तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
ब्रह्मविदाप्नोति परम् । तदेषाभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चितेति । तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः । स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
तद्यथाव्याख्यातं ब्रह्म यः वेद विजानाति निहितं स्थितं गुहायाम् , गूहतेः संवरणार्थस्य निगूढा अस्यां ज्ञानज्ञेयज्ञातृपदार्था इति गुहा बुद्धिः, गूढावस्यां भोगापवर्गौ पुरुषार्थाविति वा, तस्यां परमे प्रकृष्टे व्योमन् व्योम्नि आकाशे अव्याकृताख्ये ; तद्धि परमं व्योम, ‘एतस्मिन्खल्वक्षरे गार्ग्याकाशः’ (बृ. उ. ३ । ८ । ११) इत्यक्षरसंनिकर्षात् ; ‘गुहायां व्योमन्’ इति वा सामानाधिकरण्यादव्याकृताकाशमेव गुहा ; तत्रापि निगूढाः सर्वे पदार्थास्त्रिषु कालेषु, कारणत्वात्सूक्ष्मतरत्वाच्च ; तस्मिन्नन्तर्निहितं ब्रह्म । हार्दमेव तु परमं व्योमेति न्याय्यम् , विज्ञानाङ्गत्वेन व्योम्नो विवक्षितत्वात् । ‘यो वै स बहिर्धा पुरुषादाकाशो यो वै सोऽन्तः पुरुष आकाशो योऽयमन्तर्हृदय आकाशः’ (छा. उ. ३ । १२ । ७), (छा. उ. ३ । १२ । ८) इति श्रुत्यन्तरात्प्रसिद्धं हार्दस्य व्योम्नः परमत्वम् । तस्मिन्हार्दे व्योम्नि या बुद्धिर्गुहा, तस्यां निहितं ब्रह्म तद्व्यावृत्त्या विविक्ततयोपलभ्यत इति । न ह्यन्यथा विशिष्टदेशकालसम्बन्धोऽस्ति ब्रह्मणः, सर्वगतत्वान्निर्विशेषत्वाच्च । सः एवं ब्रह्म विजानन् ; किमित्याह - अश्नुते भुङ्क्ते सर्वान् निरवशेषान् कामान् काम्यभोगानित्यर्थः । किमस्मदादिवत्पुत्रस्वर्गादीन्पर्यायेण ? नेत्याह - सह युगपत् एकक्षणोपारूढानेव एकयोपलब्ध्या सवितृप्रकाशवन्नित्यया ब्रह्मस्वरूपाव्यतिरिक्तया, यामवोचाम ‘सत्यं ज्ञानम्’ इति । एतत्तदुच्यते - ब्रह्मणा सहेति । ब्रह्मभूतो विद्वान् ब्रह्मस्वरूपेणैव सर्वान्कामान् सह अश्नुते । न तथा यथोपाधिकृतेन स्वरूपेणात्मनो जलसूर्यकादिवत्प्रतिबिम्बभूतेन सांसारिकेण धर्मादिनिमित्तापेक्षांश्चक्षुरादिकरणापेक्षांश्च सर्वान्कामान्पर्यायेणाश्नुते लोकः । कथं तर्हि ? यथोक्तेन प्रकारेण सर्वज्ञेन सर्वगतेन सर्वात्मना नित्यब्रह्मात्मस्वरूपेण धर्मादिनिमित्तानपेक्षान् चक्षुरादिकरणानपेक्षांश्च सर्वान्कामान्सहाश्नुत इत्यर्थः । विपश्चिता मेधाविना सर्वज्ञेन । तद्धि वैपश्चित्यम् , यत्सर्वज्ञत्वम् । तेन सर्वज्ञस्वरूपेण ब्रह्मणा अश्नुत इति । इतिशब्दो मन्त्रपरिसमाप्त्यर्थः ॥

गूहतेरिति ।

गूहतेः संवरणार्थस्य गुहेति रूपमिति भावः ।

गुहाशब्दस्यावारकार्थकत्वेऽपि प्रकृते का गुहा विवक्षिता ? तत्राह –

निगूढा इत्यादिना ।

ज्ञात्रादिपदार्थानां बुद्धिपरिणामत्वपक्षमाश्रित्य तत्र तेषां निगूढत्वमुक्तम् । बुद्धिनिरोधावसरे ज्ञात्रादिपदार्थानां भेदेनानुपलम्भात्तेषां तत्र निगूढत्वमवगन्तव्यम् ।

तेषां मायापरिणामत्वपक्षमाश्रित्याह –

निगूढाविति ।

भोगो दुःखादिः, अपवर्गो ज्ञानम् , तदुभयं बुद्धिपरिणामत्वात्तत्र निगूढमित्यर्थः ।

भूताकाशं व्यावर्तयति –

अव्याकृताख्य इति ।

अव्याकृतमज्ञानम् ।

तस्य परमत्वे कारणं हि-शब्देनाह –

तद्धीति ।

जगत्कारणत्वादिति हि-शब्दार्थः ।

इतश्चाव्याकृतं परममित्याह –

एतस्मिन्निति ।

अक्षरे ब्रह्मणि हे गार्गि कालत्रयापरिच्छिन्नं जगदुपादानमाकाशशब्दितमव्याकृतं साक्षादध्यस्तमिति श्रुत्यर्थः । संनिकर्षः साक्षात्सम्बन्धः । अज्ञानव्यतिरिक्तपदार्थानामज्ञाते ब्रह्मण्यध्यस्ततया अज्ञानद्वारक एव ब्रह्मणा संनिकर्ष इति भावः । एवमव्याकृताख्ये परमे व्योम्नि कारणभूते या कार्यभूता बुद्धिगुहा तस्यां निहितं ब्रह्मेति रीत्या ‘गुहायाम्’ ‘व्योमन्’ इति सप्तम्योर्वैयधिकरण्यमुक्तम् ।

