तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
ब्रह्मविदाप्नोति परम् । तदेषाभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चितेति । तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः । स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
ब्रह्मविदाप्नोति परमित्यादि । प्रयोजनं चास्या ब्रह्मविद्याया अविद्यानिवृत्तिः, ततश्च आत्यन्तिकः संसाराभावः । वक्ष्यति च - ‘विद्वान्न बिभेति कुतश्चन’ (तै. उ. २ । ९ । १) इति । संसारनिमित्ते च सति अभयं प्रतिष्ठां विन्दत इत्यनुपपन्नम् , कृताकृते पुण्यपापे न तपत इति च । अतोऽवगम्यते - अस्माद्विज्ञानात्सर्वात्मब्रह्मविषयादात्यन्तिकः संसाराभाव इति । स्वयमेवाह प्रयोजनम् ‘ब्रह्मविदाप्नोति परम्’ इत्यादावेव सम्बन्धप्रयोजनज्ञापनार्थम् । निर्ज्ञातयोर्हि सम्बन्धप्रयोजनयोः विद्याश्रवणग्रहणधारणाभ्यासार्थं प्रवर्तते । श्रवणादिपूर्वकं हि विद्याफलम् , ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. २ । ४ । ५) इत्यादिश्रुत्यन्तरेभ्यः । ब्रह्मवित् , ब्रह्मेति वक्ष्यमाणलक्षणम् , बृहत्तमत्वात् ब्रह्म, तद्वेत्ति विजानातीति ब्रह्मवित् , आप्नोति प्राप्नोति परं निरतिशयम् ; तदेव ब्रह्म परम् ; न ह्यन्यस्य विज्ञानादन्यस्य प्राप्तिः । स्पष्टं च श्रुत्यन्तरं ब्रह्मप्राप्तिमेव ब्रह्मविदो दर्शयति - ‘स यो हि वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इत्यादि ॥

ननु निर्विशेषात्मदर्शनादप्यज्ञानस्य निवृत्तिर्न सम्भवति तस्यानादित्वादित्याशङ्क्य विरोधिसन्निपाते सत्यनादेरपि निवृत्तिः सम्भवत्येव, प्रागभावस्यानादेरपि निवृत्तिदर्शनात् , गौरवेण भावत्वविशेषणायोगादित्याशयेनाह –

प्रयोजनं चेति ।

ननु विरोधिविद्यावशादविद्या कामवस्थामापद्यते ? असत्त्वावस्थामापद्यत इति ब्रूमः । तथा हि - यथा मुद्गरपातादिरूपविरोधिसंनिपातात्पूर्वं मृदादिदेशेन मुहूर्तादिकालेन जलाहरणादिकार्येण च सम्बन्धयोग्यं सद्घटादिस्वरूपं विरोधिसंनिपाताद्देशकालक्रियाभिः सम्बन्धायोग्यत्वलक्षणमसत्त्वमापद्यते, तथा विद्योदयरूपविरोधिसंनिपातात्पूर्वं चैतन्यरूपदेशेन ईश्वराद्यात्मककालेन संसाररूपकार्येण च सम्बन्धयोग्यं सदविद्यास्वरूपं विरोधिविद्योदयसंनिपाताच्चैतन्यादिना सम्बन्धायोग्यत्वलक्षणमसत्त्वमापद्यते । ननु विरोधिसंनिपाते सति घटादेर्ध्वंसो जायत इति चेत् ; किमेतावता ? न हि घटादिरेव ध्वंसरूपाभावो भवति ; अत एव प्रागुत्पत्तेर्नाशादूर्ध्वं च कार्यमसदिति वैशेषिकादिराद्धान्तः । ध्वंसोऽपि जन्मवत्क्षणिको विकारो न पराभिमताभावरूप इति व्यवस्थापितं शास्त्रसिद्धान्तलेशसङ्ग्रहादौ । ननु सिद्धान्ते विरोधिसंनिपाते सति कार्यस्य स्वपरिणाम्युपादाने सूक्ष्मावस्थारूपनाशाभ्युपगमान्नष्टस्यापि घटादिकार्यस्य सूक्ष्मरूपतामापन्नस्यास्ति देशादिसम्बन्धयोग्यतेति चेत् , न ; सिद्धान्तेऽपि कार्यगतस्थूलावस्थाया विरोधिसंनिपातेन निरुक्तासत्त्वोपगमात् । विद्योदये सत्यविद्यायास्तुच्छत्वापत्तिर्वार्त्तिककारैरुक्ता - ‘प्रत्यग्ब्रह्मणि विज्ञाते नासीदस्ति भविष्यति’ इति । पञ्चदश्यामप्युक्तम् - ‘विद्यादृष्ट्या श्रुतं तुच्छम्’ इति । विद्यारूपया तत्त्वदृष्ट्या मूलाविद्यायास्तुच्छत्वापत्तिः श्रुतिसिद्धेति तदर्थः । तस्माद्विद्योदये सति चैतन्यमात्रमवशिष्यते, नाविद्या नापि तत्कार्यमिति सङ्क्षेपः ।

नन्वविद्यानिवृत्तिर्न प्रयोजनम् असत्त्वापत्तिरूपायास्तस्याः सुखदुःखाभावेतरत्वादित्यत आह –

ततश्चेति ।

अविद्यानिवृत्तिवशादेव तत्कार्यसंसारस्य दुःखात्मकस्यात्यन्तिकी निवृत्तिर्भवति ; तथा चाविद्यानिवृत्तिद्वारा संसारदुःखनिवृत्तिरूपा मुक्तिर्विद्यायाः प्रयोजनमित्यर्थः ।

