तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् । आप्नोति मनसस्पतिम् । वाक्पतिश्चक्षुष्पतिः । श्रोत्रपतिर्विज्ञानपतिः । एतत्ततो भवति । आकाशशरीरं ब्रह्म । सत्यात्म प्राणारामं मन आनन्दम् । शान्तिसमृद्धममृतम् । इति प्राचीनयोग्योपास्स्व ॥ २ ॥
स इति व्युत्क्रम्य अयं पुरुष इत्यनेन सम्बन्ध्यते । य एष अन्तर्हृदये हृदयस्यान्तः । हृदयमिति पुण्डरीकाकारो मांसपिण्डः प्राणायतनोऽनेकनाडीसुषिर ऊर्ध्वनालोऽधोमुखो विशस्यमाने पशौ प्रसिद्ध उपलभ्यते । तस्यान्तः य एष आकाशः प्रसिद्ध एव करकाकाशवत् , तस्मिन् सोऽयं पुरुषः, पुरि शयनात् , पूर्णा वा भूरादयो लोका येनेति पुरुषः मनोमयः, मनः विज्ञानं मनुतेर्ज्ञानकर्मणः, तन्मयः तत्प्रायः, तदुपलभ्यत्वात् । मनुते अनेनेति वा मनः अन्तःकरणम् ; तदभिमानी तन्मयः, तल्लिङ्गो वा । अमृतः अमरणधर्मा । हिरण्मयः ज्योतिर्मयः । तस्यैवंलक्षणस्य हृदयाकाशे साक्षात्कृतस्य विदुष आत्मभूतस्य ईश्वररूपस्य प्रतिपत्तये मार्गोऽभिधीयते - हृदयादूर्ध्वं प्रवृत्ता सुषुम्ना नाम नाडी योगशास्त्रेषु प्रसिद्धा । सा च अन्तरेण तालुके मध्ये तालुकयोर्गता । यश्च एष तालुकयोर्मध्ये स्तन इव अवलम्बते मांसखण्डः, तस्य च अन्तरेण इत्येतत् । यत्र च असौ केशान्तः केशानामन्तो मूलं केशान्तः विवर्तते विभागेन वर्तते, मूर्धप्रदेश इत्यर्थः ; तं देशं प्राप्य तेनान्तरेण व्यपोह्य विभज्य विदार्य शीर्षकपाले शिरःकपाले, विनिर्गता या, सा इन्द्रयोनिः इन्द्रस्य ब्रह्मणः योनिः मार्गः, स्वरूपप्रतिपत्तिद्वारमित्यर्थः । तथा एवं विद्वान्मनोमयात्मदर्शी मूर्ध्नो विनिष्क्रम्य अस्य लोकस्याधिष्ठाता भूरिति व्याहृतिरूपो योऽग्निः महतो ब्रह्मणोऽङ्गभूतः, तस्मिन् अग्नौ प्रतितिष्ठति, अग्न्यात्मना इमं लोकं व्याप्नोतीत्यर्थः । तथा भुव इति द्वितीयव्याहृत्यात्मनि वायौ, प्रतितिष्ठतीत्यनुवर्तते । सुवरिति तृतीयव्याहृत्यात्मनि आदित्ये । मह इत्यङ्गिनि चतुर्थव्याहृत्यात्मनि ब्रह्मणि प्रतितिष्ठतीति । तेष्वात्मभावेन स्थित्वा आप्नोति ब्रह्मभूतं स्वाराज्यं स्वराड्भावं स्वयमेव राजा अधिपतिर्भवति अङ्गभूतानां देवतानां यथा ब्रह्म ; देवाश्च सर्वे अस्मै अङ्गिने बलिमावहन्ति अङ्गभूताः यथा ब्रह्मणे । आप्नोति मनसस्पतिम् , सर्वेषां हि मनसां पतिः, सर्वात्मकत्वाद्ब्रह्मणः सर्वैर्हि मनोभिस्तन्मनुते । तदाप्नोत्येवं विद्वान् । किं च, वाक्पतिः सर्वासां वाचां पतिर्भवति । तथैव चक्षुष्पतिः चक्षुषां पतिः । श्रोत्रपतिः श्रोत्राणां च पतिः । विज्ञानपतिः विज्ञानानां च पतिः । सर्वात्मकत्वात्सर्वप्राणिनां करणैस्तद्वान्भवतीत्यर्थः । किं च, ततोऽपि अधिकतरम् एतत् भवति । किं तत् ? उच्यते - आकाशशरीरम् आकाशः शरीरमस्य, आकाशवद्वा सूक्ष्मं शरीरमस्येत्याकाशशरीरम् । किं तत् ? प्रकृतं ब्रह्म । सत्यात्म, सत्यं मूर्तामूर्तम् अवितथं स्वरूपं वा आत्मा स्वभावोऽस्य, तदिदं सत्यात्म । प्राणारामम् , प्राणेष्वारमणमाक्रीडा यस्य तत्प्राणारामम् ; प्राणानां वा आरामो यस्मिन् , तत्प्राणारामम् । मन आनन्दम् , आनन्दभूतं सुखकृदेव यस्य मनः, तन्मन आनन्दम् । शान्तिसमृद्धम् , शान्तिरुपशमः, शान्तिश्च तत्समृद्धं च शान्तिसमृद्धम् ; शान्त्या वा समृद्धवत्तदुपलभ्यत इति शान्तिसमृद्धम् । अमृतम् अमरणधर्मि, एतच्चाधिकरणविशेषणं तत्रैव मनोमय इत्यादौ द्रष्टव्यमिति । एवं मनोमयत्वादिधर्मैर्विशिष्टं यथोक्तं ब्रह्म हे प्राचीनयोग्य, उपास्स्व इत्याचार्यवचनोक्तिरादरार्था । उक्तस्तूपासनाशब्दार्थः ॥

