तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
ब्रह्मविदाप्नोति परम् । तदेषाभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चितेति । तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः । स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
‘तस्माद्वा एतस्मादात्मनः’ इति ब्रह्मण्येव आत्मशब्दप्रयोगात् वेदितुरात्मैव ब्रह्म । ‘एतमानन्दमयमात्मानमुपसङ्क्रामति’ (तै. उ. २ । ८ । ५) इति च आत्मतां दर्शयति । तत्प्रवेशाच्च ; ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । १) इति च तस्यैव जीवरूपेण शरीरप्रवेशं दर्शयति । अतो वेदितुः स्वरूपं ब्रह्म । एवं तर्हि, आत्मत्वाज्ज्ञानकर्तृत्वम् ; ‘आत्मा ज्ञाता’ इति हि प्रसिद्धम् , ‘सोऽकामयत’ (तै. उ. २ । ६ । १) इति च कामिनो ज्ञानकर्तृत्वप्रसिद्धिः ; अतो ज्ञानकर्तृत्वात् ज्ञप्तिर्ब्रह्मेत्ययुक्तम् ; अनित्यत्वप्रसङ्गाच्च ; यदि नाम ज्ञप्तिर्ज्ञानमिति भावरूपता ब्रह्मणः, तदाप्यनित्यत्वं प्रसज्येत ; पारतन्त्र्यं च, धात्वर्थानां कारकापेक्षत्वात् , ज्ञानं च धात्वर्थः ; अतोऽस्य अनित्यत्वं परतन्त्रता च । न ; स्वरूपाव्यतिरेकेण कार्यत्वोपचारात् । आत्मनः स्वरूपं ज्ञप्तिः न ततो व्यतिरिच्यते । अतो नित्यैव । तथापि बुद्धेरुपाधिलक्षणायाश्चक्षुरादिद्वारैर्विषयाकारपरिणामिन्याः ये शब्दाद्याकारावभासाः, ते आत्मविज्ञानस्य विषयभूता उत्पद्यमाना एव आत्मविज्ञानेन व्याप्ता उत्पद्यन्ते । तस्मादात्मविज्ञानावभास्याश्च ते विज्ञानशब्दवाच्याश्च धात्वर्थभूता आत्मन एव धर्मा विक्रियारूपा इत्यविवेकिभिः परिकल्प्यन्ते । यत्तु ब्रह्मणो विज्ञानम् , तत् सवितृप्रकाशवत् अग्न्युष्णत्ववच्च ब्रह्मस्वरूपाव्यतिरिक्तं स्वरूपमेव तत् । न तत्कारणान्तरसव्यपेक्षम् , नित्यस्वरूपत्वात् , सर्वभावानां च तेनाविभक्तदेशकालत्वात् कालाकाशादिकारणत्वात् निरतिशयसूक्ष्मत्वाच्च । न तस्यान्यदविज्ञेयं सूक्ष्मं व्यवहितं विप्रकृष्टं भूतं भवद्भविष्यद्वा अस्ति । तस्मात्सर्वज्ञं तद्ब्रह्म । मन्त्रवर्णाच्च ‘अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम्’ (श्वे. उ. ३ । १९) इति । ‘न हि विज्ञतुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति’ (बृ. उ. ४ । ३ । ३०) इत्यादिश्रुतेश्च । विज्ञातृस्वरूपाव्यतिरेकात्करणादिनिमित्तानपेक्षत्वाच्च ब्रह्मणो ज्ञानस्वरूपत्वेऽपि नित्यत्वप्रसिद्धिः । अतो नैव धात्वर्थस्तत् , अक्रियारूपत्वात् । अत एव च न ज्ञानकर्तृ ; तस्मादेव च न ज्ञानशब्दवाच्यमपि तद्ब्रह्म । तथापि तदाभासवाचकेन बुद्धिधर्मविशेषेण ज्ञानशब्देन तल्लक्ष्यते ; न तु उच्यते, शब्दप्रवृत्तिहेतुजात्यादिधर्मरहितत्वात् । तथा सत्यशब्देनापि । सर्वविशेषप्रत्यस्तमितस्वरूपत्वाद्ब्रह्मणः बाह्यसत्तासामान्यविषयेण सत्यशब्देन लक्ष्यते ‘सत्यं ब्रह्म’ इति ; न तु सत्यशब्दवाच्यं ब्रह्म । एवं सत्यादिशब्दा इतरेतरसंनिधानादन्योन्यनियम्यनियामकाः सन्तः सत्यादिशब्दवाच्यात् निवर्तका ब्रह्मणः, लक्षणार्थाश्च भवन्तीति । अतः सिद्धम् ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ (तै. उ. २ । ४ । १) ‘अनिरुक्तेऽनिलयने’ (तै. उ. २ । ७ । १) इति च अवाच्यत्वम् , नीलोत्पलवदवाक्यार्थत्वं च ब्रह्मणः ॥
तस्माद्वा इति ; एतमिति ; आत्मतामिति ; तत्प्रवेशाच्चेति ; तत्सृष्ट्वेति ; अत इति ; एवं तर्हीति ; आत्मा ज्ञातेति हीति ; कामिन इति ; अत इति ; अनित्यत्वेति ; यदि नामेति ; अतोऽस्येति ; नेति ; आत्मन इति ; तथापीति ; बुद्धेरुपाधिलक्षणाया इति ; शब्दाद्याकारेति ; तस्मादात्मविज्ञानभास्याश्चेति ; विज्ञानेति ; ते धात्वर्थभूता इति ; आत्मन एवेति ; यत्त्विति ; तन्न कारणान्तरेति ; सर्वभावानां चेत्यादिना ; तेनेति ; कालाकाशादीति ; निरतिशयेति ; तस्मात्त्विति ; मन्त्रेत्यादिना ; न चेति ; विज्ञातृस्वरूपेति ; अविक्रियेति ; तस्मादेव चेति ; तथापीति ; तदाभासेति ; बुद्धीति ; न तूच्यत इत्यादिना ; सत्यानन्तेति ; तथा सत्यशब्देनापीति ; सर्वेति ; बाह्येति ; न त्विति ; एवमिति ; सत्यादीति ; अतः सिद्धमिति ; नीलोत्पलवदिति ;

