गूहतेरिति ।
गूहतेः संवरणार्थस्य गुहेति रूपमिति भावः ।
गुहाशब्दस्यावारकार्थकत्वेऽपि प्रकृते का गुहा विवक्षिता ? तत्राह –
निगूढा इत्यादिना ।
ज्ञात्रादिपदार्थानां बुद्धिपरिणामत्वपक्षमाश्रित्य तत्र तेषां निगूढत्वमुक्तम् । बुद्धिनिरोधावसरे ज्ञात्रादिपदार्थानां भेदेनानुपलम्भात्तेषां तत्र निगूढत्वमवगन्तव्यम् ।
तेषां मायापरिणामत्वपक्षमाश्रित्याह –
निगूढाविति ।
भोगो दुःखादिः, अपवर्गो ज्ञानम् , तदुभयं बुद्धिपरिणामत्वात्तत्र निगूढमित्यर्थः ।
भूताकाशं व्यावर्तयति –
अव्याकृताख्य इति ।
अव्याकृतमज्ञानम् ।
तस्य परमत्वे कारणं हि-शब्देनाह –
तद्धीति ।
जगत्कारणत्वादिति हि-शब्दार्थः ।
इतश्चाव्याकृतं परममित्याह –
एतस्मिन्निति ।
अक्षरे ब्रह्मणि हे गार्गि कालत्रयापरिच्छिन्नं जगदुपादानमाकाशशब्दितमव्याकृतं साक्षादध्यस्तमिति श्रुत्यर्थः । संनिकर्षः साक्षात्सम्बन्धः । अज्ञानव्यतिरिक्तपदार्थानामज्ञाते ब्रह्मण्यध्यस्ततया अज्ञानद्वारक एव ब्रह्मणा संनिकर्ष इति भावः । एवमव्याकृताख्ये परमे व्योम्नि कारणभूते या कार्यभूता बुद्धिगुहा तस्यां निहितं ब्रह्मेति रीत्या ‘गुहायाम्’ ‘व्योमन्’ इति सप्तम्योर्वैयधिकरण्यमुक्तम् ।
इदानीं तयोः सामानाधिकरण्यमाह –
गुहायामिति ।
न बुद्धिरित्येवकारार्थः ।
अव्याकृतेऽपि गुहाशब्दप्रवृत्तिनिमित्तमाह –
तत्रापीति ।
सृष्टिस्थितिसंहारकालेष्वित्यर्थः ।
ननु बुद्धेः स्वच्छत्वात्तत्र ब्रह्मणो निधानं सम्भवति, कथमव्याकृते तत्सम्भवतीत्याशङ्क्याह –
सूक्ष्मतरत्वाच्चेति ।
अतिस्वच्छत्वादित्यर्थः । च-शब्दः शङ्कानिरासार्थः । वस्तुतस्तु परमे व्योम्नि या गुहा बुद्धिः तस्यां निहितमिति सप्तम्योर्वैयधिकरण्येन व्याख्यानमेव युक्तम् , बुद्धुयपहितजीवाभेदेन ब्रह्मण आपरोक्ष्यलाभात् ‘अहं ब्रह्मास्मि’ इत्यादिश्रुत्यन्तरैकार्थ्यलाभात् प्रवेशवाक्येन वृत्तिस्थानीयेनास्य गुहानिहितवाक्यस्यैकर्थ्यलाभाच्च । सामानाधिकरण्यपक्षे त्वव्याकृतस्य विक्षेपशक्तिमदज्ञानांशरूपस्य परोक्षत्वात्तत्र निहितस्य ब्रह्मण आपरोक्ष्यादिकं न लभ्यते । अनेनैवाभिप्रायेण बुद्धेरेव गुहात्वं स्वीकृत्य तत्र निधानमौपचारिकमिति वक्ष्यतीति मन्तव्यम् ।
'परमे व्योमन्’ इत्यत्र व्योमपदं पराभिप्रायेण व्याख्याय स्वाभिप्रायेण व्याचष्टे –
हार्दमेव त्विति ।
भूताकाशमेव व्योमेत्यत्र हेतुः –
न्याय्यमिति ।
रूढ्यनुसारस्य न्याय्त्वादित्यर्थः । परं तूक्तरीत्या बुद्धेरेवात्र गुहात्वात्तदधिकरणत्वलाभाय हार्दमित्युक्तम् । हृदयमध्यस्थमित्यर्थः । परमत्वविशेषणमपि तस्य सम्भवतीति सूचनार्थस्तु-शब्दः । अव्याकृतवारणायावधारणम् ।
ननु भूताकाशस्य कार्यत्वात्कथं परमत्वं सम्भवति ? तत्राह –
विज्ञानाङ्गत्वेनेति ।
