प्रतीचो ब्रह्मत्वरूपमोक्षस्य नित्यत्वेन समुच्चयाजन्यत्वेऽपि तदावारकाविद्यानिवृत्तिहेतुत्वमेव समुच्चयस्यास्त्विति शङ्कते —
विद्याकर्मणी इति ।
आवरणरूपप्रतिबन्धहेतोरविद्याया निवृत्तौ विद्यामात्रस्यैवापेक्षितत्वेन कर्मणोऽनपेक्षितत्वान्न समुच्चयाधीना मुक्तिरिति मत्वाह —
नेति ।
कर्मणामविद्यानिवृत्त्यपेक्षया फलान्तरस्यैव लोके प्रसिद्धत्वाच्च न प्रतिबन्धहेतुनिवृत्तौ कर्मापेक्षेत्याह —
कर्मण इति ।
तदेव विवृणोति —
उत्पत्तीति ।
उत्पत्तिः पुरोडाशादेः, संस्कारो व्रीह्यादेः, विकारः सोमस्याभिषवलक्षणः, आप्तिः पयसः, इत्येवं कर्मणः फलं प्रसिद्धमित्यर्थः ।
ननु यद्यविद्यानिवृत्तौ न कर्मापेक्षा, कर्मफलं चोत्पत्त्यादिकमेव, तर्हि ब्रह्मस्वरूपमोक्षस्यैवोत्पत्त्याद्यन्यतमत्वमस्तु ; नेत्याह —
उत्पत्त्यादिफलविपरीतश्चेति ।
ब्रह्मस्वरूपस्य तु मोक्षस्यानादित्वादनाधेयातिशयत्वादविकार्यत्वान्नित्याप्तत्वाच्च कर्मफलवैपरीत्यम् ; एतेषां हेतूनां श्रुतिसिद्धत्वाच्च नासिद्धिशङ्का कार्येति भावः ।
प्रत्यगात्मतया नित्यप्राप्तस्यापि ब्रह्मणो गतिश्रुतिमवलम्ब्य प्राप्यत्वमाशङ्कते —
गतीति ।
शङ्कां विवृण्वन्गतिश्रुतीरुदाहरति —
सूर्येति ।
विरजा निष्कल्मषा ब्रह्मविद इत्यर्थः ।
तयेति ।
सुषुम्नाख्यया नाड्येत्यर्थः ।
आदिपदात् ‘तेऽर्चिषमभिसम्भवन्ति’ इत्यादिश्रुतयो गृह्यन्ते । गतिश्रुतीनामन्यविषयत्वमभिप्रेत्य परब्रह्मणो गतिप्राप्यत्वं निराकरोति —
न सर्वगतत्वादिति ।
लोके गन्तुः सकाशादन्यस्य परिच्छिन्नस्य च प्राप्यता प्रसिद्धा ; ब्रह्मणस्तु तदुभयाभावान्न प्राप्यतेत्यर्थः ।
सर्वगतत्वं साधयति —
आकाशादीति ।
ब्रह्मणो गन्तृभिर्जीवैरभिन्नत्वं विवृणोति —
ब्रह्माव्यतिरिक्ताश्चेति ।
चकारोऽवधारणे ।
तेनेति ।
सर्वगतत्वादिनेत्यर्थः ।
ननु यदि सर्वगतं गन्तुरनन्यच्च न प्राप्यम् , तर्हि कीदृशं गन्तव्यम् ? अत आह —
गन्तुरिति ।
अनन्यस्य गन्तव्यत्वाभावमनुभवेन साधयति —
न हि येनैवेति ।
गन्तृभिरनन्यत्वं साधयति —
तदनन्यत्वप्रसिद्धिश्चेति ।
तस्य ब्रह्मणो गन्तृभिरनन्यत्वं च श्रुत्यादिभ्यः सिध्यतीत्यर्थः । ब्रह्मण एव जीवभावेन प्रवेशश्रवणात्क्षेत्रज्ञस्य जीवस्य ब्रह्मत्वश्रवणाच्चेत्यर्थः ।
‘अहं ब्रह्म’ इत्यादिश्रुतयः ‘आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति’ इत्यादिस्मृतयश्च आदिपदग्राह्या विवक्षिताः । गतिश्रुतीनां गतिं पृच्छति —
