आप्नोतीत्यस्य विवक्षितमर्थं दर्शयितुमाक्षिपति –
नन्विति ।
वक्ष्यतीति ।
आनन्त्यादिवचनेनेति शेषः ।
ततः किम् ? अत आह –
अत इति ।
सर्वगत्वात्सर्वात्मकत्वाच्चेत्यर्थः ।
एवंभूतस्याप्याप्यत्वं किं न स्यादित्याशङ्क्य तत्र लौकिकव्याप्तिविरोधं मत्वा तामाह –
आप्तिश्चेति ।
लोके प्राप्यत्वेन प्रसिद्धग्रामादिवैलक्षण्यं ब्रह्मणो दर्शयति –
अपरिच्छिन्नमिति ।
फलितमाह –
अत इति ।
उक्तानुपपत्तेरदोषत्वं कथमिति पृच्छति –
कथमिति ।
मुख्याप्तेरत्राविवक्षितत्वादनुपपत्तिर्न दोष इत्याशयेनाह –
दर्शनेति ।
अदर्शननिमित्तामप्राप्तिं साधयति –
परमार्थत इत्यादिना ।
भूतमात्राभिः पञ्चीकृतापञ्चीकृतभूतांशैः कृता ये आत्मस्वरूपापेक्षया बाह्याः परिच्छिन्नाश्चान्नमयादयः कोशाः तेष्वात्मदर्शिनो जीवस्य या अविद्या तया स जीवो नान्योऽहमस्मीत्यभिमन्यत इति योजना । तदासक्तचेतसः तेष्वेवासक्तं चेतो यस्य तथाभूतस्य । आसक्तिरत्र कोशाभिमानप्रयुक्तदुःखादिमत्ता विवक्षिता । परमार्थं ब्रह्मस्वरूपं नास्तीत्यभावदर्शनं लक्षणं लिङ्गं यस्याः सा तथा, तयेत्यर्थः । ‘अन्नमयादीन्’ इत्यादिद्वितीया षष्ठ्यर्थे । अन्नमयाद्यात्मभ्योऽन्योऽहमस्मीति नाभिमन्यते कोशव्यतिरिक्तं परमार्थस्वरूपं न जानातीत्यर्थः । अत्र नाभिमन्यत इत्यनेन स्वरूपभूतेऽपि ब्रह्मणि ग्रहणाभाव उक्तः । अन्नमयाद्यात्मदर्शिन इत्यनेन तस्मिन्देहाद्यात्मत्वगोचरो विपर्यय उक्तः । अविद्ययेत्यनेनावरणसमर्था मूलाविद्या दर्शिता ।
स्वरूपेऽप्यग्रहणादयो भवन्तीत्यत्र दृष्टान्तमाह –
प्रकृतेति ।
प्रकृताया दशसङ्ख्यायाः पूरणे समर्थस्यात्मनः स्वस्य देवदत्तस्य संनिकृष्टस्यापि स्वापेक्षया बाह्या ये नव सङ्ख्येयाः तद्विषयासक्तचित्ततया स्वात्मानं विहाय तेष्वेव पुनः पुनः परिगणनव्यासक्तचित्ततया स्वात्मभूतोऽपि दशमो नास्तीत्यभावदर्शनम् , तद्धेतुभूतं दशमं न जानामीत्यनुभूयमानमावरणम् , नवैव वर्तामह इति विपर्ययश्च यथा दशमस्य स्वरूपेऽपि दृश्यन्ते तथेत्यर्थः ।
अदर्शननिमित्तां ब्रह्मणोऽनाप्तिमुपसंहरति –
एवमिति ।
इदानीं दर्शननिमित्तां तदाप्तिं दृष्टान्तेन विवृणोति –
तस्यैवमिति ।
केनचिदिति ।
'दशमस्त्वमसि’ इत्याप्तेन स्मारितस्वरूपस्येत्यर्थः ।
तस्यैवेति ।
यद्दशमस्वरूपमविद्ययानाप्तमासीत्तस्यैवेत्यर्थः ।
श्रुतीति ।