तत्र मानमाह –

वक्ष्यति चेति ।

भयोपलक्षितं संसारदुःखं न प्राप्नोति विद्वानित्यर्थः ।

अत्रैव पुनर्वचनद्वयमाह –

संसारेति ।

विद्ययात्यन्तिकसंसारनिवृत्तौ सत्यामेवाभयप्रतिष्ठावचनं पुण्यपापयोरकरणकरणानुसन्धानप्रयुक्तसन्तापाभाववचनं चोपपन्नमित्यर्थः ।

साधितं ब्रह्मविद्याप्रयोजनं सप्रमाणमुपसंहरति –

अतोऽवगम्यत इति ।

उपाहृतवचनजातादित्यतःशब्दार्थः ।

अस्माद्विज्ञानादिति ।

विधूतसर्वोपाधीत्यत्र प्रकृतादित्यर्थः ।

एवमानन्दवल्ल्यास्तात्पर्यमुपवर्ण्याद्यवाक्यस्य तात्पर्यमाह –

स्वयमेवेति ।

स्वयमेव श्रुतिः ‘ब्रह्मविदाप्नोति परम्’ इति वाक्येन ब्रह्मविद्यायाः प्रयोजनं सम्बन्धं च किमर्थमाहेत्याशङ्क्याह –

आदावेवेति ।

तत्र ‘आप्नोति परम्’ इत्यनेन प्रयोजननिर्देशः, ‘ब्रह्मवित्’ इत्यनेन ब्रह्मविद्याया निर्देशः, ताभ्यामेव समभिव्याहृताभ्यां विद्याप्रयोजनयोः प्रयोजनप्रयोजनिभावलक्षणसम्बन्धनिर्देश इति विभागः ।

नन्वादावेव तयोर्ज्ञापनं किमर्थम् ; तत्राह –

निर्ज्ञातयोर्हीति ।

मुमुक्षोरुपनिषत्सु स्वप्रयोजनमुक्तिसाधनविद्यासाधनत्वज्ञानं विना उपनिषच्छ्रवणादौ प्रवृत्त्ययोगात्तदर्थमादावेव प्रयोजनादिकं वक्तव्यमित्यर्थः । तत्र वृद्धसंमतिसूचनार्थो हि-शब्दः । तदुक्तं वृद्धैः - ‘सिद्धार्थं सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः’ इति । विद्यामुद्दिश्य गुरुमुखात्प्रथमं श्रवणम् , श्रुतस्यार्थस्याप्रतिपत्त्यादिनिरासेन ग्रहणम् , गृहीतस्यार्थस्य धारणम् , धृतस्यार्थस्य युक्तिभिरनुचिन्तनरूपोऽभ्यासः, तदर्थमित्यर्थः ।

नन्वधीतसाङ्गस्वाध्यायस्य वेदान्तेभ्य एव विद्यारूपफलोदयसम्भवाच्छ्रवणादिकं व्यर्थमिति, नेत्याह –

श्रवणादिपूर्वकं हीति ।

तत्र हि-शब्दसूचितं मानमाह –

श्रोतव्य इति ।

प्रमाणप्रमेयासम्भावनयोर्निरासाय श्रवणमनने आवश्यके इति भावः । ‘पाण्डित्यं निर्विद्य’ इत्यादिश्रुतिसङ्ग्रहार्थमादिपदम् ।

इदानीं प्रतीकग्रहणपूर्वकमक्षराणि व्याचष्टे –

ब्रह्मविदित्यादिना ।

वक्ष्यमाणलक्षणं ब्रह्मात्र ब्रह्मेति पदेनाभिधीयते न जात्यादिकमित्यत्र हेतुमाह –

वृद्धतमत्वादिति ।

ब्रह्मपदेन ‘बृहि वृद्धौ’ इति व्युत्पत्तिबलाद्वृद्धिमद्वस्तु कथ्यते ; सा च वृद्धिः सङ्कोचकाभावान्निरतिशयमहत्त्वे पर्यवस्यति ; तच्च निरतिशयमहत्त्वं वक्ष्यमाणलक्षण एव ब्रह्मणि सम्भवति नान्यत्रेति भावः ।

परं निरतिशयमिति ।

न चोत्कृष्टवाचिना परशब्देन स्वर्गादेरपि ग्रहणसम्भवात्कथं निरतिशयोत्कृष्टं ब्रह्मैवात्र परशब्दार्थः स्यादिति वाच्यम् ; ब्रह्मशब्दस्येव परशब्दस्यापि सङ्कोचकाभावेन परमानन्दरूपतया निरतिशयोत्कृष्टे ब्रह्मण्येव पर्यवसानसम्भवादिति भावः ।

ब्रह्मवेदनमात्रादब्रह्मप्राप्त्यसम्भवादपि तदेव परशब्दार्थ इत्याह –

न ह्यन्यस्येति ।

लोके कौन्तेयस्य सतो राधेयत्वभ्रमवत आप्तोपदेशजनितात् ‘कौन्तेयोऽहम्’ इति ज्ञानात्कौन्तेय एव प्राप्यो नान्य इति प्रसिद्धिसूचनार्थो हि-शब्दः ।

श्रुत्यन्तरानुसारादप्येवमेवेत्याह –

स्पष्टं चेति ।

तत्प्रकृतं परं ब्रह्म यो वेद स ब्रह्मैव भवति ह वै प्रसिद्धमेतद्विदुषामिति श्रुत्यन्तरार्थः ।