गत्यैश्वर्यादीति ।
यथा ब्रह्मविदो गतिः श्रूयते तथा तस्यैश्वर्यमपि श्रूयते, ब्रह्मणो नित्यप्राप्तत्वाद्यथा तस्य प्रप्यता न सम्भवति तथा परब्रह्मविदो मुक्तस्य निरुपाधिकत्वादैश्वर्यमपि न सम्भवति ; ततश्च तुल्यन्यायत्वादैश्वर्यश्रुतीनामपि गतिप्रश्न इति मन्तव्यम् ।
प्रश्नं प्रपञ्चयति —
अथापि स्यादिति ।
गतिश्रुतयः पूर्वमुदाहृता इत्याशयेनैश्वर्यश्रुतीरुदाहरति —
स एकधेत्यादिना ।
‘स एकधा भवति त्रिधा भवति’ इत्यादिश्रुतिर्मुक्तस्यानेकशरीरयोगं दर्शयति ; ‘स यदि पितृलोककामो भवति’ इत्यादिश्रुतिस्तु मुक्तस्य सङ्कल्पमात्रसमुत्थान्पित्रादिभोगान्दर्शयति ; तथा ‘स्त्रीभिर्वा’ इत्यादिश्रुतिरपि तस्यैश्वर्यमावेदयतीत्यर्थः ।
‘कार्यं बादरिः’ इत्यधिकरणन्यायेन तासां श्रुतीनां गतिमाह —
न कार्येति ।
ननु सगुणब्रह्मोपासकस्य सत्यलोकस्थकार्यब्रह्मप्राप्तिविषयास्ताः श्रुतयो न निर्गुणब्रह्मविदः परब्रह्मप्राप्तिविषया इत्यत्र किं विनिगमकमित्याशङ्क्याह —
कार्ये हीति ।
कार्ये हिरण्यगर्भाख्ये ब्रह्मणि प्राप्ते सति तल्लोके स्त्र्यादयो विषयाः सन्ति, न कारणत्वोपलक्षिते निर्गुणविद्याप्राप्ये विशुद्धे ब्रह्मणि विषयाः सन्ति, विद्यया अविद्यातत्कार्यजातस्य सर्वस्य निवृत्तत्वात् निर्गुणमुक्तस्य निरुपाधिकत्वेन भोक्तृत्वायोगाच्चेत्यर्थः । कार्यब्रह्मलोके स्त्र्यादिविषयाः सन्तीत्यत्र ‘स यदि स्त्रीलोककामो भवति सङ्कल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति’ इत्यादिश्रुतिप्रसिद्धिद्योतनार्थो हि-शब्दः ।
परममुक्तौ भोगाभावे मानमाह —
एकमेवेत्यादिना ।
सजातीयविजातीयस्वगतभेदरहितं ब्रह्मेत्यर्थः ।
यत्रेति ।
अन्योऽन्यत्पश्यतीत्येवमात्मकं प्रसिद्धं द्वैतं यत्र वस्तुतो नास्ति स भूमेत्यर्थः ।
तत्केनेति ।
तत्तदा विदेहकैवल्यसमये केन करणेन कं विषयं पश्येदित्यर्थः । एतेन निर्गुणविद्याप्रकरणगतानाम् ‘स एकधा भवति’ ‘स्त्रीभिर्वा यानैर्वा’ इत्याद्यैश्वर्यश्रुतीनां सगुणमुक्तविषयत्वकल्पनमयुक्तमिति शङ्कापि निरस्ता, परममुक्तौ भोगासम्भवस्य ‘तत्केन कम्’ इत्यादिश्रुतिसिद्धत्वात् , ‘मात्रासंसर्गस्त्वस्य भवति’ इत्यादिश्रुत्या मुक्तस्य सर्वोपाध्यभावप्रतिपादनेन विषयभोगासम्भवाच्च । तथा चैश्वर्यश्रुतीनां प्रकरणे निवेशासम्भवात्कार्यब्रह्मप्राप्तानामैश्वर्यसम्भवाच्च सामर्थ्यानुसारेण प्रकरणमुल्लङ्घ्य सगुणविद्याशेषत्वकल्पनद्वारा सगुणमुक्तविषयत्वकल्पनं युक्तमेवेति ।