श्रुत्युपदिष्टस्य सर्वात्मकस्य ब्रह्मणो यदात्मत्वेन दर्शनं तदेव विद्या, तया आप्तिरनाप्तत्वभ्रमनिवृत्तिरूपा उपपद्यत इत्यर्थः ।
इत्थमाद्यं ब्राह्मणवाक्यं व्याख्याय अनेन वाक्येनोत्तरसन्दर्भस्य सङ्गतिमाह –
ब्रह्मविदाप्नोतीति ।
सूत्रभूतमिति ।
सङ्ग्राहकमित्यर्थः । अनेनाद्यवाक्यस्यैव विवरणरूपत्वादुत्तरग्रन्थस्य व्याख्यानव्याख्येयभावेनानयोः सङ्गतिरित्यर्थः ।
इत्थमाद्यवाक्यविवरणरूपमुत्तरं मन्त्रब्राह्मणवाक्यजातमिति तात्पर्यमुक्त्त्वा ‘सत्यं ज्ञानम्’ इति मन्त्रं सङ्क्षेपतोऽर्थकथनपूर्वकमवतारयति –
ब्रह्मविदाप्नोति परमित्यनेनेत्यादिना ।
अनिर्धारितेति ।
बृहत्त्वाद्ब्रह्मेति व्युत्पत्तिबलेनास्ति किमपि महद्वस्त्विति प्रतीयते, न तु तद्बलेन ब्रह्मणः स्वरूपविशेषोऽपि प्रतीयत इति भावः । सर्वतो व्यावृत्तो यः स्वरूपविशेषस्तत्समर्पणे समर्थस्य लक्षणस्याभिधानेन स्वरूपनिर्धारणायैषा ऋगुदाह्रियत इति सम्बन्धः । ब्रह्मविदित्यनेन अविशेषेण ‘अस्ति ब्रह्म’ ‘अहं ब्रह्म’ इति वेदनद्वयसाधारण्येनोक्तं वेदनं यस्य ब्रह्मणः तस्येत्यर्थः । वक्ष्यमाणं लक्षणं सच्चिदानन्त्यरूपं यस्य तस्येत्यर्थः । विशेषेणेत्यस्य विवरणमनन्यरूपेणेति ।
तस्य पर्यवसितमर्थमाह –
प्रत्यगात्मतयेति ।
'अहं ब्रह्म’ इत्येवमाकारेण ब्रह्मणो विज्ञेयत्वाय चैषा ऋगुदाह्रियत इति सम्बन्धः ।
तत्सर्वात्मभाव इति ।
सर्वसंसारास्पृष्टब्रह्मस्वरूपभूतसर्वात्मभाव एव नान्यत्स्वर्गादिकमित्यर्थः ।
इत्थं मन्त्रमवतार्य तदाद्यपादतात्पर्यमाह –
ब्रह्मण इति ।
ब्रह्मणः स्वरूपलक्षणार्थकमिदं वाक्यमित्यर्थः ।
लक्षणवाक्यस्थपदानि विभजते –
सत्यादीनि हीति ।
सत्यादिपदत्रयं विशेषणसमर्पकमित्यर्थः । ब्रह्मपदसमभिव्याहृतानां सत्यादिपदानां बुभुत्सितं ब्रह्म प्रति विशेषणसमर्पकत्वाभावे ब्रह्मस्वरूपविशेषनिर्णयायोगादिति युक्तिसूचनार्थो हि-शब्दः ।
वेद्यतयेति ।
आद्यवाक्ये वेद्यतयोक्तं ब्रह्म विशेष्यम् ; तस्यैव प्राधान्येनात्र वक्तुमिष्टत्वादित्यर्थः । न च लक्षणं सजातीयविजातीयव्यावर्तकम् , विशेषणं तु विशेष्यस्य तत्सजातीयमात्रव्यावर्कमिति वक्ष्यति, तथा च लक्षणविशेषणयोर्भेदात्कथं लक्षणार्थं वाक्यमित्युपक्रम्य विशेषणाद्यर्थकतया वाक्यं व्याख्यायत इति वाच्यम् ; सजातीयविजातीयव्यावर्तकस्य सतो लक्षणस्य