नन्वात्मनश्चिज्जडरूपांशद्वयोपेतत्वाच्चिदंशेन ज्ञाता जडांशेन ज्ञेयश्च भविष्यति, अतो न ज्ञात्रभावप्रसङ्ग इति भट्टमतमाशङ्क्य निषेधति –
एक एवेति ।
नेति ।
निष्फलश्रुत्या आत्मनो निरवयवत्वावगमात्सावयवस्यानित्यत्वनियमाच्च तन्मतं न युक्तमित्यर्थः ।
ननु निरवयवस्यापि युगपदेकज्ञानक्रियानिरूपितं कर्तृत्वं कर्मत्वं च किं न स्यादित्याशङ्क्य स्वात्मनि चेत्यत्रोक्तामेवानुपपत्तिं स्मारयति –
न हीति ।
स्वात्मनो लौकिकज्ञानकर्मत्वोपगमे तदुपदेशानर्थक्यप्रसङ्गाच्च न स्वज्ञातृत्वे भूमवाक्यस्य ‘सत्यं ज्ञानम् ‘ इत्यत्र ज्ञानपदस्य च तात्पर्यमित्याह –
आत्मनश्चेति ।
तस्मादिति ।
ज्ञातुर्ज्ञेयज्ञानाभ्यां प्रविभक्तत्वादित्यर्थः ।
ब्रह्मणो ज्ञातृत्वे सत्यत्वानुपपत्तिमप्युक्तां समारयति –
सन्मात्रत्वं चेति ।
ज्ञानकर्तृत्वादिविशेषवत्त्वं ज्ञानतदनुकूलक्रियादिरूपपरिणामवत्त्वं परिणामिनश्च मिथ्यात्वावश्यम्भावाद्बाधायोग्यत्वरूपं सन्मात्रत्वमनुपपन्नमित्यर्थः ।
ननु सन्मात्रत्वानुपत्तावपि मन्त्रोक्तसत्यत्वानुपपत्तौ किमागतममित्यत आह –
सन्मात्रं च सत्यमिति ।
सद्वस्तु प्रकृत्य ‘तत्सत्यम्’ इति वदता श्रुत्यन्तरेण सन्मात्रसत्ययोरभेदप्रतिपादनात्सन्मात्रत्वानुपपत्तिः सत्यत्वानुपत्तिरेवेत्यर्थः ।
ब्रह्मणो ज्ञानकर्तृत्वे सत्यत्वानन्तत्वयोरयोगाज्ज्ञानशब्दस्य भावसाधनत्वमेवेत्युपसंहरति –
तस्मादिति ।
ज्ञानपदस्य ज्ञप्तिपरत्वे सिद्धे फलितमाह –
ज्ञानमिति ।
यदुक्तं सत्यविशेषणेन ब्रह्मणो विकाराद्व्यावृत्तिसिद्धौ विकारभिन्नत्वात्कारणत्वं प्राप्तम् , कारणस्य च कारकत्वं मृदादिवदचिद्रूपता च प्राप्ता, अत इदमुच्यते ज्ञानं ब्रह्मेतीति, ज्ञानविशेषणफलं तदत्र सिद्धमिति बोध्यम् । ज्ञानशब्दस्य ज्ञानकर्तृपरत्वनिराकरणपरेण ग्रन्थेनार्थाज्ज्ञायते यत्तज्ज्ञानमिति कर्मव्युत्पत्तिप्राप्तं कर्मकारकत्वमपि स्वात्मनि च भेदाभावादित्यादिना निरस्तम् ; एवं ज्ञायतेऽनेनेति व्युत्पत्तिप्राप्तं करणकारकत्वमपि ब्रह्मरूपस्यात्मनो न सम्भवति, तस्य करणत्वे ज्ञात्रभावप्रसङ्गात् , इदमपि प्रागात्मनश्च विज्ञेयत्वे ज्ञात्रभावप्रसङ्ग इत्यत्रोक्तप्रायमेव ; तथा ज्ञानकर्तृत्वनिराकरणेनाधिकरणकारकत्वमपि निरस्तम् ; एवं ज्ञानपदस्य कारकान्तरपरत्वनिराकरणमपि सिद्धवत्कृत्य कर्त्रादीत्यादिग्रहणमिति मन्तव्यम् ।
निवृत्त्यर्थं चेति ।
यद्यपि भावसाधनो ज्ञानशब्दो ज्ञप्तिक्रियावाची सा च क्रिया जडरूपा वृत्तिरिति वक्ष्यते, तथापि ज्ञानपदस्य चैतन्यलक्षकत्वं वक्ष्यमाणमभिप्रेत्याचिद्रूपतानिवृत्त्यर्थं चेत्युक्तमिति मन्तव्यम् ।
ज्ञानपदस्य वाच्यार्थमादाय शङ्कते –
ज्ञानं ब्रह्मेति वचनादिति ।
अनन्तमितीति ।
ब्रह्मणो ज्ञप्तिक्रियारूपत्वे सत्यानन्त्यायोगादानन्त्यसिद्धये ज्ञानपदेन चैतन्यमात्रं लक्षणीयमिति भावः ।
सत्यादिविशेषणैरनृतादिव्यावृत्तेरुक्तत्वादनृतादिव्यावृत्तिरेव सत्यादिपदवाच्यत्वेनोक्तेति मत्वा शङ्कते –
सत्यादीनामिति ।
ब्रह्मपदमप्यसदर्थकमेव, ब्रह्मणो मानान्तरासिद्धत्वेन तत्सत्त्वे मानाभावादित्याह –