व्युत्क्रम्येति ; पुण्डरीकेति ; प्राणायतन इति ; अनेकेति ; विशस्यमान इति ; प्रसिद्ध एवेति ; मनो ज्ञानमिति ; मनुतेरिति ; तत्प्राय इति ; तदुपलभ्यत्वादिति ; तल्लिङ्गो वेति ; ज्योतिर्मय इति ; इन्द्ररूपस्येति ; हृदयादूर्ध्वमिति ; सुषुम्नेति ; स्तन इवेति ; तेनेति ; लोकस्येति ; इमं लोकमिति ; आत्मभावेन स्थित्वेति ; ब्रह्मभूतमिति ; सर्वात्मकत्वाद्ब्रह्मण इति ; सर्वैर्हीति ; किं चेति ; सर्वप्राणिनामिति ; किं च ततोऽपीति ; शरीरमस्येति ; सूक्ष्ममिति ; सत्यमिति ; अवितथमिति ; प्राणेष्विति ; प्राणानां वेति ; यस्मिन्निति ; मन इत्यादिना ; शान्तिश्चेति ; समृद्धं चेति ; शान्त्या वेति ; एतच्चेति ; आदरार्थेति ; उक्त एवेति ;

व्युत्क्रम्येति ।

संनिहितमाकाशमुल्लङ्घ्येत्यर्थः ।

हृदयस्वरूपमाह —

पुण्डरीकेति ।

प्राणायतन इति ।

‘हृदि प्राणः’ इति प्रसिद्धेरिति भावः ।

अनेकेति ।

अनेकनाड्याश्रयभूतानि सुषिराणि यस्येति विग्रहः ।

पुण्डरीकाकारत्वाधोमुखत्वोर्ध्वनालत्वविशिष्टे मांसखण्डे मानमाह —

विशस्यमान इति ।

‘पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम्’ इत्यादिश्रुतिप्रसिद्धो यथोक्तमांसखण्डो विशस्यमाने पशौ प्रत्यक्षत उपलभ्यत इत्यर्थः ।

प्रसिद्ध एवेति ।

‘योऽयमन्तर्हृदय आकाशः’ इत्यादिश्रुतिष्विति शेषः । करकाकाशो यथा प्रसिद्ध इति दृष्टान्तयोजना । पुरि हृदये शरीरे वा शयनादवस्थानात्पुरुषः, पूर्णत्वाद्वा पुरुषः, भूरादयः पूर्णा येन स पुरुष इति वा ।

मननं मन इति भावव्युत्पत्तिमाश्रित्याह —

मनो ज्ञानमिति ।

मननं ज्ञानमित्यत्र हेतुमाह —

मनुतेरिति ।

ज्ञानं कर्म क्रिया वाच्यभूता यस्य तस्मान्मनुतेर्धातोर्निष्पन्नो मनःशब्दो यतो ज्ञानवाचीत्यर्थः ।