सगुणब्रह्मोपासनस्थानतया हार्दस्य व्योम्नो गायत्रीविद्यादौ विवक्षितत्वात्कार्यस्यापि तस्योत्कर्षरूपं परमत्वं सम्भवतीत्यर्थः । न हि कारणत्वप्रयुक्त एवोत्कर्ष इति नियमोऽस्ति, भूतकार्यस्यापि सूर्यमण्डलादेः स्वकारणापेक्षयोत्कर्षस्य मूर्तामूर्तब्राह्मणादौ प्रसिद्धत्वादिति भावः ।
हार्दव्योम्नो विज्ञानाङ्गत्वेन परमत्वमेव साधयति –
यो वै स इति ।
पुरुषाच्छरीरात् यो बहिर्धा बहिराकाशः यो वा अन्तः पुरुषे शरीरे आकाशः स इत्युपक्रम्य ‘योऽयमन्तर्हृदय आकाशः’ इति श्रुत्यन्तराद्गायत्त्रीविद्याप्रकरणस्थाद्गायत्त्रीपदलक्षितब्रह्मोपासनस्थानतया हार्दाकाशस्य ब्रह्मविज्ञानाङ्गत्वबोधकात् हार्दस्य व्योम्नः परमत्वं प्रसिद्धं निश्चितमित्यर्थः ।
तद्वृत्त्येति ।
बुद्धिवृत्त्या ‘तत्त्वमसि’ इति श्रुतिजनितया बुद्ध्यादिभ्यः सकाशाद्विविक्ततया गृह्यत इत्यर्थः । यद्वा बुद्धिवृत्त्या बुद्धिसंसर्गेण विविक्ततया स्फुटतया द्रष्टृत्वश्रोतृत्वमन्तृत्वादिरूपेण ब्रह्मोपलभ्यत इत्यर्थः । तथा च गुहानिहितवाक्यं प्रति वृत्तिस्थानीयस्य प्रवेशवाक्यस्यार्थवर्णनावसरे वक्ष्यति - ‘गुहायां बुद्धौ द्रष्टृ श्रोतृ मन्तृ विज्ञातृ इत्येवं विशेषवदुपलभ्यते’ इति ।
ननु निहितशब्दः स्थितिं ब्रूते, ततश्च कथमन्यथा निधानं व्याख्यायते ? तत्राह –
न ह्यन्यथेति ।
अत्र सम्बन्धपदमाधेयत्वपरम् ; तथा च अन्यथा उपलम्भव्यतिरेकेण देशविशेषाद्याधेयत्वरूपं निधानं ब्रह्मणो न ह्यस्तीत्यर्थः ।
सर्वगतत्वादिति ।
न चाकाशस्य सर्वगतत्वेऽपि स्वकारणमादायादौ स्थितिरस्तीति वाच्यम् , कार्यस्याकाशस्य लोकप्रसिद्ध्या सर्वगतत्वेऽपि वस्तुतः सर्वगतत्वाभावादिति भावः ।
किं च ‘यत्राधेयत्वं तत्र सविशेषत्वम् ‘ इति व्याप्तिर्दृश्यते, ब्रह्मणि च व्यापकसविशेषत्वनिवृत्त्या व्याप्याधेयत्वनिवृत्तिरित्याशयेनाह –
निर्विशेषत्वाच्चेति ।
यद्वा विशेषपदमाधारपरम् , ततश्च आधारराहित्यश्रवणाच्च न तस्याधेयत्वमित्यर्थः ।
एवं गुहानिहितवाक्यं व्याख्यायानन्तरवाक्यमाकाङ्क्षापूर्वं व्याचष्टे –
स एवमित्यादिना ।
यो ब्रह्म गुहायां प्रत्यक्तया स्थितम् ‘अहं ब्रह्म’ इति वेद विजानाति स एवं विजानन्किं लभत इत्याकाङ्क्षायामाहेत्यर्थः । भुङ्क्ते अनुभवति ।
सर्वशब्दस्यासङ्कुचितं साकल्यमर्थतया दर्शयति –
निरवशिष्टानिति ।
कामशब्दस्येच्छापरत्वं व्यावर्तयति –
काम्यानिति ।
तानेव विशिष्य दर्शयति –
भोगानित्यर्थ इति ।
भुज्यत इति व्युत्पत्त्या भोगपदमानन्दपरमिति भावः ।
सह शब्दमवतारयति –
किमिति ।
यथास्मादादिः पुत्रस्वर्गादीन्पर्यायेण क्रमेण भुङ्क्ते तथैव विद्वानपि किं कामान्भुङ्क्त इति योजना ।
एकक्षणेति ।
एकक्षणावच्छिन्नानित्यर्थः ।
