ननु जीवस्याकल्पिततया तत्प्रतियोगिकभेदरूपस्य परिच्छेदस्याकल्पितत्वादनन्तपदेन कथं तन्निषेध इति चेत् , न ; जीवब्रह्मणोर्भेदस्यैवासिद्धेरित्याशयेनाह –
तस्माद्वा इति ।
आत्मशब्दस्य जीववाचित्वादिति भावः ।
आनन्दमयपदलक्षिते ब्रह्मण्यात्मशब्दप्रयोगाच्चैवमित्याह –
एतमिति ।
आत्मतामिति ।
ब्रह्मण इति शेषः ।
ब्रह्मण एव जीवभावे हेत्वन्तरमाह –
तत्प्रवेशाच्चेति ।
ननु प्रवेशश्रवणं जीवभावेनेत्यत्र किं विनिगमकमित्याशङ्क्य श्रुत्यन्तरानुसारादित्याशयेन विवृणोति –
तत्सृष्ट्वेति ।
श्रुतौ तच्छब्दौ ब्रह्मपरौ ।
अत इति ।
ब्रह्मणो जीवभावेन प्रवेशश्रवणादित्यर्थः ।
शङ्कते –
एवं तर्हीति ।
यद्युक्तिरीत्या जीवात्मैव ब्रह्म तर्हि ब्रह्मण आत्माभिन्नत्वाज्ज्ञानकर्तृत्वं प्राप्तमित्यर्थः ।
नन्वसङ्गत्वादात्मन एव ज्ञानकर्तृत्वं नास्ति, कुतस्तदभेदाद्ब्रह्मणस्तत्प्रसक्तिरित्याशङ्क्याह –
आत्मा ज्ञातेति हीति ।
जानामीति ज्ञानकर्तृत्वस्यात्मन्यनुभवसिद्धत्वादसङ्गत्वश्रुतिरन्यपरेति भावः ।
यथा जीवाभिन्नत्ववचनानि ब्रह्मणो ज्ञानकर्तृत्वं प्रापयन्ति तथा ‘सोऽकामयत’ इति वचनमपि तत्प्रापयतीत्यत्र हेतुमाह –
कामिन इति ।
ब्रह्मणो ज्ञानकर्तृत्वप्राप्तौ फलितं दोषमाह –
अत इति ।
'ज्ञानं ब्रह्म’ इति वचनात्प्राप्तमन्तवत्त्वमित्यत्रोक्तमनित्यत्वप्रसङ्गं प्रपञ्चयन्नितश्च ज्ञप्तिर्ब्रह्मेत्ययुक्तमित्याह –
अनित्यत्वेति ।
ननु ब्रह्मणो ज्ञप्तिरूपत्वेऽपि कथमनित्यत्वं ज्ञप्तेर्नित्यचैतन्यरूपत्वादित्याशङ्क्य हेत्वसिद्धिमाह –
यदि नामेति ।
यदि नामाभ्युपगम्यत इत्यर्थः ।
लौकिकस्य ज्ञानस्यान्तवत्त्वदर्शनात्तदतिरिक्तनित्यज्ञानाभावाच्चेति भावः । पारतन्त्र्यं जन्यत्वम् ।
अनित्यत्वादिप्रसङ्गाज्ज्ञप्तिर्ब्रह्मेत्ययुक्तमित्युपसंहरति –
अतोऽस्येति ।
ज्ञानस्येत्यर्थः ।
आत्मनो नित्यचैतन्यरूपतायाः श्रुतियुक्तिसिद्धत्वाज्ज्ञप्तिर्ब्रह्मेत्यत्रात्मचैतन्यमेव ज्ञप्तिर्विवक्षिता, अतो नानित्यत्वादिप्रसङ्गः ; आत्मनश्च ‘साक्षी चेता केवलो निर्गुणश्च’ इति वचनाज्ज्ञानकर्तृत्वमसिद्धम् ; जानामीत्यनुभवस्तु बुद्धितादात्म्यकृतः, ‘ध्यायतीव लेलायतीव’ इति श्रुतेः ; तथा च नात्माभिन्नत्वाद्ब्रह्मणो ज्ञानकर्तृत्वप्रसङ्गः, कामयितृत्ववचनमपि ब्रह्मणो मायोपाधिप्रयुक्तमेव, न स्वत इत्याशयेन समाधत्ते –
