वृत्तानुवादपूर्वकमानन्दवल्ल्यास्तात्पर्यमाह –
संहितादीत्यादिना ।
वक्ष्यमाणविद्यावैलक्षण्यार्थमाह –
कर्मभिरविरुद्धानीति ।
कर्मभिरविरुद्धमेवान्यदप्युपासनमुक्तमित्याह –
अनन्तरं चेति ।
ननु कर्मसमुच्चितेन व्याहृतिशरीरब्रह्मोपासनेन स्वाराज्यप्रापकेणैव सबीजस्य संसारस्य निवृत्तिसम्भवात्किं निरुपाधिकब्रह्मविद्यारम्भेणेत्याशङ्क्याह –
न चैतावतेति ।
कर्मसमुच्चितेनापि सोपाधिकात्मदर्शनेनेत्यर्थः ।
अत इति ।
सोपाधिकात्मदर्शनस्याधिष्ठानयाथात्म्यदर्शनरूपत्वाभावेनाशेषसंसारबीजोपमर्दने सामर्थ्यरहितत्वादित्यर्थः ।