कर्मणां विद्यासाधनत्वनिरूपणमुपश्रुत्य लब्धावकाश आश्रमान्तराण्याक्षिपति —
एवं तर्हीति ।
यदि कर्माणि विद्योत्पत्तौ निमित्तानि, तर्ह्याश्रमान्तराणां नैष्ठिकवानप्रस्थपारिव्राज्यलक्षणानामनुपपत्तिरननुष्ठेयता स्यादित्यर्थः ।
विद्योत्पत्तेः कर्मनिमित्तकत्वेऽपि कथमाश्रमान्तरानुपपत्तिः ? अत आह —
गार्हस्थ्ये चेति ।
गार्हस्थ्य एवाग्निहोत्रादीनि कर्माणि विहितानि नाश्रमान्तरेषु, अतो गार्हस्थ्यमेकमेवानुष्ठेयमित्यर्थः ।
गार्हस्थ्यस्यैवानुष्ठेयत्वे हेत्वन्तरमाह —
अतश्चेति ।
अत एवानुकूलतरा भवन्तीति योजना । आश्रमान्तराणामनुष्ठानपक्षे सर्वेषामधिकारिणां यावज्जीवं कर्मानुष्ठानालाभाद्यावज्जीवादिश्रुतयो नानुकूलतराः स्युरित्यर्थः । आश्रमान्तरानुष्ठानपक्षेऽपि यावज्जीवादिश्रुतयोऽनुकूला भवन्त्येव, कर्मणां विद्याहेतुत्वेऽपि विद्यामकामयमानैर्गृहस्थैः प्रत्यवायपरिहारार्थं यावज्जीवं कर्मणामनुष्ठानात् , इदानीं तु विद्याकामैरपि विद्योत्पत्तये यावज्जीवं गार्हस्थ्य एव स्थित्वा कर्माण्यनुष्ठेयानीति विशेषलाभादनुकूलतराः स्युरित्युक्तमिति मन्तव्यम् । आदिपदेन ‘वीरहा वा एष देवानां योऽग्निमुद्वासयते’ इत्याद्या आश्रमान्तरनिषेधश्रुतयो गृह्यन्ते ।
अत्र किमाश्रमान्तराणामविहितत्वादननुष्ठेयत्वम् , किं वा तेषां प्रतिषेधात् , अथ वा तेषु विद्याहेतुकर्माभावात् ? नाद्यः श्रुतिस्मृत्योराश्रमान्तराणां विधिदर्शनात् । न द्वितीयः, निषेधश्रुतेर्यावज्जीवादिश्रुतेश्चाविरक्तविषयतया सङ्कोचोपपत्तेः, अन्यथा सांसारिकफलाद्विरक्तस्य ‘यदहरेव विरजेत्’ इत्यादिसंन्यासविधिविरोधप्रसङ्गात् । न तृतीय इत्याह —
न कर्मानेकत्वादिति ।
विद्याहेतुभूतानां कर्मणां नानाविधत्वादाश्रमान्तरेष्वपि सन्त्येव विद्यासाधनानि कर्माणि, अतो नाश्रमान्तरानुपपत्तिरित्यर्थः ।
ननु यानि गार्हस्थ्ये विहितानि तान्येव कर्माणि, नाश्रमान्तरेषु विहितानि ब्रह्मचर्यादीनीत्याशङ्क्याह —
न हीति ।
न ह्यग्निहोत्रादीन्येव कर्माणि, किं तु ब्रह्मचर्यादीन्यपि कर्माणि भवन्त्येव अनुष्ठेयत्वाविशेषादित्यर्थः ।
तान्येवाश्रमान्तरेषु श्रुत्यादिसिद्धानि कर्माणि प्रपञ्चयन्विद्योत्पत्तिं प्रति तेषां गार्हस्थ्ये विहितकर्मभ्यः सकाशादतिशयं दर्शयति —
ब्रह्मचर्यं तप इत्यादिना ।
असङ्कीर्णानीति ।
हिंसानृतवचनादिदोषैरसङ्कीर्णानीत्यर्थः ।
आश्रमान्तरस्थानां चित्तैकाग्र्यतत्त्वविचारादिकर्मणां विद्यासाधनत्वे मानमाह —
