समुच्चयानुपपत्तौ फलितमाह —
अत्र यदुक्तमिति ।
मोक्ष इत्यनुपपन्नमित्यनन्तरं तदयुक्तमित्यपि क्वचित्पाठो दृश्यते । तदानीमित्थं योजना — संहताभ्यां विद्याकर्मभ्यां मोक्ष इति कृत्वा केवलविद्याया मोक्षहेतुत्वमनुपपन्नमिति यदुक्तं तदयुक्तमिति ॥
द्वैतस्य मिथ्यात्वे कर्मश्रुतीनामप्रामाण्यं स्यादिति शङ्कते —
विहितत्वादिति ।
शङ्कां विवृणोति —
यद्युपमृद्येत्यादिना ।
उपमर्धो मिथ्यात्वबोधनम् । विधीयते उपदिश्यते ।
सर्पादीति ।
रज्जौ सर्पोऽयमिति भ्रान्तं प्रति मिथ्यैव सर्पो न वस्तुतः सर्पोऽस्ति रज्जुरेवैषेत्याप्तेन यथा रज्जुतत्त्वविषयकं विज्ञानमुपदिश्यते तथेत्यर्थः । शुक्त्यादिसङ्ग्रहार्थं द्वितीयमादिपदम् । प्रथमं तु रजतादिसङ्ग्रहार्थमिति विभागः ।
निर्विषयत्वादिति ।
सत्यविषयरहितत्वादित्यर्थः । कल्पितद्वैतस्य रज्जुसर्पादेरिव कार्याक्षमत्वादिति भावः ।
विहितत्वादिति हेतुरपि प्रतिपन्न इत्याह —
विहितानि चेति ।
कर्मश्रुतिविरोधापादने इष्टापत्तिं वारयति —
स चेति ।
तथा च द्वैतसापेक्षकर्मश्रुतीनामद्वैतब्रह्मबोधकविद्याश्रुतीनां च परस्परविरोधादप्रामाण्यप्रसङ्ग इति भावः ।
विद्याकर्मश्रुतीनां परस्परमविरोधेन पुरुषार्थोपदेशमात्रे प्रवृत्तत्वान्नाप्रामाण्यप्रसङ्ग इति समाधत्ते —
नेत्यादिना ।
तत्र प्रथमं विद्याश्रुतीनां कर्मश्रुत्यविरुद्धपुरुषार्थोपदेशे प्रवृत्तिं दर्शयति —
विद्योपदेशेति ।
विद्योपदेशपरा तावच्छ्रुतिर्विद्याप्रकाशकत्वेन प्रवृत्तेति सम्बन्धः ।
श्रुतौ विद्यानिरूपणस्य प्रयोजनमाह —
संसारहेतोरिति ।
कर्तव्येतीति ।
अत्रेतिपदानन्तरं कृत्वेति शेषः । संसारहेत्वविद्यानिवर्तिकां विद्यां प्रकाशयन्त्याः श्रुतेराशयं दर्शयति —
संसारादिति ।
तथा च मुमुक्षोर्मोक्षसाधनविद्यालक्षणपुरुषार्थोपदेशाय प्रवृत्ता विद्याश्रुतिः, अतो न विद्याश्रुतेः कर्मश्रुत्या विरोध इत्यर्थः ।
इदानीं विद्याश्रुत्यविरुद्धपुरुषार्थोपदेशपरत्वं कर्मश्रुतीनामाशङ्कापूर्वकं दर्शयति —
एवमपीत्यादिना ।
एवमपीत्यस्य विद्याश्रुतेः कर्मश्रुत्या विरोधाभावेऽपीत्यर्थः ।
विरुध्यत एवेति ।
द्वैतसत्यत्वापहारिण्या विद्याश्रुत्या तत्सत्यत्वपरा कर्मश्रुतिर्विरुध्यत एवेति शङ्कार्थः ।
श्रेयःसाधनरूपपुरुषार्थोपदेशपरायाः कर्मश्रुतेः कारकादिद्वैतास्तित्वेऽपि तात्पर्याभावान्न विरोध इति परिहरति —
न यथाप्राप्तमेवेति ।
भ्रान्तिप्राप्तमेवेत्यर्थः ।
फलेति ।
स्वर्गपश्वादिफलार्थिनां फलसाधनं च विदधच्छास्त्रमित्यर्थः ।
व्याप्रियत इति ।
गौरवादिति भावः । न च द्वैतस्य मिथ्यात्वे शुक्तिरूप्यादिवदर्थक्रियासामर्थ्याभावात्कारकादेः फलसाधनतादिकं न स्यादिति वाच्यम् ; वियदादिप्रपञ्चस्य मिथ्यात्वेऽपि शुक्तिरजतादिवैलक्षण्येन यावत्तत्त्वज्ञानमर्थक्रियासामर्थ्याङ्गीकारात् । इदं चारम्भणाधिकरणादौ प्रपञ्चितं तत्रैवानुसन्धेयमिति भावः ।
ननु मुमुक्षूणां मोक्षसाधनीभूता विद्या शास्त्रेण विधातव्या न तु दुरितक्षयार्थं कर्माणि, विद्यायां मोक्षे वा उपात्तदुरितक्षयस्यानुपयोगादित्याशङ्क्याह —
उपचितेति ।
प्रतिबन्धस्य हीति ।