ननु जीवस्याकल्पिततया तत्प्रतियोगिकभेदरूपस्य परिच्छेदस्याकल्पितत्वादनन्तपदेन कथं तन्निषेध इति चेत् , न ; जीवब्रह्मणोर्भेदस्यैवासिद्धेरित्याशयेनाह –

तस्माद्वा इति ।

आत्मशब्दस्य जीववाचित्वादिति भावः ।

आनन्दमयपदलक्षिते ब्रह्मण्यात्मशब्दप्रयोगाच्चैवमित्याह –

एतमिति ।

आत्मतामिति ।

ब्रह्मण इति शेषः ।

ब्रह्मण एव जीवभावे हेत्वन्तरमाह –

तत्प्रवेशाच्चेति ।

ननु प्रवेशश्रवणं जीवभावेनेत्यत्र किं विनिगमकमित्याशङ्क्य श्रुत्यन्तरानुसारादित्याशयेन विवृणोति –

तत्सृष्ट्वेति ।

श्रुतौ तच्छब्दौ ब्रह्मपरौ ।

अत इति ।

ब्रह्मणो जीवभावेन प्रवेशश्रवणादित्यर्थः ।

शङ्कते –

एवं तर्हीति ।

यद्युक्तिरीत्या जीवात्मैव ब्रह्म तर्हि ब्रह्मण आत्माभिन्नत्वाज्ज्ञानकर्तृत्वं प्राप्तमित्यर्थः ।

नन्वसङ्गत्वादात्मन एव ज्ञानकर्तृत्वं नास्ति, कुतस्तदभेदाद्ब्रह्मणस्तत्प्रसक्तिरित्याशङ्क्याह –

आत्मा ज्ञातेति हीति ।

जानामीति ज्ञानकर्तृत्वस्यात्मन्यनुभवसिद्धत्वादसङ्गत्वश्रुतिरन्यपरेति भावः ।

यथा जीवाभिन्नत्ववचनानि ब्रह्मणो ज्ञानकर्तृत्वं प्रापयन्ति तथा ‘सोऽकामयत’ इति वचनमपि तत्प्रापयतीत्यत्र हेतुमाह –

कामिन इति ।

ब्रह्मणो ज्ञानकर्तृत्वप्राप्तौ फलितं दोषमाह –

अत इति ।

'ज्ञानं ब्रह्म’ इति वचनात्प्राप्तमन्तवत्त्वमित्यत्रोक्तमनित्यत्वप्रसङ्गं प्रपञ्चयन्नितश्च ज्ञप्तिर्ब्रह्मेत्ययुक्तमित्याह –

अनित्यत्वेति ।

ननु ब्रह्मणो ज्ञप्तिरूपत्वेऽपि कथमनित्यत्वं ज्ञप्तेर्नित्यचैतन्यरूपत्वादित्याशङ्क्य हेत्वसिद्धिमाह –