विशेषणस्येव सजातीयव्यावर्तकत्वांशोऽपि विद्यत इत्येतावतात्र विशेषणत्वव्यवहारस्वीकारेण समानजातीयमात्रनिवर्तकत्वरूपमुख्यविशेषणत्वस्यात्राविवक्षितत्वात् । न चैवमपि ब्रह्मणः स्वरूपभूतं सत्यादिकं कथं लक्षणम् , व्यावर्तकधर्मस्यैव वादिभिर्लक्षणत्वाभ्युपगमादिति वाच्यम् ; गौरवेण धर्मत्वांशस्य तत्र प्रवेशायोगात् , व्यावर्तकमात्रस्य स्वरूपेऽपि सम्भवात् । न च सत्यादेर्लक्ष्यब्रह्मस्वरूपत्वात्कथमेकस्यैव लक्षणत्वं लक्ष्यत्वं च सम्भवतीति वाच्यम् ; लक्ष्यस्वरूपस्यापि सतः सत्यादेर्ज्ञातस्य इतरव्यावृत्तिबोधोपयुक्ततया लक्षणत्वम् , सत्यादिस्वरूपस्यैव सतो ब्रह्मण इतरव्यावृत्ततया ज्ञाप्यमानत्वरूपं लक्ष्यत्वमित्येकत्रापि रूपभेदेनोपपत्तेरित्यन्यत्र विस्तरः ।
सत्यादिपदार्थानां विशेषणविशेष्यभावे लिङ्गमाह –
विशेषणविशेष्यत्वादेवेति ।
'नीलं महत्सुगन्ध्युत्पलम्’ इत्यादौ सत्येव विशेषणविशेष्यभावे समानाधिकरणतयैकविभक्त्यन्तानि नीलादिपदानि प्रसिद्धानि ; प्रकृते च सत्यादिपदानि तथाभूतानि ; ततोऽर्थगतविशेषणविशेष्यभावनिबन्धनानीति गम्यत इत्यर्थः ।
सत्यादिपदार्थानां विशेषणत्वप्रसाधनफलमाह –
सत्यादिभिश्चेति ।
विशेष्यमाणमिति ।
सम्बध्यमानमित्यर्थः । निर्धार्यते व्यावर्त्यते ।
इतरव्यावृत्तिबोधफलमाह –
एवं हीति ।
यदि ब्रह्मान्येभ्यो निर्धारितं स्यादेवं सति तद्ब्रह्म ज्ञातं विशेष्य निर्णीतं भवतीत्यर्थः ।
बुभुत्सितस्य वस्तुनो विशेषणैर्विशेषतो निर्धारणे हि-शब्दसूचितं दृष्टान्तमाह –
यथेति ।
उक्तं विशेषणविशेष्यभावमाक्षिपति –
नन्विति ।
यत्र विशेष्यजातीयं वस्तु विशेषणान्तरं व्यभिचरद्वर्तते तत्र विशेष्यजातीयं विशेष्यते विशेषणैरित्यत्रोदाहरणम् –
यथेति ।
उप्पलजातीयं नीलं रक्तं चास्तीति कृत्वा नैल्येन विशेष्यते ‘नीलमुत्पलम्’ इति यथेत्यर्थः ।
एतदेव प्रपञ्चयति –
यदा हीति ।
अर्थवत्त्वमिति ।
स्यादिति शेषः ।
तत्र व्यतिरेकमाह –
न हीति ।
एकस्मिन्नेव वस्तुनि विशेषणान्तरायोगाद्धेतोर्विशेषणस्यार्थवत्त्वं न हि सम्भवतीत्यर्थः ।
अत्रोदाहरणमाह –
यथासाविति ।
विशेषणान्तरयोगिन आदित्यजातीयस्यान्यस्याभावादादित्यस्य विशेषणमर्थवन्न भवति यथेत्यर्थः ।
ततः किम् ? तत्राह –
तथैकमेवेति ।
ब्रह्मणोऽद्वितीयत्वश्रवणादिति भावः ।