वक्ष्यति चेति ।
‘सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम्’ इत्यादिश्रुतिसङ्ग्रहार्थश्चकारः ।
इतश्च कर्मणां विद्यासाधनत्वेऽपि न गार्हस्थ्यमावश्यिकम् , अतो नैकाश्रम्यनिर्बन्ध इत्याशयेनाह —
जन्मान्तरेति ।
केषाञ्चिज्जन्मान्तरकृतकर्मभ्य एव दारसङ्ग्रहात्प्रागपि विद्योदयसम्भवात्तेषां गार्हस्थ्यप्राप्तिरनर्थिका ।
ननूत्पन्नविद्यानामपि गार्हस्थ्यप्राप्तिरस्तु ; नेत्याह —
कर्मार्थत्वाच्चेति ।
‘जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीय’ इत्यादिश्रुतिपर्यालोचनया गार्हस्थ्यप्राप्तेः कर्मानुष्ठानार्थत्वस्यैवावगमात्कर्मफलभूतायां विद्यायां सिद्धायां तत्प्राप्तिरनर्थिकैवेत्यर्थः ।
कर्मसाध्यायां चेति ।
कर्मभिः साधनीयायामित्यर्थः । चकारो विदुषः कर्मासम्भवसूचनार्थः ।
सर्वेषां गार्हस्थ्यनिर्बन्धाभावे हेत्वन्तरमाह —
लोकार्थत्वाच्चेति ।
ननु पुत्रकर्मापरविद्यानां गार्हस्थ्ये सम्पादनीयानां लोकत्रयार्थत्वेऽपि जन्मान्तरकृतकर्मभिरुत्पन्नविद्येन पुंसा गार्हस्थ्यं प्राप्तव्यमेव, तस्यापि लोकार्थत्वादिति ; नेत्याह —
पुत्रादीति ।
‘अयं लोकः पुत्रेणैव जय्यः कर्मणा पितृलोको विद्ययादेवलोकः’ इति श्रुत्या पृथिवीलोकादीनां पुत्रादिसाध्यत्वमवगम्यते । एतेभ्यश्च पुत्रादिसाध्येभ्यो लोकेभ्यो व्यावृत्तकामत्वान्न तस्यात्मदर्शिनः कर्मानुष्ठानोपयोगिनि गार्हस्थ्ये प्रवृत्तिरुपपद्यते । नित्यसिद्ध आत्मैव लोकनं लोक इति व्युत्पत्त्या लोकः लोकनं चैतन्यम् । इदं च नित्यसिद्धात्मलोकदर्शित्वं व्यावृत्तकामत्वे हेतुतयोपात्तम् । तदुक्तं भगवता — ‘रसोऽप्यस्य परं दृष्ट्वा निवर्तते’ इति । रसो रागः ।
एवं ब्रह्मचर्याश्रम एवोत्पन्नविद्यानां न गार्हस्थ्यमपेक्षितमित्युक्तम् । इदानीं गृहस्थस्य सतो विद्योदयेऽपि गार्हस्थ्यपरित्याग एव न्याय्य इत्याह —
प्रतिपन्नेति ।
विद्यायाः परिपाकः प्रतिबन्धराहित्यम् ; अप्रतिबन्धात्मविद्याबलेन कर्मफलेभ्यो नितरां विरक्तस्येत्यर्थः ।
निवृत्तिरेवेति ।