नेति ।
ज्ञप्तेरात्मस्वरूपाव्यतिरेकत्वे सति तस्यां ज्ञप्तौ कार्यत्वस्योपचारमात्रत्वाज्ज्ञप्तिरूपस्य ब्रह्मणो नानित्यत्वादिप्रसङ्ग इत्यर्थः ।
उक्तं विवृणोति –
आत्मन इति ।
चैतन्यरूपा ज्ञप्तिरात्मनो न भिद्यते मानाभावात् , अतो नित्यात्मस्वरूपत्वादिह विवक्षिता ज्ञप्तिर्नित्यैवेत्यर्थः ।
ननु तर्हि विषयावभासिकायां ज्ञप्तौ कथं कार्यत्वप्रसिद्धिरित्याशङ्क्य कार्यत्वोपचारादित्याह –
तथापीति ।
कार्यवृत्तिसंसर्गात्कार्यत्वेनोपचर्यत इति शेषः ।
वृत्तेः कार्यत्वं साधयति –
बुद्धेरुपाधिलक्षणाया इति ।
प्रत्यगात्मोपाधिभूताया इत्यर्थः ।
शब्दाद्याकारेति ।
शब्दादिविषयगोचराः शब्दाद्यवभासकत्वेन प्रसिद्धाः परिणामास्ते आत्मस्वरूपस्य विज्ञानस्य विषयावभासकचैतन्यस्य विषयभूता उपाधिभूता इत्यर्थः । तथा चोपाधिभूतवृत्तितादात्म्यादात्मस्वरूपभूतायां ज्ञप्तौ कार्यत्वोपचार इति भावः । आत्मविज्ञानस्य विषयभूता ये शब्दाद्याकारावभासाः ते उत्पद्यमानाः सन्त आत्मविज्ञानव्याप्ता एवोत्पद्यन्त इति योजना ।
अत्र वृत्तीनामात्मविज्ञानेन व्याप्तिर्वृत्तिचैतन्ययोरवभास्यावभासकभावप्रयोजकतादात्म्यसम्बन्धरूपा विवक्षिता । अत एवाह –
तस्मादात्मविज्ञानभास्याश्चेति ।
उक्तव्याप्तिस्तच्छब्दार्थः ।
भावसाधनज्ञानशब्दवाच्यत्वमपि वृत्तीनामेवेत्याह –
विज्ञानेति ।
जानातीत्यत्र धात्वर्थत्वमपि तासामेव कारकपारतन्त्र्यादित्याह –
ते धात्वर्थभूता इति ।
ननु चक्षुरादिकरणजन्यानां ज्ञानानां वैशेषिकादिभिरात्मधर्मत्वाङ्गीकाराद्बुद्धिधर्मत्वमयुक्तम् , अत आह –
आत्मन एवेति ।
आत्मनो विकाररूपाः सन्तस्तस्यैव धर्मा गुणा इति श्रुतितात्पर्यानभिज्ञैः कल्प्यन्ते न तु परमार्थत आत्मधर्मत्वं तेषाम् ‘कामः सङ्कल्पः’ इत्यादिश्रुत्या जन्यज्ञानादीनां मनोधर्मत्वप्रतिपादनादात्मनो निर्गुणत्वप्रतिपादनाच्चेत्यर्थः ।
एवं लौकिकज्ञानस्य कारकपारतन्त्र्यादिकं निरूप्य स्वरूपज्ञानस्य तद्वैपरीत्यमुपपादयति –
यत्त्विति ।
तु-शब्दः स्वरूपज्ञानस्य वृत्तिवैलक्षण्यार्थः । ‘सत्यं ज्ञानम्’ इत्यत्र ज्ञानपदलब्धं यज्ज्ञानं तत्सवित्रादेः प्रकाशादिकमिव ब्रह्मस्वरूपादात्मनोऽव्यतिरिक्तमात्मस्वरूपमिति यावत् । अतो ब्रह्मणः स्वरूपमेवेत्यर्थः ।
