उत्तरानुवाके कर्मणां कर्तव्यता किमर्थमुपदिश्यत इत्याकाङ्क्षायामाह —
वेदमनूच्येत्यादिना ।
ज्ञानात्पूर्वं कर्मणां ज्ञानार्थिनावश्यं कर्तव्यत्वे हेतुमाह —
पुरुषेति ।
संस्कारस्वरूपं कथयन्संस्कारद्वारा तेषां ब्रह्मविज्ञानसाधनत्वमाह —
संस्कृतस्य हीति ।
सत्त्वस्यान्तःकरणस्य विशिष्टा या शुद्धिः सैव संस्कार इति भावः ।
अञ्जसैवेति ।
अप्रतिबन्धेनैवेत्यर्थः ।
पापरूपस्य चित्तमालिन्यस्य ज्ञानोत्पत्तिप्रतिबन्धकत्वात् , शुद्धिद्वारा कर्मणां विद्योदयहेतुत्वे हि-शब्दसूचितं मानमाह —
तपसेति ।
तपसा कर्मणा कल्मषनिवृत्तौ विद्या भवति, तया विद्यया अमृतमश्नुत इति स्मृत्यर्थः ।
इति हि स्मृतिरिति ।
इति स्मृतेरित्यर्थः ।
ननु कर्मभिर्विशुद्धसत्त्वस्यापि तत्त्वचिन्तां विना कथमात्मविज्ञानमञ्जसैवोत्पद्येत ? तत्राह —
वक्ष्यति चेति ।
तत्त्वचिन्तामपि विद्यासाधनत्वेन श्रुतिर्वक्ष्यतीत्यर्थः ।
श्रुतौ तपःशब्दस्तत्त्वविचारपर इत्येतदग्रे स्फुटीकरिष्यते । उपसंहरति —
अत इति ।
पुरुषसंस्काद्वारा कर्मणां विद्यासाधनत्वादित्यर्थः ।
ननु उपदिशतीत्यनुक्त्वा राजेवानुशास्तीति किमर्थं वदति श्रुतिरित्याङ्क्य गुरूपदेशातिक्रमे महाननर्थो भवेदिति सूचनार्थमित्याह —
अनुशासनशब्दादिति ।
तदतिक्रमे दोषो भवतीति गम्यत इति शेषः ।
तत्रोपपत्तिमाह —
अनुशासनेति ।
लोके राजानुशासनातिक्रमे दोषोत्पत्तिप्रसिद्धेरिति हि-शब्दार्थः ।
ननु यथा ज्ञानात्पूर्वं कर्माणि ज्ञानार्थं कर्तव्यानि तथा ज्ञानोदयानन्तरमपि मुक्त्यर्थं तानि कर्तव्यानि, ज्ञानकर्मसमुच्चयस्यैव मुक्तिसाधनत्वात् ; तथा च स्मृतिः - ‘तत्प्राप्तिहेतुर्विज्ञानं कर्म चोक्तं महामुने’ इति ; नेत्याह —
प्रागुपन्यासाच्चेति ।
च-शब्दः शङ्कानिरासार्थः । कर्मणां विद्यारम्भात्प्रागुपन्यासाद्धेतोर्विद्योदयानन्तरं न तान्यनुष्ठेयानीत्यर्थः ।
केवलेति ।
ब्रह्मविदाप्नोति परमित्यत्र परप्राप्तिसाधनत्वेन विद्यामात्रारम्भाच्च हेतोर्न विद्योदयानन्तरं तान्यनुष्ठेयानीत्यर्थः ।
प्रागुपन्यासं विवृणोति —
पूर्वमिति ।
ब्रह्मविदाप्नोति परमिति विद्यारम्भात्पूर्वं संहितोपनिषद्येव ऋतं चेत्यादावुपन्यस्तानीत्यर्थः ।
विद्योदयानन्तरमेव मुक्तिलाभश्रवणात्तदनन्तरं कर्मणां नैष्फल्यश्रवणाच्च न मुक्तिसाधनत्वं कर्मणामित्याशयेनाह —
उदितायां चेति ।
यदा ब्रह्मण्यभयं यथा भवति तथा प्रतिष्ठामात्मभावं विद्यया विन्दते तदैवाभयं गतो भवति । ब्रह्मणः स्वरूपभूतमानन्दं विद्वान्न बिभेति कुतश्चन, भयहेत्वविद्याया विद्योदयकाल एव निवृत्तत्वादित्यर्थः ।
किमहमिति ।