पुरुषस्य मनोविकारत्वाभावादाह —

तत्प्राय इति ।

मनःप्रधान इत्यर्थः ।

तत्र हेतुमाह —

तदुपलभ्यत्वादिति ।

तेनोपासनसंस्कृतेन मनसोपलभ्यमानत्वादित्यर्थः ।

तल्लिङ्गो वेति ।

अस्मदादिमनसा अस्मदादिभिरनिवार्येण तन्नियन्तृतया ब्रह्मानुमानसम्भवादिति भावः ।

ज्योतिर्मय इति ।

स्वप्रकाश इत्यर्थः । व्याहृतिशरीरे ब्रह्मणि मनोमयत्वादिगुणवत्यहङ्ग्रहमभिप्रेत्य विदुष आत्मभूतस्येत्युक्तम् , अहङ्ग्रहं विना तद्भावायोगात् तद्भावं विना च स्वाराज्यप्राप्त्ययोगात् ; अतः स्वाराज्यप्राप्तिवचनानुरोधेन विदुषो ब्रह्मभावो ब्रह्मण्यहङ्ग्रहश्च कल्प्यत इति भावः । तथा च श्रुतिः - ‘देवो भूत्वा देवानप्येति’ इति । इहैव भावनया देवभावं प्राप्य देहपातोत्तरकालं देवभावं प्राप्नोतीति तदर्थः ।

इन्द्ररूपस्येति ।

‘सेन्द्रयोनिः’ इति वाक्यशेषदर्शनादिन्द्ररूपत्वमुक्तम् ।

‘शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभि निःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति’ इति श्रुत्यन्तरमनुसृत्याह —

हृदयादूर्ध्वमिति ।

श्रुतिप्रसिद्धायां शताधिकायां नाड्यां नामान्तरेण योगशास्त्रप्रसिद्धिं कथयति —

सुषुम्नेति ।

स्तन इवेति ।

आस्यान्तरिति शेषः ।

तेनेति ।

तस्येत्यर्थः । तस्य चान्तरेण अन्तर्देशं प्राप्यमाणा शीर्षकपाले व्यपोह्य या निर्गतेति योजना । विनिष्क्रम्य प्रतितिष्ठतीति सम्बन्धः ।

लोकस्येति ।

ऋग्वेदस्य प्राणस्य चेत्यर्थः ।

इमं लोकमिति ।

ऋग्वेदं प्राणं चेत्यपि द्रष्टव्यम् । प्रथमव्याहृतौ लोकाग्निऋग्वेदप्राणानां चतुर्णां दृष्टत्वेन लोकाग्निभाववदृग्वेदप्राणभावस्यापि वक्तव्यत्वात् । न च प्रधानब्रह्मोपासनफलवचनेन ‘मह इति ब्रह्मणि’ इत्यनेन सर्वात्मकब्रह्मभावे कथिते सति विदुष ऋग्वेदप्राणभावस्यापि सिद्धत्वान्न पृथक्तद्भावो वक्तव्य इति वाच्यम् ; तथा सति लोकाग्निभावस्यापि तत एव सिद्धत्वेन ‘अग्नौ प्रतितिष्ठति’ इति श्रुतिवचनमग्न्यात्मनेमं लोकं व्याप्नोतीति भाष्यवचनं चानर्थकं स्यात् । एतेन भूरिति व्याहृतौ ऋग्वेदप्राणदृष्ट्योर्ब्रह्मोपासनं प्रत्यङ्गतया प्रधानफलेनैव फलवत्त्वाच्छ्रुतौ भाष्ये च पृथक्तद्भाववचनाभाव इति शङ्कापि निरस्ता, तस्यां लोकाग्निदृष्ट्योरप्यङ्गत्वेन तत्फलस्याप्यवक्तव्यत्वापत्तेः । यदि चाङ्गानां प्रधानफलेनैव फलवत्त्वेऽप्यङ्गस्तुत्यर्थं पृथक्फलवचनमपेक्षितमित्युच्येत, तदा ऋग्वेदादिदृष्टावपि तदर्थं पृथक्फलं वक्तव्यम् ; एवमुत्तरत्रापि द्रष्टव्यमिति सङ्क्षेपः ।

आत्मभावेन स्थित्वेति ।

अत्र क्रमकथनं पाठक्रममाश्रित्य । वस्तुतस्तु क्रमो न विवक्षितः, विदुषः सर्वात्मकब्रह्मभाव एवाग्न्यादिभावस्यान्तर्भावेण क्रमाभावादिति मन्तव्यम् ।

ब्रह्मभूतमिति ।

‘मह इति ब्रह्मणि’ इति वाक्योक्तब्रह्मभावप्रयुक्तमित्यर्थः ।

उपासकः सर्वेषां हि मनसां पतिर्भवतीत्यत्र हि-शब्दसूचितं हेतुमाह —

सर्वात्मकत्वाद्ब्रह्मण इति ।

ब्रह्मभूतस्य विदुषः सर्वजीवात्मकत्वादित्यर्थः ।

ननु ब्रह्मणः सर्वात्मकत्वे सिद्धे तद्भावमापन्नस्य विदुषः सर्वात्मकत्वं स्यात् , तदेव कुत इत्यत्राह —

