ननु शब्दमात्ररूपस्योङ्कारस्याचेतनतया फलदातृत्वासम्भवात् कथमुपास्यत्वमित्याशङ्क्याह —
परापरेति ।
प्रतिमाद्यर्चन इव ब्रह्मैव फलदात्रिति भावः ।
ब्रह्मण एव सर्वत्र फलदातृत्वम् ‘फलमत उपपत्तेः’ इत्यधिकरणे प्रसिद्धमिति द्योतनार्थो दृष्ट्या हीत्यत्र हि-शब्दः । प्रणवस्य परापरब्रह्मदृष्ट्यालम्बनत्वं प्रसिद्धमिति सदृष्टान्तमाह —
स हीति ।
प्रणवस्य परापरब्रह्मदृष्ट्यालम्बनत्वे तद्दृष्ट्योपासितस्य तस्य परापरप्राप्तिसाधनत्वे च श्रुतिमाह —
एतेनैवेति ।
ओङ्कारेणैवायतनेन प्राप्तिसाधनेन परमपरं वा प्राप्नोतीत्यर्थः ।
एवं तात्पर्यमुक्त्वा अक्षराणि व्याचष्टे —
इतीत्यादिना ।
परिच्छेदार्थ इति ।
सङ्ग्रहार्थ इत्यर्थः ।
ओङ्कारस्य परापरब्रह्मदृष्ट्यालम्बनत्वेन श्रुतिषु प्रसिद्धत्वेऽपि प्रकृते मुख्यत्वात्परब्रह्मदृष्टिरेवोङ्कारे विवक्षितेति मत्वा तत्र ब्रह्मदृष्ट्यध्यासे किं सादृश्यमित्याकाङ्क्षायामाह —
यत ओमितीदं सर्वमिति ।
यत ओङ्कारः सर्वात्मकः ततः सर्वात्मकत्वसादृश्यादोङ्कारे सर्वात्मकब्रह्मदृष्टिर्युक्तेति भावः ।
ननु ब्रह्मणः सर्वात्मकत्वम् ‘सर्वं खल्विदं ब्रह्म’ इत्यादिश्रुतिसिद्धम् ; ओङ्कारस्य तु कथं सार्वात्म्यमित्याशङ्क्याह —
सर्वं हीति ।
नन्वोङ्कारस्य सर्वशब्दात्मकत्वेऽपि कथमर्थप्रपञ्चात्मकत्वमित्याशङ्क्य शब्दद्वारेत्याह —
अभिधानतन्त्रं हीति ।
अभिधेयजातस्याभिधानाधीनसिद्धिकत्वाद्वाच्यवाचकयोस्तादात्म्यस्वीकाराच्चाभिधेयजातस्याभिधानेऽन्तर्भावः सम्भवतीत्यर्थः ।
अत इदमिति ।
प्रणवसार्वात्म्यस्यापि श्रुत्यादिसिद्धत्वादिदं सर्वमोङ्कार इति प्रसिद्धवदुपदिश्यते ओमितीदं सर्वमिति वचसेत्यर्थः ।
ननु प्रथमवाक्येन प्रणवे ब्रह्मदृष्टिर्विहिता, तत्र तद्दृष्टिकरणे नियामकं द्वितीयवाक्येन दर्शितम् , अतो विवक्षितार्थस्य सिद्धत्वात्किमुत्तरग्रन्थेनेत्याशङ्क्याह —
ओङ्कारस्तुत्यर्थ इति ।
अनुकरणमिति ।
अनुज्ञानरूपमिति यावत् । केनचित्करोमीत्युक्त्वा कृतं कर्मान्य ओमित्यनुकरोति अनुजानाति, तथा यास्यामि विष्ण्वालयमित्युक्तमन्य ओमित्यनुकरोतीति योजना ।
प्रसिद्धं हीति ।
प्रसिद्धिश्च करोमीत्यादिना पूर्वं प्रदर्शितैव ।
अप्यो श्रावयेत्यत्र अपि-शब्दो वक्ष्यमाणोदाहरणसमुच्चयार्थ इति मत्वाह —
अपि चेति ।
प्रैषपूर्वकमिति । ‘ओ श्रावय’ इति मन्त्रगतेनोङ्कारेणाग्नीध्रसम्बोधनपूर्वकमित्यर्थः । तदुक्तं वेदभाष्ये - ‘मन्त्रगतओङ्कार आग्नीध्रसम्बोधनार्थः । हे आग्नीध्र देवान्प्रति हविःप्रदानावसरं श्रावयेति मन्त्रार्थः’ इति ।
आश्रावयन्तीत्यस्यार्थमाह —
प्रतिश्रावयन्तीति ।
प्रतिश्रवं कारयन्ति, प्रत्याश्रवणं कारयन्तीतित यावत् । शस्त्रशंसितारो होतारः, तेऽपि ’शों सावोम्’ इत्युपक्रम्य शस्त्राणि शंसन्ति, तान्योमिति समापयतन्ति चेत्यर्थः ।
प्रतिगरमिति ।
’ओऽथामोद इव’ इति मन्त्रमित्यर्थः । ओकारेण होता सम्बोध्यते ; हे होतः अथ अर्धर्चशंसनानन्तरमस्माकमामोद इव हर्ष एव सम्पन्न इति तदर्थः ।
ब्रह्मेति ।
ऋत्विग्विशेषो ब्रह्मा यदा अन्येषामृत्विजामनुज्ञां प्रयच्छति तदा ओं प्रोक्षेत्यादिरूपेण प्रणवपुरःसरमेव प्रसौति ।
तस्यार्थमाह —
अनुजानातीति ।
जुहोमीत्युक्तवन्तं प्रत्यन्य ओमित्येवानुज्ञां प्रयच्छतीत्यर्थः ।
प्रवचनं करिष्यन्निति ।
प्रवक्ष्यन्निति ‘वच परिभाषणे’ इत्यस्य रूपमस्मिन्व्याख्याने ; द्वितीयव्याख्याने तु ‘वह प्रापणे’ इत्यस्यान्तर्भावितण्यर्थस्य रूपमिति भेदः ।
वेदमिति ।
वेदं ग्रहीष्यामीत्यभिसन्धिमानादावोमित्येवाध्येतुं ब्राह्मण उपक्रमत इत्यर्थः ।
अध्ययनफलभूतां वेदावाप्तिं कथयति ब्रह्मैवोपाप्नोतीति ; तद्योजयति —
उपाप्नोत्येवेति ।
प्रापयिष्यन्निति । परमात्मानमुपाप्नवानि प्रत्यक्त्वेन प्राप्नुयामित्यभिसन्धिमान्ब्राह्मण आत्मानं ब्रह्म प्रापयिष्यन्नात्मनो ब्रह्मभावप्राप्त्युपायमन्विष्यन्नोमित्याहेत्यर्थः ।
स चेति ।
स च ब्राह्मणस्तेनोङ्कारेण आत्मज्ञानलक्षणमुपायं लब्ध्वा ब्रह्म प्राप्नोत्येवेत्यर्थः ।
विवक्षितमनुवाकार्थं सङ्क्षिप्य दर्शयति —
ओङ्कारपूर्वेति ।
अत्र यद्यपि ‘ओ श्रावय’ इति मन्त्रे ‘ओऽथामोद इव’ इति प्रतिगरनामकमन्त्रे च ओकार एव श्रूयते न त्वोङ्कारः, तथाप्योकारस्योङ्कारैकदेशत्वात्तत्पूर्व - प्रवृत्तानामप्योङ्कारपूर्वकत्वमुपचारादुक्तमिति मन्तव्यम् ॥