व्याख्यातमिति ।
शास्त्रान्निश्चितावस्थं दर्शादिकर्मजातमृतशब्दवाच्यमिति ऋतं वदिष्यामीत्यत्र व्याख्यातमित्यर्थः ।
उपासकस्याध्यापने प्रवृत्तावुपासनानुष्ठानासम्भवादध्यापनस्य काम्यत्वेन तदकरणे प्रत्यवायाभावाच्च प्रवचनमध्यापनमिति व्याख्यानमयुक्तमित्यस्वरसादाह —
ब्रह्मयज्ञो वेति ।
यथाव्याख्यातार्थं वेति ।
शास्त्रात्कर्तव्यतया बुद्धौ विनिश्चितमेव कर्म वाक्कायाभ्यां सम्पाद्यमानं सत् सत्यशब्दवाच्यमिति सत्यं वदिष्यामीत्यत्र व्याख्यातार्थकं वात्र सत्यपदमित्यर्थः ।
कृच्छ्रादीति ।
आदिपदं चान्द्रायणादिसङ्ग्रहार्थम् । न चाशनपरित्यागप्रधाने कृच्छ्रादौ प्रवृत्तस्य कथं स्वाराज्यफलकोपासनानुष्ठानं सम्भवतीति वाच्यम् ; शक्तस्य तदुभयानुष्ठानसम्भवात् , अशक्तस्य तु धनिनो धनदानरूपं सर्वसाधारण्येन मिताशनादिरूपं वा तपो भविष्यति । तथा च श्रुतिः - ‘एतत्खलु वाव तप इत्याहुर्यः स्वं ददाति’ इति । ‘हितमितमेध्याशनं तपः’ इति योगशास्त्रे मिताशनादितपसोऽप्युक्तत्वात् । विवाहादौ बन्ध्वाद्युपचारो लौकिकः संव्यवहारः ।
प्रजाश्चोत्पाद्या इति ।
प्रजोत्पत्त्यर्थाः पुत्रकामेष्ट्यादयः कर्तव्या इत्यर्थः ।
निवेशयितव्य इति ।
निवेशो विवाहः ।
पुनः पुनः स्वाध्यायग्रहणस्य तात्पर्यमाह —
सर्वैरित्यादिना ।
यत्नतोऽनुष्ठेये इत्यत्र हेतुमाह —
स्वाध्यायाधीनां हीति ।
अध्ययनाधीनमित्यर्थः अध्ययनस्यार्थज्ञानपर्यन्तत्वं पूर्वतन्त्रप्रसिद्धमिति द्योतनार्थो हि-शब्दः ।
अर्थज्ञानायत्तं चेति ।
प्रणाड्या कर्मकाण्डार्थज्ञानायत्तं परं श्रेयः, साक्षादेव ज्ञानकाण्डार्थज्ञानायत्तं परं श्रेय इति विभागसूचनार्थश्चकारः ।
अत इति ।
स्वाध्यायस्यार्थज्ञानद्वारा परमश्रेयःसाधनत्वात्प्रवचनस्याविस्मरणादिसाधनत्वाच्चेत्यर्थः ।
सत्यमेवेति ।
अनुष्ठेयानां मध्ये सत्यमेव प्रशस्तं कर्मेति राथीतरस्य मतमिति भावः । तथा च वचनम् - ‘अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्रात्तु सत्यमेव विशिष्यते’ इति । अत्र द्वितीयनामशब्दः प्रसिद्धिद्योतकः ।
तप एवेति ।
कृच्छ्रचान्द्रायणादिमिताशनधनदानरूपं तप एव प्रशस्तं कर्मेति पौरुशिष्टेर्मतम् । तस्य प्राशस्त्यं चोत्तमलोकप्राप्तिसाधनत्वात् । तथा च श्रुतिः - ‘तपसर्षयः सुवरन्वविन्दन्’ इति ।
मौद्गल्याभिमते स्वाध्ययप्रवचनयोरुत्तमकर्मत्वे हेतुमाह श्रुतिः —
तद्धि तप इति ।
हि-शब्दार्थकथनम् —
यस्मादिति ।
तत्र स्वाध्यायशब्दितस्याध्ययनस्य नियमोपेतत्वात्तपःशब्दवाच्यत्वम् । तदुक्तम् - ‘नियमेषु तपःशब्दः’ इति । प्रवचनशब्दितस्य च ब्रह्मयज्ञस्य तपस्त्वम् ‘तपो हि स्वाध्यायः’ इत्यादिश्रुतिप्रसिद्धमिति मत्वा तपस्त्वं तयोरुत्तमकर्मत्वे हेतुतयोक्तमित्यनुसन्धेयम् ।
उक्तानामपीति ।
‘सत्यं च स्वाध्यायप्रवचने च तपश्च स्वाध्यायवचने च’ इत्यत्रोक्तानामपीत्यर्थः ।
आदरार्थमिति ।
आदरसूचनद्वारा मतभेदेनोत्तमकर्मत्वख्यापनार्थमित्यर्थः ॥