नन्वहं वृक्षस्येत्यादिमन्त्रपाठः किमर्थ इत्याशङ्क्याह —
स्वाध्यायार्थ इति ।
जपार्थम् इत्यर्थः ।
ननु तज्जपस्य क्वोपयोगः ? तत्राह —
स्वाध्यायश्चेति ।
प्रकरणादिति हेतुं विवृणोति —
विद्यार्थं हीति ।
प्रकरणस्य संहितोपनिषद्गतमन्त्रब्राह्मणजातस्य विद्याप्रयोजनकत्वादित्यर्थः ।
ब्रह्मविद्यासंनिधौ पाठादिति भावः । अहं वृक्षस्येत्यादिमन्त्राम्नायस्य कर्मशेषत्वशङ्कां निराकरोति —
न चेति ।
तदवगमकश्रुतिलिङ्गादेरदर्शनादिति भावः ।
स्वाध्यायो विद्योत्पत्तये भवतीत्युक्तम् ; तत्र विवक्षितं द्वारं समर्पयति —
स्वाध्यायेन चेति ।
जपादिरूपस्य धर्मस्य पापक्षयरूपशुद्धिद्वारा विद्योत्पत्तिहेतुत्वम् ‘तपसा कल्मषं हन्ति’ इत्यादिशास्त्रसिद्धमिति विशेषसूचनार्थश्चकारः ।
अहमिति ।
साक्षात्कृतब्रह्मतत्त्वस्त्रिशङ्कुनामा ऋषिः अहंशब्दार्थः ।
उच्छेद्यात्मकस्येति ।
उच्छेद्यस्वभावस्येत्यर्थः ।
संसारवृक्षस्येति ।
विद्याप्रतिपादके मन्त्रे प्रसिद्धवृक्षग्रहणायोगात्संसार एवोच्छेद्यस्वभावत्वसाम्याद्वृक्षशब्देन गृह्यत इति भावः ।
जगदात्मकस्य संसारवृक्षस्य प्रेरयिता परमेश्वर एव, न ब्रह्मविदिति, तत्राह —
अन्तर्याम्यात्मनेति ।
ब्रह्मविदः सर्वात्मकत्वादिति भावः ।
कीर्त्तिरिति ।
मेरोः शृङ्गमिव मम ब्रह्मविदः कीर्त्तिः प्रसिद्धिः स्वर्गलोकव्यापिनीत्यर्थः ।
उपरिभागवाचिनोर्ध्वशब्देन संसारमण्डलादुपरि वर्तमानं जगत्कारणत्वोपलक्षितं ब्रह्म लक्ष्यत इत्याशयेनाह —
उर्ध्वं कारणमिति ।
वस्तुतः संसारास्पृष्टमिति यावत् ।
अत एवाह —
पवित्रमिति ।
नन्वेवंभूतमपि ब्रह्म सर्वप्राणिसाधारणमेव, वस्तुत एकात्मकत्वात्सर्वप्राणिनामिति, तत्राह —
ज्ञानप्रकाश्यमिति ।
अन्येषां ज्ञानाभावादिति भावः । ब्रह्मेत्यनन्तरं स्वरूपभूतमिति शेषः ।
अन्नमिति ।
कर्मफलरूपं वस्वादिदेवभोग्यममृतमन्नम् ; तद्वत्त्वमादित्यस्य मधुविद्यायां प्रसिद्धमिति बोध्यम् । यथा सवितरि श्रुतिस्मृतिशतेभ्यो विशुद्धममृतमात्मतत्त्वं प्रसिद्धम् , एवं मय्यपि पुरुषे श्रुतिस्मृतिशतेभ्य एव विशुद्धमात्मतत्त्वं प्रसिद्धमस्ति । इत्थमुभयत्र प्रसिद्धमात्मतत्त्वं स्वमृतशब्दितमस्मीत्यर्थः । तथा च श्रुतयः - ‘स यश्चायं पुरुषे, यश्चासावादित्ये, स एकः’ इत्याद्याः, स्मृतयश्च - ‘आदित्ये शुद्धममृतमात्मतत्त्वं यथा स्थितम् । विद्याधिकारिणि तथा पुरुषेऽपि तदस्ति भोः’ इत्याद्या द्रष्टव्याः ।
धनमिति ।
लौकिकस्य रत्नादिकं धनम् ; ब्रह्मविदस्तु निरतिशयानन्दमात्मतत्त्वमेव धनम् , तच्च स्वप्रकाशत्वाद्दीप्तिमदित्यर्थः ।
साकाङ्क्षत्वादाह —
अस्मीत्यनुवर्तत इति ।
द्रविणं सवर्चसमित्यस्यार्थान्तरमाह —
ब्रह्मज्ञानं वेति ।
ब्रह्मज्ञानं वा द्रविणमिति सम्बन्धः ।
ब्रह्मज्ञानस्य सवर्चसत्वे हेतुमाह —
अमृतत्वेति ।
