तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
ब्रह्मविदाप्नोति परम् । तदेषाभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चितेति । तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः । स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
सत्यादिशब्दा न परस्परं सम्बध्यन्ते, परार्थत्वात् ; विशेष्यार्था हि ते । अत एव एकैको विशेषणशब्दः परस्परं निरपेक्षो ब्रह्मशब्देन सम्बध्यते - सत्यं ब्रह्म ज्ञानं ब्रह्म अनन्तं ब्रह्मेति । सत्यमिति यद्रूपेण यन्निश्चितं तद्रूपं न व्यभिचरति, तत्सत्यम् । यद्रूपेण यन्निश्चितं तद्रूपं व्यभिचरति, तदनृतमित्युच्यते । अतो विकारोऽनृतम् , ‘ वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) एवं सदेव सत्यमित्यवधारणात् । अतः ‘सत्यं ब्रह्म’ इति ब्रह्म विकारान्निवर्तयति । अतः कारणत्वं प्राप्तं ब्रह्मणः । कारणस्य च कारकत्वम् , वस्तुत्वात् मृद्वत् अचिद्रूपता च प्राप्ता ; अत इदमुच्यते - ज्ञानं ब्रह्मेति । ज्ञानं ज्ञप्तिः अवबोधः, - भावसाधनो ज्ञानशब्दः - न तु ज्ञानकर्तृ, ब्रह्मविशेषणत्वात्सत्यानन्ताभ्यां सह । न हि सत्यता अनन्तता च ज्ञानकर्तृत्वे सत्युपपद्येते । ज्ञानकर्तृत्वेन हि विक्रियमाणं कथं सत्यं भवेत् , अनन्तं च ? यद्धि न कुतश्चित्प्रविभज्यते, तदनन्तम् । ज्ञानकर्तृत्वे च ज्ञेयज्ञानाभ्यां प्रविभक्तमित्यनन्तता न स्यात् , ‘यत्र नान्यद्विजानाति स भूमा, अथ यत्रान्यद्विजानाति तदल्पम्’ (छा. उ. ७ । २४ । १) इति श्रुत्यन्तरात् । ‘नान्यद्विजानाति’ इति विशेषप्रतिषेधात् आत्मानं विजानातीति चेत् , न ; भूमलक्षणविधिपरत्वाद्वाक्यस्य । ‘यत्र नान्यत्पश्यति’ इत्यादि भूम्नो लक्षणविधिपरं वाक्यम् । यथाप्रसिद्धमेव अन्योऽन्यत्पश्यतीत्येतदुपादाय यत्र तन्नास्ति, स भूमा इति भूमस्वरूपं तत्र ज्ञाप्यते । अन्यग्रहणस्य प्राप्तप्रतिषेधार्थत्वात् न स्वात्मनि क्रियास्तित्वपरं वाक्यम् । स्वात्मनि च भेदाभावाद्विज्ञानानुपपत्तिः । आत्मनश्च विज्ञेयत्वे ज्ञात्रभावप्रसङ्गः, ज्ञेयत्वेनैव विनियुक्तत्वात् ॥

ननु प्राक्सत्याद्यर्थानां त्रयाणामपि ब्रह्मविषेणत्वमित्युक्तम् ; तदयुक्तम् , संनिधानात्तेषां परस्परविशेषणविशेष्यभावसम्भवादिति, नेत्याह –

सत्यादिशब्दा इति ।

हेतुं साधयति –

विशेष्यार्था हि त इति ।

आद्यवाक्ये वेद्यतयोपात्तं ब्रह्म कीदृशमित्याकाङ्क्षायां तत्स्वरूपविशेषसमपर्कत्वेन प्रवृत्तं सत्यादिपदत्रयं ब्रह्मण एव विशेषणम् , संनिधानादाकाङ्क्षायाः प्रबलत्वाद्विशेष्यस्य प्रधानत्वेन विशेषणानां तदर्थत्वाच्च, प्रधानसम्बन्धस्याभ्यर्हितत्वाद्विशेषणानां समत्वेन परस्परं गुणप्रधानभावलक्षणविशेषणविशेष्यभावे विनिगमकाभावाच्च । अस्मिन्नर्थे वृद्धसंमतिसूचनार्थो हि-शब्दः । तदुक्तं जैमिनिना - ‘आनन्तर्यमचोदना’ ‘गुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यात्’ इति । आकाङ्क्षा विरुद्धमानन्तर्यं संनिधानमचोदना अन्वये कारणं न भवतीत्याद्यसूत्रार्थः ।

