व्याहृतिचतुष्टयं मिलित्वा शरीरं सम्पद्यते ; तस्मिन्व्याहृतिमये शरीरे यदङ्गित्वेन कल्पितं चतुर्थव्याहृतिस्वरूपं तत्र तद्ब्रह्मेति वाक्येन ब्रह्मदृष्टिर्विहिता ; तथा च वक्ष्यति - मह इत्यङ्गिनि ब्रह्मणीति । आदित्यादीनां च लोकादिवृद्धिहेतुत्वमित्थं श्रूयते - ‘आदित्येन वाव सर्वे लोका महीयन्ते, चन्द्रमसा वाव सर्वाणि ज्योतीषि महीयन्ते, ब्रह्मणा वाव सर्वे वेदा महीयन्ते, अन्नेन वाव सर्वे प्राणा महीयन्ते’ इति । अयमर्थः लोकास्तावदादित्येन प्रकाशिताः सन्तः प्राणिनां व्यवहार्यत्वलक्षणां वृद्धिं प्राप्नुवन्ति ; अग्निवाय्वादित्यदेवतारूपाणि ज्योतींषि चन्द्रमसा वर्धन्त इत्येतत् ‘प्रथमां पिबते वह्निः’ इत्यादिशास्त्रसिद्धम् , चन्द्रकलापानेन तेषां वृद्धेरावश्यिकत्वात् ; ब्रह्मणा प्रणवेन सर्वे देवा वर्धन्ते वेदवृद्धेः प्रणवपूर्वकाध्ययनाधीनत्वात् , तथा च वक्ष्यति ‘ओमिति ब्राह्मणः प्रवक्ष्यन्नाह’ इति ; अन्नेन प्राणा वर्धन्त इत्येतत्प्रसिद्धम् , श्रुतिश्चात्र भवति ‘शुष्यति वै प्राण ऋतेऽन्नात्’ इति ।
भूरिति वा अयं लोक इत्यादावैकैका व्याहृतिश्चतुष्प्रकारा ज्ञातव्येति तात्पर्यमाह —
अयं लोक इत्यादिना ।
भूरितीति ।
चतुर्धा भवतीति शेषः ।
एवमुत्तरा इति ।
अन्तरिक्षं वायुः सामान्यपान इति द्वितीया व्याहृतिर्भुव इति, सुवर्लोक आदित्यो यजूंषि व्यान इति तृतीया व्याहृतिः सुवरिति, आदित्यश्चन्द्रमा ओङ्कारोऽन्नमिति चतुर्थीं व्याहृतिर्मह इति ; एवमेता उत्तरा व्याहृतयः प्रत्येकं चतुर्धा भवन्तीत्यर्थः ।
मह इति ब्रह्मेत्यत्र ब्रह्मशब्दस्य मुख्यार्थपरत्वं वारयति —
ब्रह्मेत्योङ्कार इति ।
भूरिति वा ऋच इत्यादिना वेदावयवभूतशब्दसंनिधाने मुख्यार्थग्रहणायोगात् , चतुर्थव्याहृतौ पूर्वमेव मुख्यब्रह्मदृष्टेरुक्तत्वेन पौनरुक्त्यप्रसङ्गाच्चेत्यपि द्रष्टव्यम् ।
धा-शब्दस्य प्रकारवचनत्वे सति चतस्रश्चतुर्धेति वाक्यस्य फलितमर्थं क्रियाध्याहारपूर्वकं दर्शयति —
चतस्रश्चतस्रः सत्य इति ।
स्वरूपेण चतस्रो व्याहृतयो द्रष्टव्यलोकादिभेदेन प्रत्येकं चतस्रः सत्य इत्यर्थः ।
ननु व्याहृतिषु प्रत्येकं पदार्थचतुष्टयदृष्टिवाक्येभ्य एव तासां प्रत्येकं चतुर्धात्वक्लृप्तिसिद्धेः चतस्रश्चतुर्धेति वाक्यं पुनरुक्तमिति ; नेत्याह —
तासां यथाक्लृप्तानामिति ।
भूरिति वा अयं लोक इत्यादिवचनानां व्याहृतिस्तुतिपरत्वशङ्कानिरासेन तथैवोपासनकर्तव्यतावश्यिकत्वद्योतनार्थं इत्यर्थः । चतस्रश्चतस्रो व्याहृतय इति वाक्यं तु निरूपितानां तासामुपसंहारार्थमिति भावः ।
ज्ञातस्य ब्रह्मणः पुनर्ज्ञानोपदेशे पौनरुक्त्यं स्यादिति शङ्कते —
नन्विति ।
तद्ब्रह्मेति वाक्ये ब्रह्ममात्रमवगतं न तु तद्गुणजातम् , ‘स वेद ब्रह्म’ इति वाक्येतु वक्ष्यमाणगुणविशिष्टत्वेन ज्ञातव्यत्वमुपदिश्यते ।
तथा च वक्ष्यमाणगुणविशिष्टत्वेन पूर्वमज्ञातत्वान्न पौनरुक्त्यमिति परिहरति —
नेति ।
न च वक्ष्यमाणगुणानामपि वक्ष्यमाणानुवाकेनैवावगन्तुं शक्यत्वादिदं वचनं व्यर्थमेव स्यादिति वाच्यम् ; एतदनुवाकावगते चतुर्थव्याहृत्यात्मके ब्रह्मणि वक्ष्यमाणगुणवत्त्वावगमस्यैतद्वचनाधीनत्वेन वैयर्थ्याप्रसक्तेरिति भावः ।
सङ्ग्रहं विवृणोति —
सत्यमित्यादिना ।
न तु तद्विशेषो विज्ञायत इति सम्बन्धः ।