यदि नामेति ।

यदि नामाभ्युपगम्यत इत्यर्थः ।

लौकिकस्य ज्ञानस्यान्तवत्त्वदर्शनात्तदतिरिक्तनित्यज्ञानाभावाच्चेति भावः । पारतन्त्र्यं जन्यत्वम् ।

अनित्यत्वादिप्रसङ्गाज्ज्ञप्तिर्ब्रह्मेत्ययुक्तमित्युपसंहरति –

अतोऽस्येति ।

ज्ञानस्येत्यर्थः ।

आत्मनो नित्यचैतन्यरूपतायाः श्रुतियुक्तिसिद्धत्वाज्ज्ञप्तिर्ब्रह्मेत्यत्रात्मचैतन्यमेव ज्ञप्तिर्विवक्षिता, अतो नानित्यत्वादिप्रसङ्गः ; आत्मनश्च ‘साक्षी चेता केवलो निर्गुणश्च’ इति वचनाज्ज्ञानकर्तृत्वमसिद्धम् ; जानामीत्यनुभवस्तु बुद्धितादात्म्यकृतः, ‘ध्यायतीव लेलायतीव’ इति श्रुतेः ; तथा च नात्माभिन्नत्वाद्ब्रह्मणो ज्ञानकर्तृत्वप्रसङ्गः, कामयितृत्ववचनमपि ब्रह्मणो मायोपाधिप्रयुक्तमेव, न स्वत इत्याशयेन समाधत्ते –

नेति ।

ज्ञप्तेरात्मस्वरूपाव्यतिरेकत्वे सति तस्यां ज्ञप्तौ कार्यत्वस्योपचारमात्रत्वाज्ज्ञप्तिरूपस्य ब्रह्मणो नानित्यत्वादिप्रसङ्ग इत्यर्थः ।

उक्तं विवृणोति –

आत्मन इति ।

चैतन्यरूपा ज्ञप्तिरात्मनो न भिद्यते मानाभावात् , अतो नित्यात्मस्वरूपत्वादिह विवक्षिता ज्ञप्तिर्नित्यैवेत्यर्थः ।

ननु तर्हि विषयावभासिकायां ज्ञप्तौ कथं कार्यत्वप्रसिद्धिरित्याशङ्क्य कार्यत्वोपचारादित्याह –

तथापीति ।

कार्यवृत्तिसंसर्गात्कार्यत्वेनोपचर्यत इति शेषः ।

वृत्तेः कार्यत्वं साधयति –

बुद्धेरुपाधिलक्षणाया इति ।

प्रत्यगात्मोपाधिभूताया इत्यर्थः ।

शब्दाद्याकारेति ।

शब्दादिविषयगोचराः शब्दाद्यवभासकत्वेन प्रसिद्धाः परिणामास्ते आत्मस्वरूपस्य विज्ञानस्य विषयावभासकचैतन्यस्य विषयभूता उपाधिभूता इत्यर्थः । तथा चोपाधिभूतवृत्तितादात्म्यादात्मस्वरूपभूतायां ज्ञप्तौ कार्यत्वोपचार इति भावः । आत्मविज्ञानस्य विषयभूता ये शब्दाद्याकारावभासाः ते उत्पद्यमानाः सन्त आत्मविज्ञानव्याप्ता एवोत्पद्यन्त इति योजना ।

अत्र वृत्तीनामात्मविज्ञानेन व्याप्तिर्वृत्तिचैतन्ययोरवभास्यावभासकभावप्रयोजकतादात्म्यसम्बन्धरूपा विवक्षिता । अत एवाह –

तस्मादात्मविज्ञानभास्याश्चेति ।

उक्तव्याप्तिस्तच्छब्दार्थः ।

भावसाधनज्ञानशब्दवाच्यत्वमपि वृत्तीनामेवेत्याह –

विज्ञानेति ।

जानातीत्यत्र धात्वर्थत्वमपि तासामेव कारकपारतन्त्र्यादित्याह –

ते धात्वर्थभूता इति ।

ननु चक्षुरादिकरणजन्यानां ज्ञानानां वैशेषिकादिभिरात्मधर्मत्वाङ्गीकाराद्बुद्धिधर्मत्वमयुक्तम् , अत आह –

आत्मन एवेति ।

आत्मनो विकाररूपाः सन्तस्तस्यैव धर्मा गुणा इति श्रुतितात्पर्यानभिज्ञैः कल्प्यन्ते न तु परमार्थत आत्मधर्मत्वं तेषाम् ‘कामः सङ्कल्पः’ इत्यादिश्रुत्या जन्यज्ञानादीनां मनोधर्मत्वप्रतिपादनादात्मनो निर्गुणत्वप्रतिपादनाच्चेत्यर्थः ।