सर्वैर्हीति ।

तद्ब्रह्म सर्वैरुपाधिभूतैर्मनोभिः प्राप्तजीवभावं सन्मनुते चक्षुरादिद्वारा रूपादिकमनुभवति । ब्रह्मणो जीवभावे मानत्वेन प्रवेशवाक्यादिसूचनार्थो हि-शब्दः ।

न केवलमुपासकः सर्वमनसां पतिः, किं तु वागदीनामपीत्याह —

किं चेति ।

सर्वात्मकत्वादिति । विदुष इति शेषः ।

ननु त्वगादिपतित्वमपि कुतो नोक्तमित्याशङ्क्य आप्नोति मनसस्पतिमित्यादेर्विवक्षितमर्थमाह —

सर्वप्राणिनामिति ।

तद्वानिति । नियम्यनियामकभावसम्बन्धो मत्वर्थः ।

न केवलमेतावदेव विदुषः फलं भवति, किं त्वितोऽपि बहु फलं भवतीत्याह —

किं च ततोऽपीति ।

शरीरमस्येति ।

शरीरपदं स्वरूपपरम् ; ततश्च आकाशमधिष्ठानभूतस्य ब्रह्मणः कल्पितं स्वरूपमित्यर्थः ।

सूक्ष्ममिति ।

जलादिभिर्दुःखादिभिश्च संश्लेषायोग्यत्वं सूक्ष्मत्वम् ; तदाह भगवान् - ‘यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते’ इति ।

सत्यमिति ।

सद्भूतत्रयलक्षणं मूर्तम् , त्यद्वाय्वाकाशात्मकममूर्तम् , तदुभयं सच्च त्यच्च सत्त्यमिति व्युत्पत्त्या सत्त्यशब्दवाच्यम् , तदात्मा कल्पितं रूपमस्येत्यर्थः ।

सत्यशब्दस्य परमार्थवस्तुनि रूढिमाश्रित्याह —

अवितथमिति ।

प्राणेष्विति ।

सविषयेष्विन्द्रियेष्वित्यर्थः । इदं च व्याख्यानं ब्रह्मणो जीवभावाभिप्रायम् ।

केवलब्रह्मपरत्वेनापि व्याचष्टे —

प्राणानां वेति ।

यस्मिन्निति ।

यस्मिन्ब्रह्मणि नियन्तृरूपे सतीत्यर्थः ।

मनआनन्दमिति पदं ब्रह्मणो जीवभावाभिप्रायेणैव व्याचष्टे —

मन इत्यादिना ।

शान्तिश्चेति ।

सर्वद्वैतनिवृत्तिरूपमित्यर्थः । अज्ञानतत्कार्यध्वंसस्याधिष्ठानब्रह्मानतिरेकादिति भावः ।

समृद्धं चेति ।

सम्यगात्मभावेन ऋद्धिं व्याप्तिं गतं समृद्धम् , सर्वव्यापकमित्यर्थः ।

शान्त्या वेति ।

सर्ववृत्त्युपरमलक्षणया समाधिशब्दितया शान्त्या समृद्धवत्पूर्णान्दरूपेण योगिभिरुपलभ्यत इत्यर्थः ।

एतच्चेति ।

ननु फलत्वेनोक्तस्याधिकतरविशेषणस्य कथमुपास्यगुणान्तर्भाव उच्यते ? नैष दोषः, ‘तं यथा यथोपासते’ इति श्रुत्या फलत्वेनावगतस्यापि विशेषणजातस्य ध्येयत्वावगमात् , विशिष्यात्र व्यवहितसंनिहितसकलगुणपूगलक्षणप्रकारपरामर्शिनेतिपदेनाधिकतरविशेषणस्याप्युपास्तिं प्रति विषयतया समर्पणाच्च । न चैवम् ‘आप्नोति स्वाराज्यम्’ इत्यादावुक्तानां सर्वदेवाधिपतित्वसर्वदेवपूज्यत्वसर्वकरणपतित्वानामपि फलरूपाणामुपास्यगुणत्वप्रसङ्ग इति वाच्यम् ; इष्टत्वात् । तत्सङ्ग्रहार्थ एवैतच्चेत्यत्र चकार इति सङ्क्षेपः ।

