तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
अतीतविद्याप्राप्त्युपसर्गप्रशमनार्था शान्तिः पठिता । इदानीं तु वक्ष्यमाणब्रह्मविद्याप्राप्त्युपसर्गोपशमनार्था शान्तिः पठ्यते -
अतीतविद्याप्राप्त्युपसर्गप्रशमनार्था शान्तिः पठिता । इदानीं तु वक्ष्यमाणब्रह्मविद्याप्राप्त्युपसर्गोपशमनार्था शान्तिः पठ्यते -

ननु ‘शं नो मित्रः’ इत्यादिशान्तेरादावेव पठितत्वादिदानीं पुनः किमर्थं पठ्यते ? तत्राह —

शं नो मित्र इत्याद्यतीतेति ।

संहितोपनिषद्यतीतानां विद्यानां प्राप्तौ ये उपसर्गाः विघ्नास्तेषामुपशमनाय ‘शं नो मित्रः’ इत्याद्या शान्तिरादौ पठितेत्यर्थः ।

पुनः पाठ उत्तरार्थ इत्याह —

इदानीमिति ।

यद्यपि पुनःपाठस्यापि पूर्वशेषत्वमेव प्रतीयते ‘आवीन्माम्’ इत्यादिलिङ्गात् , तथाप्यतीतविद्योपसर्गप्रशमनरूपस्य प्रार्थनाप्रयोजनस्य सिद्धत्वादुपक्रमे ‘शं नो भवत्वर्यमा’ इति प्रार्थनालिङ्गाच्च पुनःपाठस्योत्तरविद्याशेषत्वमुक्तमिति मन्तव्यम् ; तथा च ‘तन्मामावीत्’ इत्यादौ तत् वाय्वाख्यमपरं ब्रह्म माम् अपरविद्यार्थिनम् आवीत् अरक्षत् इदानीं परविद्यार्थिनं मामवत्वित्यादिप्रकारेण परब्रह्मविद्याशेषत्वानुगुणमुपपादनं कर्तव्यमिति भावः ।