अमृतत्वं ब्रह्म, तदावरणनिवर्तनद्वारा तत्प्रकाशकत्वात् ; ब्रह्मणि ‘अहं ब्रह्मास्मि’ इति व्यवहार्यतापादकत्वादित्यर्थः ।
मोक्षेति ।
प्रकृताभिप्रायं मोक्षग्रहणम् । पुरुषार्थहेतुत्वसाम्याद्द्रविणशब्दो ब्रह्मज्ञाने प्रयुक्त इत्यर्थः ।
ब्रह्मस्वरूपव्यञ्जकं मुक्तिसाधनभूतं ब्रह्मज्ञानं चेत्सवर्चसं द्रविणम् , तर्हि तदस्मीति पूर्ववदन्वयो न घटते ; तत्राह —
अस्मिन्पक्ष इति ।
शोभनेति ।
शोभना ब्रह्मज्ञानोपयोगिनी मेधा ग्रन्थतदर्थधारणसामर्थ्यलक्षणा यस्य सोऽहं सुमेधा इत्यर्थः ।
सार्वज्ञ्येति ।
सार्वज्ञ्यलक्षणा वा मेधा यस्य सोऽहमित्यर्थः ।
विदुषः सर्वज्ञत्वलक्षणमेधावत्त्वं साधयति —
संसारेति ।
संसारो जगत् । जगज्जन्मादिहेतुत्वं च ब्रह्मभूतस्य विदुषो वाजसनेयके श्रूयते - ‘अस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजते’ इति । अस्मादित्यस्य साक्षात्कृतादित्यर्थः । छान्दोग्येऽपि श्रूयते - ‘एवं विजानत आत्मनः प्राणाः’ इत्यादिना । तथा विदुषः सर्वज्ञत्वमपि प्रश्नोपनिषदि श्रूयते - ‘स सर्वज्ञः सर्वमेवाविवेश’ इति ।
अत एवेति ।
जगद्धेतुत्वादेवेत्यर्थः । जगत्कारणस्य ब्रह्मचैतन्यस्य नित्यत्वात्तद्रूपस्य विदुषो नास्ति मरणमित्यर्थः ।
अव्यय इति ।
अवयवापचयो व्ययः, तद्रहित इत्यर्थः ।
अक्षतो वेति ।
शस्त्रादिकृतक्षतरहित इत्यर्थः । निरवयवत्वादिति भावः ।
अमृतेन वेति ।
स्वरूपानन्दानुभवेन सदा व्याप्त इति यावत् ।
इतीत्यादीति ।
इति त्रिशङ्कोर्वेदानुवचनमिति वाक्यं ब्राह्मणमित्यर्थः ।
कृतकृत्यतेति ।
यथा वामदेवस्य कृतकृत्यताख्यापनार्थम् ‘अहं मनुरभवम्’ इत्यादिवचनम् , तथा त्रिशङ्कोरपि वेदानुवचनं तत्ख्यापनार्थम् ; तत्ख्यापनं च मुमुक्षूणां कृतकृत्यतासम्पादके ब्रह्मविचारे प्रवृत्त्यर्थमिति बोध्यम् ।
पूर्वम् ‘अहं वृक्षस्य’ इति मन्त्रस्य विद्याप्रयोजनकप्रकरणमध्यपठितत्वाद्विद्याशेषत्वमुक्तम् । इदानीं लिङ्गादपि तस्य तच्छेषत्वं वक्तुं शक्यत इत्याशयेन विवक्षितं मन्त्रार्थं कथयति —
त्रिशङ्कुनेति ।
आर्षेणेति ।
तपःप्रभावजनितेनेत्यर्थः ।
मन्त्रस्य विद्याप्रकाशकत्वे फलितमाह —
अस्य चेति ।
विद्याप्रकाशनसामर्थ्यरूपाल्लिङ्गाच्चेति चकारार्थः ।
पूर्वानुवाके कर्माण्युपन्यस्यानन्तरमेव ऋषेरात्मविषयदर्शनोपन्यासे श्रुतेः कोऽभिप्राय इत्याकाङ्क्षायामाह —
ऋतं चेत्यादिना ।
अनन्तरं चेति ।
चकारोऽवधारणार्थः ।
सकामस्य पितृलोकप्राप्तिरेव ‘कर्मणा पितृलोकः’ इति श्रुतेः, नात्मदर्शनमित्याशयेनाह —
निष्कामस्येति ।
सांसारिकफलेषु निःस्पृहस्यापि विद्यामकामयमानस्य न विद्योत्पत्तिः, किं तु प्रत्यवायनिवृत्तिमात्रमित्याशयेनाह —
ब्रह्म विविदिषोरिति ।
आर्षाणीति ।
नित्यनैमित्तिककर्मस्वपि ‘तपसा कल्मषं हन्ति’ इत्यादौ तपस्त्वप्रसिद्धेस्तज्जन्यानामपि दर्शनानामार्षत्वमुक्तमिति मन्तव्यम् ॥