अत इति ।

परस्परसम्बन्धायोगादित्यर्थः ।

तत्र सत्यपदार्थमाह –

यद्रूपेणेति ।

रज्जुत्वेन रूपेण निश्चितं रज्ज्वात्मकं वस्तु न कदाचिद्रज्जुत्वरूपं परित्यजतीति तत्तेन रूपेण सत्यमित्युच्यते, तथा तदेव रज्ज्वात्मकं वस्तु सर्पत्वेन रूपेण निश्चितं कालान्तरे तद्रूपं परित्यजतीति तेन रूपेण तदनृतमुच्यते । एतदुक्तं भवति - यद्यस्य कादाचित्कं रूपं तत्तस्यानृतं यथा रज्ज्वादेः सर्पादिरूपं यथा वा मृदादेर्घटादिरूपमिति ।

फलितमनृतशब्दार्थमाह –

अत इति ।

रज्ज्वादौ सर्पादेरिव प्रकृतिषु विकाराणामपि कादाचित्कत्वाविशेषादित्यर्थः ।

उक्तयुक्तिसिद्धविकारानृतत्वानुवादिनीं श्रुतिमाह –

वाचारम्भणमिति ।

घटशरावादिविकारो नामधेयं नाममात्रम् , अनृतमिति यावत् ; तत्र हेतुर्वाचेति ; विकारसत्यत्वस्य वागालम्बनमात्रत्वात् , कारणसत्त्वव्यतिरेकेण दुर्निरूपत्वादित्यर्थः । न चैवमर्थकल्पनायां मानाभाव इति वाच्यम् ; कारणमात्रसत्यत्वावधारणस्यैव मानत्वात् ।

'एवं सोम्य स आदेशो भवति’ इति दार्ष्टान्तिकश्रुतिमर्थतः पठति –

एवं सदेवेति ।

आदिश्यत उपदिश्यत इत्यादेशः परमात्मा सच्छब्दवाच्यः एवं मृदादिवत्सत्यं परमार्थो भवति ब्रह्म, विकारस्तु प्रपञ्चो मृद्विकारवदनृत एवेत्यर्थः ।

एवं विकारस्यानृतत्वं कारणस्य सत्यत्वं च प्रसाध्य सत्यविशेषणफलमाह –

अत इति ।

विकारस्य सत्यत्वाभावादित्यर्थः ।

ननु सत्यविशेषणेन ब्रह्मणो विकाराद्व्यावृत्तिसिद्धावतः परिशेषात्कारणत्वं प्राप्तं चेत्‌ ; अस्तु को दोषः ? तत्राह –

कारणस्य चेति ।

कारकत्वमिति ।

कर्त्रादिकारकरूपत्वमित्यर्थः । कारणेषु कुलालादिषु कर्त्रादिकारकभावदर्शनादिति भावः ।

ब्रह्माचेतनं वस्तुत्वान्मृदादिवदित्याह –

वस्तुत्वादिति ।

ननु ज्ञानविशेषणेन ब्रह्मणः कारकत्वनिवृत्तिर्न लभ्यते कर्तृसाधनज्ञानपदेन तस्य ज्ञानक्रियां प्रति कर्तृकारकत्वावगमादिति, नेत्याह –

ज्ञानं ज्ञप्तिरिति ।

ज्ञानपदस्य ज्ञप्तिपरत्वे हेतुमाह –

ब्रह्मेति ।

ननु ज्ञानस्य सत्यानन्त्याभ्यां सह ब्रह्म प्रति विशेषणत्वेऽपि ब्रह्म ज्ञानकर्तृ किं न स्यादित्याशङ्क्याह –