प्रतिबन्धवतः पुंसः इत्यर्थः । ‘ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः’ इत्यादिशास्त्रप्रसिद्धिद्योतनार्थो हि-शब्दः ।
ततश्चेति ।
विद्योदयादित्यर्थः । च-शब्दो विद्यायाः कर्मासमुच्चितत्वरूपकैवल्यार्थः ।
तत आत्यन्तिक इति ।
तथा च कर्मकाण्डस्य निःश्रेयसपर्यवसायिनो दुरितक्षयस्य स्वर्गादिफलस्य च साधनत्वेन कर्मणामुपदेशे तात्पर्यमिति कर्मश्रुतीनां पुरुषार्थोपदेशपरत्वं प्रदर्शितमिति बोध्यम् ।
एवं द्वैतमिथ्यात्वसाधनप्रसङ्गप्राप्तं विद्याकर्मश्रुतीनां परस्पविरोधं परिहृत्य प्रकृतायां विद्याकर्मणोः समुच्चयानुपपत्तौ प्रकारान्तरेण विरोधं हेतुमाह —
अपि चेति ।
विद्यावतः कर्मासम्भवं वक्तुं कर्मणः काममूलत्वमाह —
अनात्मदर्शिनो हीति ।
अनात्मनि देहादावात्मत्वदर्शिनः स्वव्यतिरिक्तान्कामयितव्यपदार्थान्पश्यतस्तद्विषयः कामो भवति । हि प्रसिद्धमित्यर्थः ।
ततः किम् ? तत्राह —
कामयमानश्च करोतीति ।
तदुक्तं भगवता व्यासेन - ‘यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्’ इति ।
कर्मणां संसारफलकत्वाच्च विदुषः कर्मानुष्ठानं न सम्भवतीत्याशयेन कर्मफलं दर्शयति —
तत्फलेति ।
संसार इति ।
कामिन इति शेषः ।
विद्यावतस्तु कामाभावान्न कर्मानुष्ठानमित्याह —
तद्व्यतिरेकेणेत्यादिना ।
आत्मैकत्वदर्शिनस्तद्व्यतिरेकेण आत्मैकत्वव्यतिरेकेण कामयितव्यविषयाभावादनात्मगोचरकामानुपपत्तिरित्यर्थः ।
ननु तर्ह्यात्मन्येव कामोऽस्त्वानन्दरूपत्वादात्मनः, तथा च तत्कामनया विदुषोऽपि कर्मानुष्ठानं स्यादिति ; नेत्याह —
आत्मनि चेति ।
कामस्यात्मान्यविषयत्वादात्मानन्दे च विदुषोऽन्यत्वभ्रान्तेर्निवृत्तत्वादात्मनि कामानुपपत्तिः, तदनुपपत्तौ च विदुषो मुक्तिरेव पर्यवस्यति ; तथा च मुक्तस्य न कर्मानुष्ठानप्रत्याशेति भावः ।
फलितमाह —
अतोऽपीति ।
विदुषः कामाभावेन कर्मानुष्ठानासम्भवादपीत्यर्थः ।
विरोध इति ।
एकदैकत्र पुरुषे सहानवस्थानलक्षण इत्यर्थः । तथा च समुच्चयवादिमते कर्मविद्याश्रुतीनामप्येकदैकपुरुषविषयत्वासम्भवलक्षणविरोधोऽपि तदनिष्टः प्राप्नोतीति भावः ।
विद्या प्रधानं कर्म चोपसर्जनमिति पक्षोऽपि समप्राधान्यपक्षवदत एव निरस्त इत्याह —
विरोधादेव चेति ।
स्वमते कर्मविद्याश्रुतीनां क्रमसमुच्चयपरत्वेनाविरोधं वक्तुं पूर्वोक्तमर्थं स्मारयति —
स्वात्मलाभे त्विति ।
स्वात्मलाभे तु स्वोत्पत्तौ तु विद्या कर्माण्यपेक्षत इति योजना ।
एतदेव विवृणोति —
पूर्वोपचितेति ।
कर्मणां विद्याहेतुत्वे मानमाह —
अत एवेति ।
विद्योदयहेतुत्वादेवेत्यर्थः ।
कर्मणां शुद्धिद्वारा विद्याहेतुत्वे फलितमाह —
एवं चेति ।
एतेन ‘विद्यां चाविद्यां च’ इति वचनं क्रमसमुच्चयाभिप्रायम् , उपासनकर्मणोर्यौगपद्येन समुच्चयाभिप्रायं वा भविष्यति ; ‘कर्मणैव हि’ इति वचनमपि कर्मणैव चित्तशुद्ध्यादिक्रमेण मुक्तिं प्राप्ता इत्यभिप्रायकं भविष्यति ; ‘तत्प्राप्तिहेतुर्विज्ञानम्’ इति वचनमपि क्रमसमुच्चयाभिप्रायमेवेति सूचितमिति ध्येयम् ।
परमप्रकृतमुपसंहरति —
अत इति ।
मोक्षे केवलकर्मसाध्यत्वस्य समुच्चयसाध्यत्वस्य च निरस्तत्वादित्यर्थः ॥