विधिना कर्मपरित्यागरूपसंन्यास एव स्यादित्यर्थः । अरे मैत्रेयि, अस्मात्प्रत्यक्षात्स्थानाद्गार्हस्थ्यात् प्रव्रजिष्यन्नेवास्मि त्यक्त्वेदं गार्हस्थ्यं पारिव्राज्यं करिष्यन्नस्मीति प्रतिज्ञापूर्वकं यज्ञवल्क्यः प्रवव्राजेति विदुषो याज्ञवल्क्यस्य पारिव्राज्ये प्रवृत्तिदर्शनाल्लिङ्गादित्यर्थः । एवमादीत्यादिपदेन ‘आत्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति’ इत्यादीनि श्रुतिलिङ्गानि गृह्यन्ते । न कर्मानेकत्वादित्यादिना कर्मणां विद्यासाधनत्वेऽपि यथा विद्याकामेन गार्हस्थ्यमनुष्ठातुं शक्यते तथैवाश्रमान्तराण्यपि यथारुच्यनुष्ठातुं शक्यन्ते, तेष्वपि विद्यासाधनकर्मणां सत्त्वात् । तथा च वचनम् ‘तस्याश्रमविकल्पमेके समामनन्ति’ इति । अत्र च वचने तच्छब्दो ब्रह्मचारिपरः । अनन्तरं च जन्मान्तरकृतेत्यादिना विदुषः पारिव्राज्यमेवेत्युक्तम् ।
इत्थं गार्हस्थ्यस्यानावश्यिकत्वादाश्रमाणां वैकल्पिकमनुष्ठानमुक्तमाक्षिपति —
कर्म प्रतीति ।
श्रुतेरग्निहोत्रादिकर्मसु तात्पर्यातिशयवत्त्वादग्निहोत्रादिधर्मयुक्तं गार्हस्थ्यं प्रबलम् , अतोऽतुल्यत्वाद्गार्हस्थ्यानधिकृतविषयमाश्रमान्तरविधानमित्यर्थः ।
आक्षेपं विवृणोति —
अग्निहोत्रादीति ।
अधिको यत्नः तात्पर्यातिशयः । ‘एष आदेशः’ इत्यादिवचनपर्यालोचनया श्रुतेर्यत्नाधिक्यावगमादिति भावः ।
गार्हस्थ्यस्य प्राबल्ये हेत्वन्तरमाह —
महांश्चेति ।
इतश्च तस्य प्राबल्यमित्याह —
तपोब्रह्मचर्यादीनां चेति ।
यानि चाश्रमान्तरस्थानि कर्माणि तान्यपि यथासम्भवं गृहस्थानां सन्त्येव, परं त्वग्निहोत्रादीन्यधिकानि ; तथा च गार्हस्थ्यस्य धर्मबाहुल्यात्प्राबल्यमित्यर्थः ।
इतराश्रमकर्मणामायासाधिक्याभावे हेतुमाह —
अनन्येति ।
ऋत्विग्वित्तादिसाधनापेक्षत्वाभावादित्यर्थः ।
तस्येति ।
गृहस्थस्येत्यर्थः ।
यत्नाधिक्यायासबाहुल्यधर्मबाहुल्यानामन्यथासिद्धत्वाद्गार्हस्थ्यप्राबल्यप्रयोजकत्वमसिद्धमिति मन्वानः कर्मफलभूतायां विद्यायां विरक्तौ वा लब्धायां पुनः कर्मानुष्ठानैकप्रयोजने गार्हस्थ्ये प्रवृत्तिर्विफलेति परिहरति —
न जन्मान्तरकृतानुग्रहादिति ।
सङ्ग्रहवाक्यं विवृणोति —
यदुक्तमित्यादिना ।
ब्रह्मचर्यादिलक्षणं चेति ।
आश्रमान्तरस्थमिति शेषः ।
जन्मान्तरकृतशुभाशुभकर्मणामस्मिञ्जन्मनि स्वफलोत्पादकत्वे लिङ्गमाह —
येनेति ।
कर्मसु प्रवृत्तौ हेतुं सूचयति —
अविरक्ता इति ।
अत एवाह —
विद्याविद्वेषिण इति ।
विद्यायाः सांसारिकभोगविरोधित्वात्तत्र रागिणां वैमुख्यं युक्तम् । इदं च वैमुख्यमशुभकर्मफलमनर्थपरम्परावहत्वात् । येन जन्मनैव वैराग्यादिकं केषाञ्चिद्दृश्यते तेन जन्मान्तरकृतमप्यनुग्राहकं भवति ; यतो जन्मान्तरकृतमप्यनुग्राहकं भवति, तस्माज्जन्मान्तरकृतकर्मजनितसंस्कारेभ्यो विरक्तानामुत्पन्नविद्यानामनुत्पन्नविद्यानां च पारिव्राज्यप्राप्तिरेवेष्यते न गार्हस्थ्यप्राप्तिः, कर्मप्रयोजनस्य सिद्धत्वादित्यर्थः ।