ननु सुखव्यञ्जकानां सत्त्ववृत्तिविशेषाणां क्रमिकत्वात्कथमेकदैवानन्दानामनुभवो विदुषः सिध्यति ? तत्राह –
एकयेति ।
वृत्तिकृतानन्दानुभवो नात्र विवक्षित इति भावः ।
यामिति ।
'सत्यं ज्ञानम्’ इत्यत्र ज्ञानमिति पदेन लक्षणीयतया यामुपलब्धिमवोचाम तया ब्रह्मस्वरूपाव्यतिरिक्तया कामानश्नुत इति योजना ।
तदुच्यत इति ।
यत्सर्वकामानामनुभवे यौगपद्यमुक्तं तदेव ब्रह्मणा सहेत्यत्र सहशब्देनोच्यते न साहित्यमित्यर्थः ।
नन्वत्र तृतीयया साहित्यमेव सहशब्दार्थतया भातीत्याशङ्क्याह –
ब्रह्मभूत इति ।
इत्थम्भावे तृतीयेयं न साहित्यप्रतियोगित्ववाचिनीति भावः ।
पूर्वोक्तव्यतरेकदृष्टान्तविवरणपूर्वकमुक्तमर्थं प्रपञ्चयति –
न तथेत्यादिना ।
अत्रोपाधिकृतेनेत्याद्या अपि तृतीया इत्थम्भावे द्रष्टव्याः ; तथा च परमात्मनो जलसूर्यवत्प्रतिबिम्बभूतं घटाकाशवदवच्छिन्नं वा उपाधिकृतं सांसारिकं संसारधर्मकं यत्स्वरूपं तदात्मा लोको यथा धर्मादिसाधनापेक्षान्कामान्पर्यायेणाश्नुत इत्यर्थः ।
विदुषः कामाशनप्रकारं पृच्छति –
कथं तर्हीति ।
पूर्वोक्तेनैव प्रकारेणेत्याह –
यथोक्तेनेति ।
सर्वज्ञेनेति ।
सर्वसाक्षिणेत्यर्थः ।
सर्वगतेन हीति ।
सर्वप्राणिसुखानुगतेन विदुष आत्मभूतेनेत्यर्थः । सर्वगतत्वादिकं श्रुतिषु प्रसिद्धमिति हि-शब्दार्थः ।
सर्वज्ञादिरूपस्य विद्वदात्मनः सेश्वरसाङ्ख्यमत इव ताटस्थ्यं वारयति –
नित्यब्रह्मस्वरूपेणेति ।
धर्मादीति ।
स्वकीयधर्माद्यनपेक्षानित्यर्थः ; यथाश्रुते प्रतिप्राणिवर्तिनां कामानां तत्तद्धर्माद्यपेक्षत्वादसाङ्गत्यापत्तेः । एवमग्रेऽपि ।
तद्धीति ।
ब्रह्मणः प्रसिद्धं सर्वसाक्षित्वमेव विपश्चित्त्वम् , नान्यदित्यर्थः ।
इदं च विशेषणं विदुषो ब्रह्मानन्दानुभवकाले समुद्राम्भसि विप्रुषामिव ब्रह्मानन्देऽन्तर्भूतानां सर्वप्राणिगतानामानन्दानां सर्वसाक्षिचैतन्यरूपेणैवाशनमत्र विवक्षितं न प्रकारान्तरेणेत्येतस्यार्थस्य गमकमित्याशयेनाह –
तेन सर्वज्ञस्वरूपेणेति ।
ननु यः सत्यज्ञानानन्तलक्षणं ब्रह्म प्रत्यक्त्वेन वेद सोऽर्चिरादिवर्त्मना ब्रह्मलोकं गत्वा तत्रस्थेन सर्वज्ञेन ब्रह्मणा सह दिव्यान्कामानश्नुत इति ऋज्वर्थ एवात्र किमिति न विवक्षित इति चेत् , न ; ब्रह्मणा सहेत्यन्वयस्य ‘सोऽस्नुते सर्वान्कामान्सह’ इत्यत्राध्ययनसम्प्रदायप्राप्तवाक्यविच्छेदाननुगुणत्वात् परब्रह्मविदो गत्युत्क्रान्त्याद्यभावस्य चतुर्थाध्याये साधितत्वाद् ‘अशरीरं वाव सन्तम् ‘ इत्यादिश्रुत्या मुक्तस्य शरीरसम्बन्धप्रतिषेधात् ‘तत्केन कं पश्येत्’ इत्यादिश्रुत्या तस्य विशेषविज्ञानप्रतिषेधाच्च ‘ब्रह्म वेद ब्रह्मैव भवति’ इति श्रुत्या सावधारणया ब्रह्मस्वरूपव्यतिरिक्तस्य प्राप्यत्वप्रतिषेधाच्च ; तस्मादत्र ऋज्वर्थाविवक्षेत्यन्यत्र विस्तरः ॥