तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
भूर्भुवः सुवः स्वरूपा मह इत्येतस्य हिरण्यगर्भस्य व्याहृत्यात्मनो ब्रह्मणोऽङ्गान्यन्या देवता इत्युक्तम् । यस्य ता अङ्गभूताः, तस्यैतस्य ब्रह्मणः साक्षादुपलब्ध्यर्थमुपासनार्थं च हृदयाकाशः स्थानमुच्यते, सालग्राम इव विष्णोः । तस्मिन्हि तद्ब्रह्म उपास्यमानं मनोमयत्वादिधर्मविशिष्टं साक्षादुपलभ्यते, पाणाविवामलकम् । मार्गश्च सर्वात्मभावप्रतिपत्तये वक्तव्य इत्यनुवाक आरभ्यते -

वृत्तानुवादपूर्वकमुत्तरानुवाकतात्पर्यमाह —

भूर्भुवरित्यादिना ।

मह इति व्याहृत्यपेक्षया अन्या भूर्भुवःसुवःस्वरूपा व्याहृतयो देवतादिरूपाश्चतुर्थव्याहृत्यात्मकस्य ब्रह्मणोऽङ्गानीत्युक्तमित्यर्थः ।

एतस्येति ।

स इति तच्छब्देनास्मिन्ननुवाके समाकृष्टस्येत्यर्थः । पुरुषपदापेक्षया स इति पुंलिङ्गनिर्देश इति न तद्विरोधः । उपासनार्थं साक्षादुपलब्ध्यर्थं चेत्यर्थक्रमः उपासनफलत्वात्साक्षात्कारस्य ।

उपासनार्थं स्थानविशेषोपदेशे दृष्टान्तमाह —

सालग्राम इवेति ।

साक्षादुपलब्ध्यर्थमित्युक्तं प्रपञ्चयति —

तस्मिन्हीति ।

उपासकानामिदं प्रसिद्धमिति द्योतनार्थो हि-शब्दः ।