एवं लौकिकज्ञानस्य कारकपारतन्त्र्यादिकं निरूप्य स्वरूपज्ञानस्य तद्वैपरीत्यमुपपादयति –

यत्त्विति ।

तु-शब्दः स्वरूपज्ञानस्य वृत्तिवैलक्षण्यार्थः । ‘सत्यं ज्ञानम्’ इत्यत्र ज्ञानपदलब्धं यज्ज्ञानं तत्सवित्रादेः प्रकाशादिकमिव ब्रह्मस्वरूपादात्मनोऽव्यतिरिक्तमात्मस्वरूपमिति यावत् । अतो ब्रह्मणः स्वरूपमेवेत्यर्थः ।

नन्वात्मस्वरूपत्वेऽपि ज्ञानस्य कथं ब्रह्मस्वरूपत्वं कारकापेक्षस्य तस्य ब्रह्मत्वायोगादित्याशङ्क्याह –

तन्न कारणान्तरेति ।

नित्यात्मस्वरूपादिति हेत्वर्थः ।

ननु ज्ञानस्य ब्रह्मरूपत्वे सर्वज्ञत्वश्रुतिविरोधः, तस्याकार्यतया ब्रह्मणस्तत्र कर्तृत्वासम्भवात् ; न च बुद्धिवृत्त्युपहितत्वेन स्वरूपज्ञानेऽपि कार्यत्वोपचार उक्त इति वाच्यम् , तावता बुद्ध्युपाधिकस्य जीवस्य ज्ञानकर्तृत्वलाभेऽपि ब्रह्मणस्तदलाभात् ; जीवब्रह्मणोरभेदेऽपि कल्पितभेदाभ्युपगमेन धर्मसाङ्कर्यायोगादित्याशङ्क्य ब्रह्मणः सर्वज्ञत्वं सर्वसाक्षित्वरूपमेवास्तु, कर्तृत्वश्रुतेरौपचारिकत्वोपपत्तेरित्याशयेन सर्वसाक्षित्वमुपपादयति –

सर्वभावानां चेत्यादिना ।

तेनेति ।

तेन ब्रह्मणा अविभक्तौ विभागरहितौ देशकालौ येषां ते तथोक्तास्तेषां भावस्तत्त्वं तस्मान्न तस्य विप्रकृष्टादिकमस्तीत्यर्थः ।

सर्वपदार्थानां ब्रह्माविभक्तत्वे हेतुः –

कालाकाशादीति ।

सर्वकल्पनाधिष्ठानत्वादित्यर्थः ।

स्वप्रकाशचिद्रूपतया ब्रह्मणोऽतिस्वच्छत्वान्न तस्याप्रकाश्यं किञ्चित्सूक्ष्ममस्तीत्याह –

निरतिशयेति ।

तस्मात्त्विति ।

सर्वपदार्थसंसर्गित्वादित्यर्थः । वस्तुतस्तु जीवस्य बुद्ध्युपाधिवशान्मुख्यज्ञातृत्वादिवद्ब्रह्मणोऽपि मायोपाधिवशान्मुख्यमेव सर्वज्ञत्वं कामयितृत्वादिकं च सम्भवतीति विशेषसङ्ग्रहार्थस्तु-शब्दः । तदुक्तं वाक्यवृत्तावाचार्यैरेव - ‘मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः’ इति ।

कारकनिरपेक्षं स्वरूपज्ञानमस्तीत्यत्र मन्त्रब्राह्मणवाक्यानि प्रमाणयति –

मन्त्रेत्यादिना ।

अपाणिर्ग्रहीता अपादो जवनः ।

परस्य नान्योऽवभासकोऽस्ति, तस्य स्वप्रकाशत्वादित्याह –

न चेति ।

अग्रे सृष्टेः पूर्वकाले भवमग्र्यम् । विज्ञातुरात्मनो या विज्ञातिः स्वरूपभूता संवित् तस्या विपरिलोपो विनाशो नास्ति, अविनाशित्वात् नाशसामग्रीशून्यत्वादित्यर्थः ।

ज्ञप्तेरात्मस्वरूपत्वेन कारकानपेक्षत्वप्रधानफलमाह –

विज्ञातृस्वरूपेति ।

तत् आत्मस्वरूपं ज्ञानम् । न धात्वर्थ इत्यत्र अतःशब्दोक्तं हेतुमाह –

अविक्रियेति ।

नित्यत्वादित्यर्थः । कारकसापेक्षक्रियाया एव धत्वर्थत्वादिति भावः । अत एवेति । ज्ञातस्य नित्यत्वादेव तत्र ज्ञाने ब्रह्मणः कर्तृत्वमप्यापादयितुमशक्यमित्यर्थः ।