तस्य ब्रह्मणो विशेषमेव विवृणोति —
हृदयान्तरित्यादिना ।
योऽयमुत्तरानुवाकोपक्रमे दर्शितो हृदयान्तरुपलभ्यमानत्वमनोमयत्वादिर्हिरण्मयत्वान्तो गुणपूगः यश्च तदुपसंहारे प्रदर्शित आकाशशरीरत्वादिशान्तिसमृद्धमित्येवमन्तो धर्मपूगः, स न ज्ञायत इत्यर्थः । विशेषणविशेष्यरूप इत्यत्र विशेष्यपदमविवक्षितार्थम् ; अत एव धर्मपूगस्य विशेषणत्वमात्रमेव वक्ष्यति — धर्मपूगेण विशिष्टं ब्रह्मेति । यद्वा अत्र विशेषणानां पाठक्रमानुसारेण क्रमविशिष्टतया चिन्तनमभिप्रेत्य विशेषणविशेष्यरूपत्वमुक्तम् ; तच्च पूर्वापरीभूतत्वरूपम् । अत एव ‘इति प्राचीनयोग्य’ इत्यत्र इति-शब्देन प्रकारवाचिना क्रमविशिष्टतयैव गुणानामुपासनं प्रतीयत इति बोध्यम् ।
ननु तद्ब्रह्म स आत्मेत्यत्रास्तु तद्विशेषाज्ञानम् ; ततः किम् ? तत्राह —
तद्विवक्ष्विति ।
एवं पौनरुक्त्यदोषं परिहृत्य स वेद ब्रह्मेति वाक्यस्यार्थं कथयति —
यो हीति ।
ननु लोकादिदृष्टिपरिगृहीतव्याहृतिशरीरब्रह्मोपासनविधायकस्यास्यानुवाकस्य वक्ष्यमाणेनानुवाकेनैकवाक्यतां विना कथं तत्रत्यगुणानामत्रान्वय इत्याशङ्क्य वक्ष्यमाणगुणाकर्षकात्स वेद ब्रह्मेति वाक्यादेवानयोरेकवाक्यत्वं कल्प्यत इत्याशयेनाह —
अतो वक्ष्यमाणेति ।
नन्वनुवाकद्वये उपासनैक्यं विना कथमेकवाक्यत्वम् , अर्थैक्यनिबन्धनत्वादेकवाक्यताया इत्याशङ्क्य, तदपि वक्ष्यमाणगुणाकर्षकवाक्यबलादेव कल्प्यत इत्याशयेनाह —
उभयोरिति ।
लिङ्गाच्चोपासनमेकमेवेत्युक्तमेव विवृणोति —
भूरित्यग्नाविति ।
व्याहृत्यनुवाकोक्तानामग्न्यादिदृष्टीनां वक्ष्यमाणानुवाके फलकथनलिङ्गाद्व्याहृतिशरीरब्रह्मोपासनमुभयत्रैकमिति गम्यत इत्यर्थः ।
विधायकाभावाच्चेति ।
उपासनभेदकविध्यभावादित्यर्थः ।
तमेव विवृणोति —
न हीति ।
ननु व्याहृत्यनुवाकस्थः ‘ता यो वेद’ इति विधिरेव तद्भेदकोऽस्तु ; नेत्याह —
ता यो वेदेति त्विति ।
इतिशब्दो वेदेति विधिं परामृशति ; तथा च ‘ता यो वेद’ इत्ययं विधिर्नोपासनभेदक इति योजना । अयं भावः - ‘ता यो वेद’ इत्यत्र व्याहृतिशरीरस्य ब्रह्मणः प्रधानविद्याविधिरुत्तरानुवाके गुणविधिरिति प्रकारेणोपासनैक्येऽपि ‘ता यो वेद’ इति विधिसम्भवान्न तस्य विद्याभेदकत्वमिति ।
ननु तर्हि ‘स वेद ब्रह्म’ इति विधिर्भेदकोऽस्तु ; नेत्याह —
वक्ष्यमाणार्थत्वान्नोपासनभेदक इति ।
‘स वेद ब्रह्म’ इति वाक्यं व्याहृत्यनुवाकस्थे ब्रह्मोपासने वक्ष्यमाणगुणाकर्षणार्थत्वान्न विद्यैक्यविरोधि, किं तु तदनुकूलमेवेत्यर्थः ।
हेत्वसिद्धिं पूर्वोक्तार्थस्मारणेन निराचष्टे —
वक्ष्यमाणार्थत्वं चेति ।
विदुषे देवाः कदा बलिं प्रयच्छन्तीत्याकाङ्क्षायां स्वाराज्यप्राप्त्यनन्तरमित्याशयेनाह —
स्वाराज्येति ।
स्वयमेव राजा स्वराट् , तस्य भावः स्वाराज्यम् , अङ्गदेवताधिपतित्वमिति यावत् । तत्प्राप्त्यनन्तरमेवाङ्गदेवताभिर्बल्युपहारणमुचितम् ; अत एवार्थक्रमानुसारेण ‘सर्वेऽस्मै देवाः’ इति वाक्यम् ‘आप्नोति स्वाराज्यम्’ इति वाक्यानन्तरं पठनीयम् । एतच्चाग्रे स्फुटं वक्ष्यति - स्वयमेव राजाधिपतिर्भवत्यङ्गभूतानां देवतानां यथा ब्रह्म देवाश्च सर्वेऽस्मै बलिमावहन्तीति । एतेनानुवाकयोः पृथक्फलश्रवणादुपासनभेद इति शङ्कापि निरस्ता भवति फलभदेश्रवणस्यैवासिद्धेरिति ॥