उत्तरानुवाकस्य व्यवहितानुवाकेन सम्बन्धमाह —
विज्ञानादेवेत्यादिना ।
कर्मणां स्वाराज्यप्राप्तावनुपयोगः प्राप्त इति शङ्कार्थः । उपासनसहकारितया तत्फलेन स्वाराज्येन कर्मणां फलवत्त्वसिद्ध्यर्थमस्मिन्ननुवाके तेषामुपन्यास इति परिहारार्थः । पुरुषार्थपदं स्वाराज्यपरम् , कर्मणामुपासनसहकारितया तत्फलं प्रत्युपयोगप्रकारश्चेत्थम् - उपासकेन स्वकर्माननुष्ठाने तदकरणसूचितेन प्रत्यवायेन प्रतिबद्धमुपासनं फलपर्यवसायि न भवेत् ; अतः प्रतिबन्धापनयद्वारा कर्मणां तत्रोपयोग इति । तथा च श्रुतिः - ‘अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते’ इति । अविद्यया कर्मणा प्रतिबन्धकपापलक्षणं मृत्युं नाशयित्वा विद्यया उपासनलक्षणया स्वाराज्यलक्षणममृतमश्नुत इति हि तदर्थः ।