न हीति ।

ब्रह्मणो ज्ञानकर्तृत्वे सत्यत्वाद्यनुपपत्तिं प्रपञ्चयति –

ज्ञानकर्तृत्वेन हीति ।

ज्ञानकर्तृत्वं हि ज्ञानं तदनुकूलक्रिया च । न च ज्ञानादिरूपेण विक्रियमाणस्य ब्रह्मणः सत्यत्वं सम्भवति । विकारजातस्येव विकारिणोऽपि जडत्वनियमात् जडस्य च चित्यध्यस्तत्वनियमेनानृतत्वावश्यम्भावादिति युक्तिसूचनार्थो हि-शब्दः ।

अनन्तं चेति ।

कथं भवेदित्यनुषङ्गः ।

तत्र हेतुः –

यद्धीति ।

प्रविभज्यते भिद्यते ।

ननु ज्ञानकर्तृत्वेऽपि ब्रह्मणो नास्ति कुतश्चित्प्रविभागः, तत्राह –

ज्ञानकर्तृत्वे चेति ।

च-शब्दः शङ्कानिरासार्थः । कर्तृत्वस्य कर्मक्रियानिरूपितत्वात्ताभ्यां कर्तुर्भेदाभावे कर्त्रादिव्यवस्थायोगात् , तस्माद्ब्रह्मणोऽनन्ततायै ज्ञात्रादिद्वैतराहित्यं वक्तव्यमित्यर्थः ।

तस्य सर्वद्वैतराहित्ये श्रुत्यन्तरमाह –

यत्रेति ।

ज्ञानक्रियाकर्तृभूतस्य वस्तुतोऽनन्तत्वाभावेऽपि श्रुतिमाह –

यत्रान्यदिति ।

यत्रेत्यस्य यदित्यर्थः ।

शङ्कते –

विशेषप्रतिषेधादिति ।

न विजानातीति ज्ञानकर्तृत्वसामान्यनिषेधमकृत्वा अन्यत्र विजानातीत्यन्यविज्ञातृत्वरूपविशेषप्रतिषेधसामर्थ्यात्स्वकर्मकज्ञानकर्तृत्वं भूम्नः श्रुत्यनुमतमिति गम्यते ; तथा च यः स्वात्मानं विजानाति स भूमेति वाक्यार्थपर्यवसानाद्ब्रह्मणो द्वैतराहित्येनेयं श्रुतिर्मानमित्यर्थः ।

'भूमानं भगवो विजिज्ञासे’ इति भूमस्वरूपलक्षणजिज्ञासायां सत्यामिदं वाक्यं प्रवृत्तम् , अतो न स्वज्ञातृत्वपरमिदं वाक्यमिति दूषयति –

नेति ।

सङ्ग्रहवाक्यं विवृणोति –

यत्र नान्यदित्यादिना ।

भूम्नो लक्षणविधिपरमेव वाक्यं न स्वात्मनि क्रियास्तित्वपरमिति सम्बन्धः । बुभुत्सितभूमस्वरूपज्ञापनपरमेव तत् न स्वकर्मकज्ञानक्रियाकर्तृत्वसद्भावपरम् , तस्याबुभुत्सितत्वादित्यर्थः ।

वाक्यस्य स्वज्ञातृत्वपरत्वाभावे फलितं वाक्यार्थमाह –

यथाप्रसिद्धमेवेति ।

भ्रान्तिसिद्धमेव ज्ञात्रादिद्वैतमनूद्य तद्यत्र वस्तुतो नास्ति स भूमेति भूमस्वरूपं लक्षणवाक्येन बोध्यते एवमन्यग्रहणस्य प्रतिषेधशेषत्वान् स्वज्ञातृत्वे वाक्यतात्पर्यग्राहकतेत्यर्थः ।

विरोधादपि न स्वज्ञातृत्वे भूमलक्षणवाक्यतात्पर्यमित्याह –

स्वात्मनि चेति ।

एकक्रियानिरूपितं कर्तृत्वं कर्मत्वं चैकदैकत्र विरुद्धत्वेन प्रसिद्धम् ; तथा च स्वात्मनि ब्रह्मणि भेदाभावात्स्वकर्मकज्ञानकर्तृत्वानुपपत्तिरित्यर्थः ।

ननु तर्हि प्रत्यगात्मरूपस्य ब्रह्मणो ज्ञानकर्मत्वमेवास्तु ; तत्राह –

आत्मनश्चेति ।

च-शब्दः शङ्कानिरासार्थः ॥