नन्वात्मस्वरूपत्वेऽपि ज्ञानस्य कथं ब्रह्मस्वरूपत्वं कारकापेक्षस्य तस्य ब्रह्मत्वायोगादित्याशङ्क्याह –
तन्न कारणान्तरेति ।
नित्यात्मस्वरूपादिति हेत्वर्थः ।
ननु ज्ञानस्य ब्रह्मरूपत्वे सर्वज्ञत्वश्रुतिविरोधः, तस्याकार्यतया ब्रह्मणस्तत्र कर्तृत्वासम्भवात् ; न च बुद्धिवृत्त्युपहितत्वेन स्वरूपज्ञानेऽपि कार्यत्वोपचार उक्त इति वाच्यम् , तावता बुद्ध्युपाधिकस्य जीवस्य ज्ञानकर्तृत्वलाभेऽपि ब्रह्मणस्तदलाभात् ; जीवब्रह्मणोरभेदेऽपि कल्पितभेदाभ्युपगमेन धर्मसाङ्कर्यायोगादित्याशङ्क्य ब्रह्मणः सर्वज्ञत्वं सर्वसाक्षित्वरूपमेवास्तु, कर्तृत्वश्रुतेरौपचारिकत्वोपपत्तेरित्याशयेन सर्वसाक्षित्वमुपपादयति –
सर्वभावानां चेत्यादिना ।
तेनेति ।
तेन ब्रह्मणा अविभक्तौ विभागरहितौ देशकालौ येषां ते तथोक्तास्तेषां भावस्तत्त्वं तस्मान्न तस्य विप्रकृष्टादिकमस्तीत्यर्थः ।
सर्वपदार्थानां ब्रह्माविभक्तत्वे हेतुः –
कालाकाशादीति ।
सर्वकल्पनाधिष्ठानत्वादित्यर्थः ।
स्वप्रकाशचिद्रूपतया ब्रह्मणोऽतिस्वच्छत्वान्न तस्याप्रकाश्यं किञ्चित्सूक्ष्ममस्तीत्याह –
निरतिशयेति ।
तस्मात्त्विति ।
सर्वपदार्थसंसर्गित्वादित्यर्थः । वस्तुतस्तु जीवस्य बुद्ध्युपाधिवशान्मुख्यज्ञातृत्वादिवद्ब्रह्मणोऽपि मायोपाधिवशान्मुख्यमेव सर्वज्ञत्वं कामयितृत्वादिकं च सम्भवतीति विशेषसङ्ग्रहार्थस्तु-शब्दः । तदुक्तं वाक्यवृत्तावाचार्यैरेव - ‘मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः’ इति ।
कारकनिरपेक्षं स्वरूपज्ञानमस्तीत्यत्र मन्त्रब्राह्मणवाक्यानि प्रमाणयति –
मन्त्रेत्यादिना ।
अपाणिर्ग्रहीता अपादो जवनः ।
परस्य नान्योऽवभासकोऽस्ति, तस्य स्वप्रकाशत्वादित्याह –
न चेति ।
अग्रे सृष्टेः पूर्वकाले भवमग्र्यम् । विज्ञातुरात्मनो या विज्ञातिः स्वरूपभूता संवित् तस्या विपरिलोपो विनाशो नास्ति, अविनाशित्वात् नाशसामग्रीशून्यत्वादित्यर्थः ।
ज्ञप्तेरात्मस्वरूपत्वेन कारकानपेक्षत्वप्रधानफलमाह –
विज्ञातृस्वरूपेति ।
तत् आत्मस्वरूपं ज्ञानम् । न धात्वर्थ इत्यत्र अतःशब्दोक्तं हेतुमाह –
अविक्रियेति ।
नित्यत्वादित्यर्थः । कारकसापेक्षक्रियाया एव धत्वर्थत्वादिति भावः । अत एवेति । ज्ञातस्य नित्यत्वादेव तत्र ज्ञाने ब्रह्मणः कर्तृत्वमप्यापादयितुमशक्यमित्यर्थः ।
तस्मादेव चेति ।