विशेष्यस्य चेति ।
पदचतुष्टयस्याप्यसदर्थकत्वे फलितं सदृष्टान्तमाह –
मृगतृष्णेति ।
न चानृतादिव्यावृत्तेरन्योन्याभावरूपत्वेन शशशृङ्गादिवदसत्त्वाभावात्कथं शून्यार्थकतेति वाच्यम् ; सिद्धान्त्यभिमतवाक्यार्थनिषेधमात्रस्यात्र विवक्षितत्वात् ।
परिहरति –
नेति ।
ननु व्यावृत्त्यर्थत्वस्योक्तत्वात्कथं लक्षणार्थत्वमित्याशङ्क्य सङ्ग्रहवाक्यं विवृणोति –
विशेषणत्वेऽपि चेति ।
च-शब्दः शङ्कानिरासार्थः । सत्यादिपदत्रयस्य विशेषणत्वेऽपि व्यावृत्त्यर्थत्वेऽपि न व्यावृत्तेः शाब्दत्वमुपेयते, व्यावृत्तेरार्थिकत्वोपपत्तेः, अतो लक्षणरूपार्थपरत्वमेवेत्युक्तमित्यर्थः ।
अत एव ब्रह्मपदमपि नासदर्थकमित्याह –
शून्ये हीति ।
विशेषणत्वेऽपि च सत्यादीनां नासदर्थतेत्युक्तमेव प्रपञ्चयति –
विशेषणार्थत्वेऽपि चेत्यादिना ।
सत्यादिपदानां व्यावृत्तिप्रयोजनकत्वेऽपि स्वार्थस्य सन्मात्रादेः परित्यागो नास्त्येव ।
कुत इत्यत आह –
शून्यार्थत्वे हीति ।
सत्यादिपदानां शून्यार्थत्वे स्वार्थपरित्यागे सति विशेष्यं प्रति नियन्तृत्वानुपपत्तिः इतरव्यावृत्तिप्रयोजनकत्वस्य पूर्ववाद्यभिमतस्यानुपपत्तिः सत्यादिपदैर्ब्रह्मणि व्यावर्तकस्वरूपविशेषासमर्पणात् लोके नीलादिपदैरुत्पले नैल्यादिरूपविशेषे समर्पिते सत्येव रक्तादिव्यावृत्तिबोधदर्शनादिति हि-शब्दार्थः ।
एवं व्यतिरेकमुक्त्वान्वयमाह –
सत्याद्यर्थैरिति ।
सत्यादिपदानामिति शेषः ।
तद्विपरीतेति ।
सत्यत्वादिधर्मविपरीता अनृतत्वादिधर्माः, तद्वन्तोऽनृतजडपरिच्छिन्नाः पदार्थाः, तेभ्य इत्यर्थः । ब्रह्मणः विशेष्यस्य इति षष्ठ्यौ द्वितीयार्थे ।
यदुक्तं विशेष्यस्य ब्रह्मण उत्पलादिवदप्रसिद्धत्वादसत्त्वमिति, तत्राह –
ब्रह्मशब्दोऽपीति ।
स्वार्थेनेति ।
वृद्धिमत्त्वेनेत्यर्थः । न च पदमात्रस्याप्रमाणत्वादुत्पलादिवन्मानान्तराप्रसिद्धत्वाच्च न तस्य सत्त्वसिद्धिरिति वाच्यम् , मिथ्यार्थस्य रज्जुसर्पादेः सदधिष्ठानत्वदर्शनात्प्रपञ्चस्यापि दृश्यत्वादिहेतुभिर्मिथ्यात्वेनावगतस्य सदधिष्ठानत्वमनुमीयते, एवं सर्वाधिष्ठानतयानुमानोपस्थिते वृद्धिमति ब्रह्मशब्दस्य शक्तिग्रहाभ्युपगमान्न तस्यासत्त्वशङ्का, न चैतमनुमानादेव ब्रह्मसिद्धेः श्रुत्यादिवैयर्थ्यमिति वाच्यम् , तस्य स्वरूपविशेषावगतेः श्रुत्यधीनत्वाभ्युपगमादिति भावः ।
ब्रह्मस्वरूपलक्षणसमर्पकेषु सत्यादिपदेषु त्रिष्वावन्तरभेदमाह –
तत्रेति ।
अनन्तशब्दः परिच्छेदाभावबोधनद्वारा ब्रह्मणो विशेषणं परिच्छिन्नाद्व्यावर्तकमित्यर्थः ।
सत्यज्ञानशब्दौ त्विति ।
अनन्तशब्दस्येव सत्यज्ञानशब्दयोरभावबोधद्वारकत्वं नास्तीति विशेषार्थकस्तु-शब्दः ।
तमेव विशेषं विवृणोति –
स्वार्थेति ।
सच्चिद्रूपत्वलक्षणस्वार्थबोधनद्वारेणैव विशेषणे भवतः अनृतादिव्यावर्तकौ भवतः नाभावसमर्पणद्वारेणेत्यर्थः । अत्र ब्रह्मण्यनन्तपदसमर्पितः परिच्छेदाभावो ब्रह्मस्वरूपमेव, परिच्छेदस्य कल्पितत्वेन कल्पितप्रतियोगिकाभावस्याधिष्ठानानतिरेकादिति मन्तव्यम् ॥