विदुषः साधुकर्माकरणप्रयुक्तसन्तापाभावोक्त्या तं प्रति कर्मणामाकिञ्चन्यं फलाभावः प्रतीयत इत्यर्थः ।
समुच्चयस्य श्रुतिबाह्यत्वमुपसंहरति —
अत इति ।
प्रागुत्पन्यासादिहेतोरित्यर्थः ।
विद्येति ।
विद्योत्पत्त्यर्थान्येव न मुक्त्यर्थानीति गम्यत इत्यर्थः ।
इतश्च दुरितक्षयद्वारा विद्योत्पत्त्यर्थान्येवेत्याह —
मन्त्रेति ।
अविद्यया कर्मणा मृत्युं पाप्मानं तीर्त्वेति कर्मणां दुरितक्षयफलकत्वप्रतिपादनपूर्वकं विद्यामात्रस्य मुक्तिहेतुत्वप्रतिपादकमन्त्रवर्णाच्चेत्यर्थः ।
एवं च सति तत्प्राप्तिहेतुरिति स्मृतिवचनं क्रमसमुच्चयपरम् , न यौगपद्येन विद्याकर्मणोः समुच्चयपरमिति मन्तव्यम् । पौनरुक्त्यं परिहरति —
ऋतादीनामिति ।
कर्मणां विद्याफले स्वाराज्येऽनुपयोगमाशङ्क्य तत्रोपयोगकथनाभिप्रायेण पूर्वत्रोपदेश इत्यर्थः ।
अनुशब्दार्थमाह —
ग्रन्थेति ।
वेदमध्याप्यानन्तरमेव तदर्थमप्युपदिशतीति वदन्त्याः श्रुतेस्तात्पर्यमहा —
अत इति ।
धर्मजिज्ञासा कर्मविचारः ।
इतश्च धर्मजिज्ञासां कृत्वैव गुरुकुलान्निवर्तितव्यमित्याह —
बुद्ध्वेति ।
न च वेदाध्ययनानन्तरमाचार्येणानुज्ञातो दारानाहृत्य मीमांसया कर्मावबोधं सम्पादयतु, तदा तत्सम्पादनेऽपि न ‘बुद्ध्वा - ’ इतिस्मृतिविरोध इति वाच्यम् , दारसङ्ग्रहानन्तरं नित्यनैमित्तिकानुष्ठानावश्यम्भावेन पुनस्तस्य गुरुकुलवासासम्भवात् ; अतः प्रागेव कर्मावबोधः सम्पादनीय इति भावः ।
यथाप्रमाणावगतमपि परस्याहितं न वाच्यमित्याह —
वक्तव्यं चेति ।
वचनार्हमित्यर्थः । तदाह भगवान् - ‘अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्’ इति ।
सामान्यवचनमिति ।
अनुष्ठेयसामान्यवाचकमपि धर्मपदं सत्यादिरूपधर्मविशेषनिर्देशसंनिधानात्तदतिरिक्तानुष्ठेयपरमित्यर्थः ।
स्वाध्यायादध्ययनादिति ।
अध्ययनेन गृहीतस्य स्वाध्यायस्य प्रमादो विस्मरणम् , तन्माकुर्वित्यर्थः ; ‘ब्रह्मोज्झे मे किल्बिषम्’ इति मन्त्रवर्णेन ‘ब्रह्महत्यासमं ज्ञेयमधीतस्य विनाशनम्’ इति स्मरणेन च वेदविस्मरणे प्रत्यवायावगमात् ।
मे मम किल्बिषं ब्रह्मोज्झे वेदविस्मरणवति पुरुषे गच्छत्विति मन्त्रार्थः । ननु न कर्तव्येति कथम् , सन्ततिप्राप्तेर्दैवाधीनत्वादित्याशङ्क्याह —
अनुत्पद्यमानेऽपीति ।
इतश्चैवमेव श्रुतेरभिप्राय इत्याह —
प्रजेति ।
ऋतं चेत्यनुवाके ‘प्रजा च स्वाध्यायप्रवचने च, प्रजनश्च स्वाध्यायप्रवचने च, प्रजातिश्च स्वाध्यायप्रवचने च’ इति सन्ततिविषय एव प्रजादित्रयनिर्देशबलाच्चेत्यर्थः ।
अन्यथेति ।
श्रुतेः सन्तत्यर्थयत्ने तात्पर्याभाव इत्यर्थः ।