एवमविद्यानिवृत्तौ कर्मणामनुपयोगाद्ब्रह्मभावलक्षणमोक्षस्य कर्मसाध्यत्वाभावाच्च मुक्तौ विद्यैव हेतुर्न विद्याकर्मणोः समुच्चय इति प्रतिपादितम् । इदानीं समुच्चयासम्भवे हेत्वन्तरमाह —
विरोधाच्चेति ।
विरोधमेव प्रपञ्चयति —
प्रविलीनेति ।
कर्त्रादिकारकलक्षणा विशेषाः प्रविलीना यस्मिन्ब्रह्मणि तत्तथा, निर्विशेषमिति यावत् । तादृशब्रह्मविषया विद्या यथोक्तब्रह्मविपरीतेन कर्त्रादिकारकजातेन साध्यं यत्कर्म तेन विरुध्यते । हि प्रसिद्धमेतदित्यर्थः ।
ननु ब्रह्मणो निर्विशेषत्वे सिद्धे सद्विषयविद्यया कर्त्रादिद्वैतबाधावश्यम्भावात्कर्मानुष्ठानं न सम्भवतीति विद्याकर्मणोर्विरोधः स्यात् , न तु तत्सिद्धमित्याशङ्क्य तस्य निर्विशेषत्वं साधयति —
न ह्येकमित्यादिना ।
ब्रह्मणो जगदुपादानत्वश्रुत्यनुरोधेन कर्त्रादिसकलद्वैतास्पदत्वं प्रतीयते ‘नेति नेति’ इत्यादिनिषेधश्रुतिभिस्तस्य सर्वविशेषशून्यत्वं च प्रतीयते ; न चैकं वस्तु परमार्थत उभयवत्तया प्रमाणतो निश्चेतुं शक्यत इत्यर्थः । तत्र विरोधादिति युक्तिसूचनार्थो हि-शब्दः ।
ततः किम् ? तत्राह —
अवश्यं हीति ।
लोके पुरोवर्तिनि प्रतीतयोः रजतत्वशुक्तित्वयोर्विरुद्धयोरन्यतरस्य मिथ्यात्वदर्शनादिति हि-शब्दार्थः ।
नन्वन्यतरस्य मिथ्यात्वावश्यम्भावेऽपि ब्रह्मणो निर्विशेषत्वमेव मिथ्यास्तु ; तत्राह —
अन्यतरस्य चेति ।
स्वाभाविकमनादि यदज्ञानं तद्विषयस्य तद्विषयब्रह्मकार्यस्य द्वैतस्य स्वकारणाज्ञानसहितस्य यन्मिथ्यात्वं तद्युक्तमित्यर्थः ।
द्वैतस्य मिथ्यात्वे मानमाह —
यत्र हीत्यादिना ।
यत्राविद्याकाले द्वैतशब्दितं जगल्लब्धात्मकं भवति, तदा इतर इतरं पश्यतीति श्रुत्यर्थः । श्रुताविवकारो मिथ्यात्ववाची, न सादृश्यवाची, उपमेयानुपलम्भादिति भावः । य इह ब्रह्मणि नानाभूतं वस्तुतः कल्पितं जगत्परमार्थं पश्यति, स मृत्योर्मरणान्मृत्युं मरणमेव प्राप्नोतीति द्वैतसत्यत्वदर्शिनोऽनर्थपरम्पराप्राप्त्यभिधानादपि तस्य मिथ्यात्वमेव युक्तमित्यर्थः । अथ भूमलक्षणोक्त्यनन्तरं तद्विपरीतस्याल्पस्य लक्षणमुच्यते भूमलक्षणदार्ढ्याय — यत्र जगति अन्यदन्यः पश्यति तदल्पम् ; अतो यत्र दर्शनादिद्वैताभावस्तस्य भूमरूपता युक्तेत्यर्थः ; द्वैतस्याल्पत्वात्स्वप्नद्वैतवन्मिथ्यात्वमिति भावः । यः परमेश्वरमन्योऽसावन्योऽहमस्मीति चिन्तयति स न परमात्मनस्तत्त्वं वेदेति श्रुत्या जीवस्य परमात्माभेदविरोधिसंसारलक्षणद्वैतस्य मिथ्यात्वमवगम्यत इति भावः । यस्तु स्वस्येश्वरादल्पमपि भेदं पश्यति, तस्य तदानीमेव भयं भवतीति श्रुत्या जीवेश्वरभेदोपलक्षितस्य जगतो मिथ्यात्वं भातीति भावः । ‘सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद’ इत्यादिश्रुतिसङ्ग्रहार्थमादिपदम् ।
एकत्वशब्दितस्य निर्विशेषब्रह्मणः सत्यत्वं च युक्तमित्यत्र हेतुत्वेन श्रुतीरूदाहरति —
एकधैवेति ।
एकरूपेणैव ब्रह्म आचार्योपदेशमनु साक्षात्कर्तव्यमित्यर्थः । अत्रैकरूपत्वं निर्विशेषचैतन्यरूपत्वम् , ‘प्रज्ञानघन एव’ इति वाक्यशेषदर्शनादिति भावः । ‘ब्रह्मैवेदं सर्वम्’ इति सामानाधिकरण्यं ब्रह्मव्यतिरेकेण सर्वं वस्तुतो नास्ति ; ततश्च ब्रह्म निर्विशेषमित्येतदभिप्रायकम् ; एतदभिप्रायकत्वं चास्य सामानाधिकरण्यस्य भाष्यकारैर्द्युभ्वाद्याविकरणे प्रपञ्चितम् ; नेह विस्तरभयात्तल्लिख्यते । सर्वमित्यादीत्यादिपदेन ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ‘तत्सत्यमित्याचक्षते’ ‘तत्सत्यं स आत्मा’ इत्यादिश्रुतयो गृह्यन्ते ।
ननूक्तरीत्या सर्वस्य दृश्यजातस्य चिदेकरसे ब्रह्मण्यध्यस्ततया सर्वाधिष्ठानभूतब्रह्मतत्त्वविद्यया सर्वस्य द्वैतस्य बाधितत्वाद्वस्तुतो जगद्भेदादर्शनेऽपि विदुषः कर्मानुष्ठानं कुतो न सम्भवति, यतो विद्याकर्मणोर्विरोधो भवेदित्याशङ्क्याह —
न चेति ।
सम्प्रदानं कर्मण्युद्देश्या देवता । कर्तृकरणादिसङ्ग्रहार्थमादिपदम् । स्वप्नवज्जगति मायामात्रत्वनिश्चये सति न प्रवृत्तिरुपपद्यत इति भावः ।
रज्जुतत्त्वसाक्षात्कारेण रज्जावध्यस्तसर्पस्येव ब्रह्मतत्त्वसाक्षात्कारेण ब्रह्मण्यध्यस्तद्वैतस्योपमर्दे युक्तिसिद्धे श्रुतयोऽपि सन्तीत्याह —
अन्यत्वदर्शनापवादश्चेति ।
अधिष्ठानयाथात्म्यज्ञानस्याध्यासनिवर्तकत्वनियमदर्शनरूपयुक्तिसमुच्चयार्थश्चकारः । विद्याविषये ब्रह्मणि विद्यासामर्थ्याद्द्वैतदर्शनबाधः ‘तत्केन कं पश्येत्’ इत्यादिश्रुतिषूपलभ्यत इत्यर्थः । तदुक्तं सूत्रकारेण ‘उपमर्दं च’ इति । विद्यया कर्मसाधनकारकजातस्योपमर्दं वाजसनेयिन आमनन्तीति सूत्रार्थः ।
अत इति ।
कर्मसाधनानां विद्ययोपमर्दितत्वादित्यर्थः ।
अतश्चेति ।
विरोधाच्चेत्यर्थः ।