तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
व्याहृत्यात्मनो ब्रह्मण उपासनमुक्तम् । अनन्तरं च पाङ्क्तस्वरूपेण तस्यैवोपासनमुक्तम् । इदानीं सर्वोपासनाङ्गभूतस्य ओङ्कारस्योपासनं विधित्स्यते ।
व्याहृत्यात्मनो ब्रह्मण उपासनमुक्तम् । अनन्तरं च पाङ्क्तस्वरूपेण तस्यैवोपासनमुक्तम् । इदानीं सर्वोपासनाङ्गभूतस्य ओङ्कारस्योपासनं विधित्स्यते ।

उत्तरानुवाकस्य सङ्गतिं वृत्तानुवादपूर्वकं दर्शयति —

व्याहृत्यात्मन इति ।

अनन्तरं चेति ।

अव्यवहितपूर्वानुवाक इत्यर्थः ।

इदानीमिति ।

उक्तवक्ष्यमाणसर्वोपासनानां कर्मणां चाङ्गभूतो य ओङ्कारस्तस्योपासनमिदानीं विधीयते ; तथा च पूर्वोक्तोपासनेष्वङ्गत्वेनोपस्थितस्य प्रणवस्यात्रोपासनविधानात्सङ्गतिरिति भावः । न चोङ्कारस्य सर्ववैदिककर्मोपासनाङ्गत्वे मानाभाव इति वाच्यम् ; ‘तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्’ इति भगवद्वचनस्यैव मानत्वात् । ब्रह्मवादिनां वेदवादिनामित्यर्थः ।