ऋतुकालगमनाभावे प्रत्यवायस्मरणात्तावन्मात्रमेव श्रुतिरवक्ष्यदित्यर्थः । न च श्रुत्या तात्पर्येण सन्ततिः सम्पादनीयेति किमर्थमुच्यत इति वाच्यम् , पितृऋणस्य परलोकप्राप्तिप्रतिबन्धकत्वेन तदपाकरणद्वारा परलोकप्राप्तिसाधनत्वात् ; तथा च श्रुतिः — ‘नापुत्रस्य लोकोऽस्ति’ इति । न केवलं पितृऋणं परलोकप्रतिबन्धकम् , किं तु मोक्षस्यापि ; तथा च मनुः — ‘ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य चैतानि मोक्षमिच्छन्व्रजत्यधः’ इति । तथा च मुमुक्षुणापि सन्ततियत्नः कर्तव्य इति । ननु सत्यात्प्रमादनिषेधवचनस्य यदि सत्यमेव वक्तव्यमित्यर्थो विवक्षितः, तदा ‘सत्यं वद’ इत्यनेन पौनरुक्त्यं स्यादित्याशङ्क्याह —
सत्याच्चेति ।
च-शब्दः शङ्कानिरासार्थः ।
ननु यद्यत्रानृतवदननिषेधो विवक्षितः तर्ह्यनृतं न वक्तव्यमित्यनुक्त्वा प्रमादशब्दप्रयोगे कोऽभिप्रायः श्रुतेरित्याशङ्क्याह —
प्रमादशब्दसामर्थ्यादिति ।
अनृतवदनविषये विस्मृत्यानृतवदनेऽपि दोषाधिक्यमेव, ‘समूलो वा एष परिशुष्यति योऽनृतमभिवदति’ इति श्रुतेः ‘नानृतात्पातकं किञ्चित्’ इति स्मृतेश्च । तस्मादनृतवर्जने सदा जागरूकेणैव भवितव्यमिति भावः ।
अन्यथेति ।
विस्मृत्यानृतवदनेऽपि दोषातिशयाभावे सतीत्यर्थः । असत्येति च्छेदः ।
अननुष्ठानमिति ।
अनुष्ठेयस्वरूपस्य धर्मस्यालस्यादिकृतमननुष्ठानं प्रमाद इत्यर्थः ।
अनुष्ठातव्य एवेति ।
धर्म इति शेषः ।
आत्मरक्षणार्थादिति ।
शरीररक्षणार्थाच्चिकित्सादिरूपादित्यर्थः ।
मङ्गलार्थादिति ।
‘वायव्यं श्वेतमालभेत’ इत्यादौ विहिताद्वैदिकात् लौकिकात्प्रतिग्रहादेश्चेत्यर्थः ।
देवेति ।
देवकार्यं यागादि, पितृकार्यं श्राद्धादीति विभागः ।
मात्रादीनां वस्तुतो देवत्वाभावादाह —
देवतावदिति ।
श्रौतस्मार्तकर्मजातमुपदिश्याचारप्रमाणकानि कर्माणि विशेषोक्तिपूर्वकमुपदिशति —
यान्यपि चेति ।
अपि च यानीति योजना ।
आचार्यकृतानां कर्मणां साकल्येनोपादेयत्वमिति विशेषमाशङ्क्याह —
यान्यस्माकमिति ।
विपरीतानीति ।
शापप्रदानादीनीत्यर्थः ।
आचार्यत्वादीति ।
आदिपदं मातृत्वपितृत्वादिसङ्ग्रहार्थम् , । आचार्यादिभिन्ना इत्यर्थः ।
प्रशस्यतरा इति ।
सगुणनिर्गुणब्रह्मनिष्ठादियुक्ता इत्यर्थः ।
श्रुतस्य ब्राह्मण्यस्याविवक्षायां कारणाभावं मत्वाह —
न क्षत्त्रियेति ।
आसनादिनेति ।
शुश्रूषान्नपानादिसङ्ग्रहार्थमादिपदम् ।
गोष्ठीति ।
शास्त्रार्थनिर्णयाय क्रियमाणो व्यवहारोऽत्र गोष्ठी, सा निमित्तमुद्देश्यतया कारणं यस्य समुदितस्य समुदायस्य तस्मिन्नित्यर्थः ।
प्रश्वासोऽपि न कर्तव्य इति ।
किमु वक्तव्यं पण्डितंमन्यतया विस्रम्भेण वार्त्तादिकं न कार्यमितीति भावः ।
तर्हि तेषां समुदिते गत्वा किं कर्तव्यं मयेत्याशङ्क्याह —
केवलमिति ।
श्रद्धयैवेति ।