ननु उपासनस्य श्रुत्या स्वेन रूपेणोक्तावप्यनुष्ठानसिद्धेः आचार्योक्तिकल्पनं मुधा, नेत्याह —

आदरार्थेति ।

उपासनानुष्ठाने आदरातिशयसिद्ध्यर्थेत्यर्थः ।

उक्त एवेति ।

उपासनं च यथाशास्त्रमित्यादाविति शेषः । नन्वत्र किमपरं ब्रह्मोपास्यं किं वा परं ब्रह्मेति ? किमत्र संशयकारणम् ? परं चापरं च ब्रह्मेत्यादावुभयत्र ब्रह्मशब्दप्रयोगदर्शनमेव । अत्र केचिदपरमेव ध्येयमिति वदन्ति । तथाहि - प्राणारामत्व मनआनन्दत्वयोः सूत्रात्मनि हिरण्यगर्भे स्वारस्यान्मनोमयपदस्य मनोभिमानीति भाष्यदर्शनेन भाष्कारस्यापि तत्रानुमत्यवगमाच्च, अन्येषामपि विशेषणानां तस्मिन्नेव यथाकथञ्चिदुपपादनसम्भवाच्चापरमेवात्र विवक्षितमिति । अन्ये तु परमीश्वररूपमेवात्र ब्रह्म ध्येयमिति वदन्ति । तथा हि - परं ब्रह्मैवात्र विवक्षितम् , ब्रह्मशब्दस्य तत्र मुख्यत्वात् ; नापरम् , तत्र तस्यामुख्यत्वात् ; तदुक्तं सूत्रकारेण ‘सामीप्यात्तु तद्व्यपदेशः’ इति । परब्रह्मसामीप्यादेव सूत्रात्मनि ब्रह्मशब्दप्रयोगो न मुख्यवृत्त्येति तदर्थः । तथा अमृतत्वं परस्यैव ब्रह्मणो लिङ्गम् । न च ‘सैषानस्तमिता देवता’ इत्यादावपरस्यापि नाशराहित्यरूपममृतत्वं श्रूयत इति वाच्यम् ; तस्यावान्तरप्रलये नाशाभावश्रवणेऽपि महाप्रलये नाशश्रवणेन मुख्यामृतत्वासम्भवात् । न च ‘प्राणारामं मनआनन्दम्’ इति लिङ्गद्वयानुरोधेनापेक्षिकमेवामृतत्वमिहास्त्विति वाच्यम् ; ब्रह्मश्रुत्यनुरोधेन मुख्यामृतत्वग्रहणसम्भवे दुर्बललिङ्गानुरोधेनापेक्षिकामृतत्वग्रहणायोगात् , उपसंहारेऽप्यमृतत्वश्रवणेनोपक्रमोपसंहारस्पर्शित्वलक्षणतात्पर्यलिङ्ग - युक्तस्यामृतत्वस्य तद्रहितप्राणारामत्वादिलिङ्गानुरोधेनान्यथानयनायोगाच्च । तथा पुरुषपदोदितं पूर्णत्वं हिरण्मयपदोदितं स्वयञ्ज्योतिष्ट्वमिन्द्रपदोदितं पारमैश्वर्यमाकाशशरीरपदोदितमाकाशदेहत्वं सूक्ष्मत्वं वा सत्यात्मपदोदितमवितथस्वभावत्वं शान्तिसमृद्धपदोदितं सर्वप्रपञ्चोपशमात्मकत्वमित्येतेषां लिङ्गानां परब्रह्मण्येव स्वारस्याच्च । मनोमयपदस्याप्यर्थत्रयं भाष्ये दर्शितम् । तत्र प्रथमतृतीयार्थौ परापरब्रह्मणोः साधारणौ । मनोभिमानीत्यर्थप्रदर्शनमात्रमपरब्रह्मपक्षपाति । तथा प्राणारामत्वमनआनन्दत्वे अपि । न चैतावता हिरण्यगर्भाख्यं ब्रह्म श्रुतिभाष्ययोरभिप्रेतमिति निश्चेतुं शक्यते । शाण्डिल्यविद्यादौ मनोमयत्वप्राणशरीरत्ववदत्रापि ब्रह्मणः सार्वात्म्यप्रयुक्ततया तेषामपि परस्मिन्ब्रह्मण्युपपत्तेः सार्वात्म्यं च प्रकृतस्य ब्रह्मणो दर्शितम् । न चैतत्परब्रह्मणोऽन्यत्र मुख्यं सम्भवति । तस्मात्परमेव ब्रह्मात्रोपास्यमिति सङ्क्षेपः ॥