तत् ज्ञानस्वरूपं ब्रह्म ज्ञानपदवाच्यलौकिकज्ञानविलक्षणत्वादेव ज्ञानपदवाच्यमपि नेत्यर्थः ।
कथं तर्हि ‘ज्ञानं ब्रह्म’ इति सामानाधिकरण्यम् ? तत्राह –
तथापीति ।
वाच्यत्वाभावेऽपीत्यर्थः ।
तदाभासेति ।
ज्ञानाभासवाचकेनेत्यर्थः ।
कोऽसौ ज्ञानाभास इत्याकाङ्क्षायां तदेव विवृणोति –
बुद्धीति ।
बुद्धिपरिणामरूपवृत्तिज्ञानवाचकेनेत्यर्थः । वृत्तेर्जडायाश्चैतन्यतादात्म्यमन्तरेण विषयावभासकत्वायोगाज्ज्ञानाभासत्वमिति भावः ।
पूर्वोक्तं वाच्यत्वाभावमनूद्य तत्र हेत्वन्तरमाह –
न तूच्यत इत्यादिना ।
अर्थेषु शब्दानां प्रवृत्तिहेतुत्वेन प्रसिद्धा ये जात्यादयो धर्मास्तद्रहितत्वाद्ब्रह्मण इत्यर्थः ।
तद्रहितत्वे हेतुमाह –
सत्यानन्तेति ।
सामानाधिकरण्यादित्यनन्तरं ब्रह्मशब्दस्येति शेषः । सत्यानन्तपदाभ्यां बाधायोग्यत्वत्रिविधपरिच्छेदराहित्यसमर्पकाभ्यां ब्रह्मणो निर्विशेषत्वावगमादित्यर्थः ।
अत एव सत्यशब्दस्यापि न वाच्यं ब्रह्मेत्याह –
तथा सत्यशब्देनापीति ।
सर्वेति ।
सर्वविशेषरहितस्वरूपत्वादेवेत्यर्थः ।
कथं तर्हि ‘सत्यं ब्रह्म’ इति सामानाधिकरण्यम् ? तत्राह –
बाह्येति ।
बाह्यं लोकसिद्धं यत्सत्तासामान्यं सत्ताजातिस्वरूपं तद्वाचकेन सत्यशब्देन बाधायोग्यं वस्तु लक्ष्यत इत्यर्थः । यद्वा पूर्वं विकारेष्वव्यभिचारितया वर्तमाने वस्तुनि रज्ज्वादौ सत्यशब्दप्रसिद्धेरुक्तत्वाल्लौकिकसत्यवस्तुवाचिना सत्यशब्देन परमार्थभूतं वस्तु लक्ष्यते, अतः ‘सत्यं ब्रह्म’ इति सामानाधिकरण्यमुपपद्यत इति बोध्यम् ।
न त्विति ।
केवलस्य परमार्थवस्तुनः प्रागनुपस्थितत्वेन शक्तिग्रहाभावादिति भावः ।
सत्यादिपदत्रयव्याख्यानमुपसंहरति –
एवमिति ।
नियम्यनियामकभावफलमाह –
सत्यादीति ।
स्वस्वाच्यार्थान्निवर्तकाश्च भूत्वा ब्रह्मणो लक्षणस्य सच्चिदद्वितीयस्वरूपस्य समर्पका भवन्तीत्यर्थः ।
लक्षणवाक्यार्थविचारमुपसंहरति –
अतः सिद्धमिति ।
निरुक्तं वाच्यम् , तद्भिन्नमनिरुक्तम् ।
नीलोत्पलवदिति ।
सत्यत्वादिविशेषणविशिष्टस्य ब्रह्मणः सत्यादिवाक्यार्थतायाः ‘न विशेषणप्रधानान्येव’ इत्यत्र ‘लक्षणार्थं च वाक्यमित्यवोचाम’ इत्यत्र च तात्पर्यतो निरस्तत्वाद्ब्रह्मणो नीलोत्पलवाक्यार्थवैलक्षण्यं च सिद्धमित्यर्थः । सच्चिदेकरसं ब्रह्म प्रकृतं भेदवर्जितम् । मन्त्रस्य प्रथमे पादे तात्पर्येण निरूपितम् ॥