अवर्जनीयतया प्राप्तेष्वपात्रेष्वपीत्यर्थः । तदुक्तं वार्त्तिके ‘श्रद्धयैव च दातव्यमश्रद्धाभाजनेष्वपि’ इति ।‘अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो ईह’ इति भगवतोक्तत्वादिति भावः ।
न दातव्यमिति ।
‘अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो ईह’ इति भगवतोक्तत्वादिति भावः ।
स्वविभूत्यनुसारेण देयमित्याह —
श्रियेति ।
बहु ददतापि मया कियद्दीयत इति लज्जावता दातवव्यमित्याह —
लज्जयेति ।
परलोकभयेन देयमित्याह —
भियेति ।
मित्रेति ।
मित्रसुहृदादेर्यत्कार्यं तेनापि निमित्तेन देयमित्यर्थः ।
तत्र कर्मादाविति ।
देशाद्यर्थकस्य तत्रशब्दस्य युक्ता इत्यनेनान्वय उक्तः ; कस्मिन्विषये युक्ता इत्याकाङ्क्षायां कर्मादावित्युक्तमिति विवेचनीयम् ।
अभियुक्ता इति ।
कर्मादावभियोगो विधिवत्तदनुष्ठानम् , अनुष्ठेयार्थनिर्णयस्य संमर्शिन इत्यनेन लब्धत्वादिति मन्तव्यम् ।
अपरप्रयुक्ता इति ।
स्वतन्त्रा इत्यर्थः ।
अकामहता इति ।
लाभपूजादिकामोपहता न भवन्तीत्यर्थः ।
तथा त्वमपीति ।
उदितहोमादिविषये सन्देहे सति स्वस्ववंशस्थितानामेतादृशानामाचाराद्व्यवस्थां निश्चित्य तथा वर्तेथा इत्यर्थः ।
केनचिदिति ।
स्वर्णस्तेयादिरूपेणेत्यर्थः । सन्दिह्यमानेनेति विशेषणात्पातकित्वेन निश्चितानामभ्याख्यातपदेन ग्रहणं नास्तीति गम्यते तेषामसंव्यवहार्यत्वनिश्चयेन तद्विषये विचाराप्रसक्तेरिति मत्वा तद्व्यावृत्तिः कृतेति मन्तव्यम् ।
तेष्विति ।
पातकित्वसंशयास्पदेषु पुरुषेषु यथोक्तं तस्मिन्देशे काले वेत्यादिकं सर्वमुपनयेद्योजयेदित्यर्थः ।
एवं ये तत्रेत्यादिवाक्यजातस्य तात्पर्यमुक्त्वा अक्षरार्थकथनप्रसक्तावाह —
ये तत्रेत्यादिसमानमिति ।
ये तत्रेत्यादिवाक्यजातं पूर्वेण ये तत्रेत्यादिवाक्यजातेन समानार्थम् , अतो न पृथग्व्याख्येयमित्यर्थः ।
उक्तमनुशासनमुपसंहरति —
एष इत्यादिना ।
सत्यं वदेत्यादिग्रन्थसन्दर्भ एतच्छब्दार्थः ।
पुत्रेति ।
पुत्रादिभ्यः शुकादिभ्यः पित्रादीनां व्यासादीनां य उपदेश इतिहासादौ प्रसिद्धः सोऽप्येष एवेत्यर्थः । अयमेवार्थ इतिहासादावुक्त इति भावः ।
कर्मकाण्डस्य कृत्स्नस्याप्यत्रैव तात्पर्यमिति वक्तुमेषा वेदोपनिषदिति वाक्यम् ; तद्व्याचष्टे —
वेदरहस्यमिति ।
एषा वेदोपनिषदित्यत्रैतच्छब्दः प्रकृतकर्मसंहतिपरः ।
ईश्वरवचनमिति ।
‘श्रुतिस्मृती ममैवाज्ञे’ इति स्मरणादिति भावः ।
नन्वनुशासनं विधिरिति कुतो नोच्यते ? तत्राह —
आदेशवाच्यस्येति ।
आदेशपदेन विधेरुक्ततया पौनरुक्त्यापत्तेरिति भावः ।
अनुशासनपदस्यार्थान्तरमाह —
सर्वेषां वेति ।
आदरार्थमिति ।
यथोक्तकर्मानुष्ठाने यत्नाधिक्यसिद्ध्यर्थमित्यर्थः ॥