किमत्र सत्याद्यर्थानां समानजातीयमात्रव्यावर्तकत्वरूपं मुख्यविशेषणत्वमाक्षिप्यते किं वा समानजातीयव्यावर्तकत्वमात्ररूपमौपचारिकमपि ? नान्त्यः, तस्येहापि सम्भवात् ; न च ब्रह्मणः समानजातीयानां ब्रह्मान्तराणामभावात्कथं तत्सम्भवतीति वाच्यम् ; वस्तुतो ब्रह्मान्तराणामभावेऽपि कल्पितानामव्याकृतभूताकाशकालादिलक्षणब्रह्मान्तराणां सत्त्वात्तेषामपि व्यापकत्वरूपवृद्धिमत्त्वेन ब्रह्मशब्दवाच्यत्वोपपत्तेः ; तथा च ब्रह्मसमानजातीयानामव्याकृतादीनां व्यावर्त्यानां सत्त्वात्सत्याद्यर्थानां समानजातीयव्यावर्तकत्वमात्ररूपमौपचारिकविशेषणत्वं निष्प्रत्यूहम् , यथा बिम्बप्रतिबिम्बभावेनादित्यस्य कल्पितं नानात्वमादाय ‘अम्बरस्थः सविता सत्यः’ इति सत्यविशेषणस्य जलादौ कल्पितादित्यव्यावर्तनेनार्थवत्त्वम् ; नाद्यः, इष्टापत्तेरित्याशयेनाह –
नेति ।
स्वरूपलक्षणसमर्पकत्वाद्विशेषणपदानामित्यर्थः ।
सङ्ग्रहवाक्यं विवृणोति –
नायं दोष इत्यादिना ।
विशेषणानीति ।
सत्यादीनि विशेषणपदानि यतो लक्षणरूपार्थपराण्येव, न मुख्यविशेषणपराणि, तथा सति ब्रह्मणः सत्यादिविशेषणैः समानजातीयाद्व्यावृत्तिलाभेऽपि प्रकृते विवक्षितायाः सर्वतो व्यावृत्तेरलाभप्रसङ्गात् , ततश्च स्वरूपविशेषनिर्धारणाभावप्रसङ्ग इत्यर्थः ।
ननु प्रसिद्धविशेषणानां सजातीयमात्रव्यावर्तकत्वं लक्षणस्य तु सर्वतो व्यावर्तकत्वमित्ययं विशेष एव कुतः यतोऽत्र सत्यादीनां लक्षणत्वमुपेत्य विशेषणत्वं प्रतिषिध्यते न विशेषणप्रधानानीत्याक्षिपति –
कः पुनरिति ।
अनुभवमाश्रित्याह –
उच्यत इति ।
सर्वत इति ।
सजातीयाद्विजातीयाच्चेत्यर्थः ।
यथेति ।
यथा भूतत्वेन सदृशात्पृथिव्यादेर्विसदृशदात्मादेश्च सकाशादाकाशस्य व्यावर्तकमवकाशदातृत्वमित्यर्थः ।
ननु सत्यादिवाक्यं विशेषणविशेष्यसंसर्गपरं समानाधिकरणवाक्यत्वान्नीलोत्पलवाक्यवदिति, नेत्याह –
लक्षणार्थं चेति ।
देवदत्तस्वरूपैक्यपरे ‘सोऽयं देवदत्तः’ इति वाक्ये व्यभिचारात्सत्यत्वादिविशेषणविशिष्टस्य ब्रह्मणः सत्यादिवाक्यार्थत्वे विशिष्टस्य तस्य परिच्छिन्नत्वेनानन्त्यायोगाद्वाक्यशेषे तस्य वागाद्यगोचरत्वप्रतिपादनविरोधाच्च विशिष्टस्य वागादिगोचरत्वनियमात्तस्मान्न नीलोत्पलवाक्यवत् न संसर्गपरं सत्यादिवाक्यं किं त्वखण्डैकरसवस्तुपरमिति मत्वा प्रागेव ब्रह्मणो लक्षणार्थं वाक्यमित्यवोचामेत्यर्थः ॥