इदानीं यत्नाधिक्यादेरन्यथासिद्धिमाह —
कर्मफलबाहुल्याच्चेति ।
यद्वा जन्मान्तरकृतानुग्रहादित्यनेन जन्मान्तरकृतानामप्यग्निहोत्रादीनां यतो विद्यां प्रत्यनुग्राहकत्वमतोऽग्निहोत्रादिकर्मसु श्रुतेर्यत्नाधिक्यादिकमुपपद्यत इति यत्नाधिक्यादेरन्यथासिद्धावेको हेतुरुक्तः ।
हेत्वन्तरमाह —
कर्मफलबाहुल्याच्चेति ।
कामबाहुल्यादित्युक्तमनुभवेन साधयति —
आशिषामिति ।
अभ्युदयफलानामसङ्ख्येयत्वादेव तत्साधनकर्मानुष्ठानोपयोगिनि गृहाश्रमे कर्मबाहुल्यं कर्मणामायासबाहुल्यं चेति भावः ।
अग्निहोत्रादीनां विद्यां प्रत्युपायत्वाच्च तत्र यत्नाधिक्यादिकमित्यन्यथासिद्धौ हेत्वन्तरमाह —
उपायत्वाच्चेति ।
उपेयं फलम् । तथा च गार्हस्थ्यप्राबल्ये मानाभावादाश्रमान्तरस्थकर्मणां विद्यां प्रति साधकतमत्वेनाश्रमान्तराणामेव प्राबल्यसम्भवाच्च विरक्तानां कर्मानुष्ठानसामर्थ्ये सत्यपि पारिव्राज्यमेव युक्तमिति भावः ।
पूर्वं स्वात्मलाभे त्वित्यादावग्निहोत्रादिकर्मणां प्रतिबन्धकदुरितक्षयद्वारा विद्याहेतुत्वमुक्तम् ; तदुपश्रुत्य शङ्कते —
कर्मनिमित्तत्वादिति ।
किं तद्यत्नान्तरमित्याकाङ्क्षायां सङ्ग्रहं विवृणोति —
कर्मभ्य एवेति ।
श्रवणादिवैयर्थ्यं परिहरति —
न, नियमाभावादिति ।
ईश्वरप्रसादपदेन तद्धेतुभूतोपनिषच्छ्रवणादियत्नो लक्ष्यते, ईश्वरप्रसादस्याननुष्ठेयत्वाच्छ्रवणादियत्नस्य प्रकृतत्वाच्च । तथा च लोके कर्मकृतात्प्रतिबन्धक्षयादेव विद्या जायते न तु श्रवणाद्यनुष्ठानादिति नियमो नास्ति, नास्माभिस्तथाभ्युपगम्यते चेत्यर्थः ।
कुत इत्यत आह —
अहिंसेति ।
संन्यासाश्रमकर्मणामहिंसादीनामपि विद्यां प्रत्यन्तरङ्गसाधनत्वेन तैर्विना कर्मभिः क्षीणपापस्यापि विद्योदयासम्भवादित्यर्थः ।
अहिंसाद्यपेक्षयापि श्रवणादौ विशेषमभिप्रेत्याह —
साक्षादेवेति ।
प्रमाणाद्यसम्भावनादिलक्षणदृष्टप्रतिबन्धनिरासेन विद्यासाधनत्वाच्छ्रवणादेरावश्यकतेत्यर्थः ।
उपसंहरति —
अतः सिद्धानीति ।
विहितत्वाविशेषादियुक्तेरित्यतःशब्दार्थः ।
विद्यायामिति ।
विद्यासाधनकर्मसु सर्वेषामाश्रमिणामधिकारः सिद्ध इत्यर्थः ।
समुच्चयनिराकरणफलमुपसंहृतमपि पुनरुपसंहरति चिन्तासमाप्तिद्योतनार्थम् —
परं श्रेय इति ।
विद्याया इति पञ्चमी ॥