तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशः । अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि । आप ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम् । अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः समानः । चक्षुः श्रोत्रं मनो वाक् त्वक् । चर्म मांसंस्नावास्थि मज्जा । एतदधिविधाय ऋषिरवोचत् । पाङ्क्तं वा इदं सर्वम् । पाङ्क्तेनैव पाङ्क्तं स्पृणोतीति ॥ १ ॥
पञ्चसङ्ख्यायोगात्पङ्क्तिच्छन्दः सम्पक्तिः ; ततः पाङ्क्तत्वं सर्वस्य । पाङ्क्तश्च यज्ञः, ‘पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः’ इति श्रुतेः । तेन यत्सर्वं लोकाद्यात्मान्तं च पाङ्क्तं परिकल्पयति, यज्ञमेव तत्परिकल्पयति । तेन यज्ञेन परिकल्पितेन पाङ्क्तात्मकं प्रजापतिमभिसम्पद्यते । तत्कथं पाङ्क्तं वा इदं सर्वमित्यत आह - पृथिवी अन्तरिक्षं द्यौः दिशः अवान्तरदिशः इति लोकपाङ्क्तम् । अग्निः वायुः आदित्यः चन्द्रमाः नक्षत्राणि इति देवतापाङ्क्तम् । आपः ओषधयः वनस्पतयः आकाशः आत्मा इति भूतपाङ्क्तम् । आत्मेति विराट् , भूताधिकारात् । इत्यधिभूतमिति अधिलोकाधिदैवतपाङ्क्तद्वयोपलक्षणार्थम् , लोकदेवतापाङ्क्तयोर्द्वयोश्चाभिहितत्वात् । अथ अनन्तरम् अध्यात्मं पाङ्क्तत्रयमुच्यते - प्राणादि वायुपाङ्क्तम् । चक्षुरादि इन्द्रियपाङ्क्तम् । चर्मादि धातुपाङ्क्तम् । एतावद्धीदं सर्वमध्यात्मं बाह्यं च पाङ्क्तमेव इति एतत् एवम् अधिविधाय परिकल्प्य ऋषिः वेदः एतद्दर्शनसम्पन्नो वा कश्चिदृषिः, अवोचत् उक्तवान् । किमित्याह - पाङ्क्तं वा इदं सर्वं पाङ्क्तेनैव आध्यात्मिकेन, सङ्ख्यासामान्यात् , पाङ्क्तं बाह्यं स्पृणोति बलयति पूरयति एकात्मतयोपलभ्यत इत्येतत् । एवं पाङ्क्तमिदं सर्वमिति यो वेद, स प्रजापत्यात्मैव भवतीत्यर्थः ॥

पृथिव्यादिजगतः कथं पाङ्क्तत्वमित्याकाङ्क्षायां पङ्क्त्याख्यस्य च्छन्दसः पृथिव्यादौ सम्पादनादित्याह —

पञ्चसङ्ख्येति ।

न केवलं पञ्चसङ्ख्यायोगात्पङ्क्तिच्छन्दःसम्पादनम् , यज्ञत्वसम्पादनमपि कर्तुं शक्यत इत्याह —

पाङ्क्तश्च यज्ञ इति ।

पत्नीयजमानपुत्रदैवमानुषवित्तैः पञ्चभिर्योगाद्यज्ञः पाङ्क्त इत्यर्थः । दैववित्तमुपासनं मानुषवित्तं गवादीति विभागः ।

पङ्क्तिच्छन्दसो यज्ञस्य च पञ्चसङ्ख्यायोगात्पाङ्क्तत्वे क्रमेण श्रुतीर्दर्शयति —

पञ्चाक्षरेति ।

जगतो यज्ञत्वसम्पादनमेव दर्शयति —

तेनेति ।

पञ्चसङ्ख्यायोगलक्षणेन यज्ञसाम्येनेत्यर्थः ।

लोकाद्यात्मान्तं चेति ।

प्राणादिमज्जान्तं चेति चकारार्थः । परिकल्पयति, श्रुतिरिति शेषः ।

एवं ब्रह्मोपाधिभूतं सर्वं जगत्पङ्क्तिच्छन्दोरूपं यज्ञरूपं च परिकल्प्य तादृक्पाङ्क्तजगदात्मकं प्रकृतं ब्रह्माहमस्मीति चिन्तयतः किं फलं भवतीत्याकाङ्क्षायामाह —

तेन यज्ञेनेति ।

प्रजापतिमिति ।

स्थूलसर्वप्रपञ्चोपाधिकस्य ब्रह्मणः प्रजापतिरूपत्वात् ‘तं यथा यथोपासते’ इति न्यायेन जगदात्मब्रह्मोपासनाज्जगदात्मानं प्रजापतिमेव प्राप्नोतीत्यर्थः ।

एवं तात्पर्यमुक्त्वा पृथिव्यादिजगतः पञ्चसङ्ख्यायोगात्पाङ्क्तस्वरूपत्वं प्रश्नपूर्वकं श्रुत्या दर्शयति —

तत्कथमित्यादिना ।

विराडिति ।

‘आप ओषधयः’ इत्यादिस्थूलभूताधिकाराद्भूतमयो विराड्देह इहात्मशब्दार्थ इत्यर्थः ।

इत्यधिभूतमित्युपसंहारवचनमित्यधिलोकमित्यधिदैवतमित्येवंरूपयोरधिलोकाधिदैवतपाङ्क्तद्वयोपसंहारवचनयोरुपलक्षणार्थमित्यत्र हेतुमाह —

लोकदेवतापाङ्क्तयोश्चेति ।

तयोरपि पूर्वमुक्तत्वादित्यर्थः ।

अध्यात्ममिति ।

आत्मा देहः, तमधिकृत्य वर्तमानमध्यात्ममित्यर्थः ।

ननु पाङ्क्तषट्ककथनेन कथं सर्वस्य जगतः पाङ्क्तत्वमुक्तम् ? तत्राह —

एतावद्धीति ।

यद्बाह्यमध्यात्मं च पाङ्क्तं श्रुत्या दर्शितम् एतावदेवेदं सर्वं जगत् , न ततोऽधिकमस्तीत्यवगन्तव्यमित्यर्थः ।

श्रुतिप्रदर्शितपाङ्क्तषट्के कृत्स्नस्य जगतोऽन्तर्भावः प्रसिद्ध इति हि-शब्दार्थः । उपासनाविधिं दर्शयति —

एतदेवमिति ।

एतज्जगदेवं पाङ्क्तरूपेणेत्यर्थः । उक्तवानित्यस्येतिशब्देन सम्बन्धः ।

सङ्ख्यासामान्यादिति ।

आध्यात्मिकमपि पाङ्क्तत्रयं बाह्यमपि पाङ्क्तत्रयमित्यस्मात्सामान्यादाध्यात्मिकेन पाङ्क्तेन बाह्यपाङ्क्तस्य पूरणमित्यर्थः ।

ननु तेन तस्य पूरणं कुसूलादरिव धान्यादिना न सम्भवतीत्याशङ्क्याह —

एकात्मतयेति ।

बाह्यमाध्यात्मिकं च सर्वं पाङ्क्तजातमेकात्मत्वेनोपलभते, पाङ्क्तजगदात्मकं ब्रह्माहमस्मीति चिन्तयेदित्युक्तवानिति यावत् ।

एतदधिविधायेत्यादिनोक्तमुपासनमनूद्य तस्य फलमुपक्रमे कथितमित्याह —

एतदेवमिति ॥