तस्मादेव चेति ।

तत् ज्ञानस्वरूपं ब्रह्म ज्ञानपदवाच्यलौकिकज्ञानविलक्षणत्वादेव ज्ञानपदवाच्यमपि नेत्यर्थः ।

कथं तर्हि ‘ज्ञानं ब्रह्म’ इति सामानाधिकरण्यम् ? तत्राह –

तथापीति ।

वाच्यत्वाभावेऽपीत्यर्थः ।

तदाभासेति ।

ज्ञानाभासवाचकेनेत्यर्थः ।

कोऽसौ ज्ञानाभास इत्याकाङ्क्षायां तदेव विवृणोति –

बुद्धीति ।

बुद्धिपरिणामरूपवृत्तिज्ञानवाचकेनेत्यर्थः । वृत्तेर्जडायाश्चैतन्यतादात्म्यमन्तरेण विषयावभासकत्वायोगाज्ज्ञानाभासत्वमिति भावः ।

पूर्वोक्तं वाच्यत्वाभावमनूद्य तत्र हेत्वन्तरमाह –

न तूच्यत इत्यादिना ।

अर्थेषु शब्दानां प्रवृत्तिहेतुत्वेन प्रसिद्धा ये जात्यादयो धर्मास्तद्रहितत्वाद्ब्रह्मण इत्यर्थः ।

तद्रहितत्वे हेतुमाह –

सत्यानन्तेति ।

सामानाधिकरण्यादित्यनन्तरं ब्रह्मशब्दस्येति शेषः । सत्यानन्तपदाभ्यां बाधायोग्यत्वत्रिविधपरिच्छेदराहित्यसमर्पकाभ्यां ब्रह्मणो निर्विशेषत्वावगमादित्यर्थः ।

अत एव सत्यशब्दस्यापि न वाच्यं ब्रह्मेत्याह –

तथा सत्यशब्देनापीति ।

सर्वेति ।

सर्वविशेषरहितस्वरूपत्वादेवेत्यर्थः ।

कथं तर्हि ‘सत्यं ब्रह्म’ इति सामानाधिकरण्यम् ? तत्राह –

बाह्येति ।

बाह्यं लोकसिद्धं यत्सत्तासामान्यं सत्ताजातिस्वरूपं तद्वाचकेन सत्यशब्देन बाधायोग्यं वस्तु लक्ष्यत इत्यर्थः । यद्वा पूर्वं विकारेष्वव्यभिचारितया वर्तमाने वस्तुनि रज्ज्वादौ सत्यशब्दप्रसिद्धेरुक्तत्वाल्लौकिकसत्यवस्तुवाचिना सत्यशब्देन परमार्थभूतं वस्तु लक्ष्यते, अतः ‘सत्यं ब्रह्म’ इति सामानाधिकरण्यमुपपद्यत इति बोध्यम् ।

न त्विति ।

केवलस्य परमार्थवस्तुनः प्रागनुपस्थितत्वेन शक्तिग्रहाभावादिति भावः ।

सत्यादिपदत्रयव्याख्यानमुपसंहरति –

एवमिति ।

नियम्यनियामकभावफलमाह –

सत्यादीति ।

स्वस्वाच्यार्थान्निवर्तकाश्च भूत्वा ब्रह्मणो लक्षणस्य सच्चिदद्वितीयस्वरूपस्य समर्पका भवन्तीत्यर्थः ।

लक्षणवाक्यार्थविचारमुपसंहरति –

अतः सिद्धमिति ।

निरुक्तं वाच्यम् , तद्भिन्नमनिरुक्तम् ।

नीलोत्पलवदिति ।

सत्यत्वादिविशेषणविशिष्टस्य ब्रह्मणः सत्यादिवाक्यार्थतायाः ‘न विशेषणप्रधानान्येव’ इत्यत्र ‘लक्षणार्थं च वाक्यमित्यवोचाम’ इत्यत्र च तात्पर्यतो निरस्तत्वाद्ब्रह्मणो नीलोत्पलवाक्यार्थवैलक्षण्यं च सिद्धमित्यर्थः । सच्चिदेकरसं ब्रह्म प्रकृतं भेदवर्जितम् । मन्त्रस्य प्रथमे पादे तात्पर्येण निरूपितम् ॥