इदानीं तयोः सामानाधिकरण्यमाह –

गुहायामिति ।

न बुद्धिरित्येवकारार्थः ।

अव्याकृतेऽपि गुहाशब्दप्रवृत्तिनिमित्तमाह –

तत्रापीति ।

सृष्टिस्थितिसंहारकालेष्वित्यर्थः ।

ननु बुद्धेः स्वच्छत्वात्तत्र ब्रह्मणो निधानं सम्भवति, कथमव्याकृते तत्सम्भवतीत्याशङ्क्याह –

सूक्ष्मतरत्वाच्चेति ।

अतिस्वच्छत्वादित्यर्थः । च-शब्दः शङ्कानिरासार्थः । वस्तुतस्तु परमे व्योम्नि या गुहा बुद्धिः तस्यां निहितमिति सप्तम्योर्वैयधिकरण्येन व्याख्यानमेव युक्तम् , बुद्धुयपहितजीवाभेदेन ब्रह्मण आपरोक्ष्यलाभात् ‘अहं ब्रह्मास्मि’ इत्यादिश्रुत्यन्तरैकार्थ्यलाभात् प्रवेशवाक्येन वृत्तिस्थानीयेनास्य गुहानिहितवाक्यस्यैकर्थ्यलाभाच्च । सामानाधिकरण्यपक्षे त्वव्याकृतस्य विक्षेपशक्तिमदज्ञानांशरूपस्य परोक्षत्वात्तत्र निहितस्य ब्रह्मण आपरोक्ष्यादिकं न लभ्यते । अनेनैवाभिप्रायेण बुद्धेरेव गुहात्वं स्वीकृत्य तत्र निधानमौपचारिकमिति वक्ष्यतीति मन्तव्यम् ।

'परमे व्योमन्’ इत्यत्र व्योमपदं पराभिप्रायेण व्याख्याय स्वाभिप्रायेण व्याचष्टे –

हार्दमेव त्विति ।

भूताकाशमेव व्योमेत्यत्र हेतुः –

न्याय्यमिति ।

रूढ्यनुसारस्य न्याय्त्वादित्यर्थः । परं तूक्तरीत्या बुद्धेरेवात्र गुहात्वात्तदधिकरणत्वलाभाय हार्दमित्युक्तम् । हृदयमध्यस्थमित्यर्थः । परमत्वविशेषणमपि तस्य सम्भवतीति सूचनार्थस्तु-शब्दः । अव्याकृतवारणायावधारणम् ।

ननु भूताकाशस्य कार्यत्वात्कथं परमत्वं सम्भवति ? तत्राह –

विज्ञानाङ्गत्वेनेति ।

सगुणब्रह्मोपासनस्थानतया हार्दस्य व्योम्नो गायत्रीविद्यादौ विवक्षितत्वात्कार्यस्यापि तस्योत्कर्षरूपं परमत्वं सम्भवतीत्यर्थः । न हि कारणत्वप्रयुक्त एवोत्कर्ष इति नियमोऽस्ति, भूतकार्यस्यापि सूर्यमण्डलादेः स्वकारणापेक्षयोत्कर्षस्य मूर्तामूर्तब्राह्मणादौ प्रसिद्धत्वादिति भावः ।

हार्दव्योम्नो विज्ञानाङ्गत्वेन परमत्वमेव साधयति –

यो वै स इति ।

पुरुषाच्छरीरात् यो बहिर्धा बहिराकाशः यो वा अन्तः पुरुषे शरीरे आकाशः स इत्युपक्रम्य ‘योऽयमन्तर्हृदय आकाशः’ इति श्रुत्यन्तराद्गायत्त्रीविद्याप्रकरणस्थाद्गायत्त्रीपदलक्षितब्रह्मोपासनस्थानतया हार्दाकाशस्य ब्रह्मविज्ञानाङ्गत्वबोधकात् हार्दस्य व्योम्नः परमत्वं प्रसिद्धं निश्चितमित्यर्थः ।

तद्वृत्त्येति ।

बुद्धिवृत्त्या ‘तत्त्वमसि’ इति श्रुतिजनितया बुद्ध्यादिभ्यः सकाशाद्विविक्ततया गृह्यत इत्यर्थः । यद्वा बुद्धिवृत्त्या बुद्धिसंसर्गेण विविक्ततया स्फुटतया द्रष्टृत्वश्रोतृत्वमन्तृत्वादिरूपेण ब्रह्मोपलभ्यत इत्यर्थः । तथा च गुहानिहितवाक्यं प्रति वृत्तिस्थानीयस्य प्रवेशवाक्यस्यार्थवर्णनावसरे वक्ष्यति - ‘गुहायां बुद्धौ द्रष्टृ श्रोतृ मन्तृ विज्ञातृ इत्येवं विशेषवदुपलभ्यते’ इति ।

ननु निहितशब्दः स्थितिं ब्रूते, ततश्च कथमन्यथा निधानं व्याख्यायते ? तत्राह –

न ह्यन्यथेति ।

अत्र सम्बन्धपदमाधेयत्वपरम् ; तथा च अन्यथा उपलम्भव्यतिरेकेण देशविशेषाद्याधेयत्वरूपं निधानं ब्रह्मणो न ह्यस्तीत्यर्थः ।

सर्वगतत्वादिति ।

न चाकाशस्य सर्वगतत्वेऽपि स्वकारणमादायादौ स्थितिरस्तीति वाच्यम् , कार्यस्याकाशस्य लोकप्रसिद्ध्या सर्वगतत्वेऽपि वस्तुतः सर्वगतत्वाभावादिति भावः ।

किं च ‘यत्राधेयत्वं तत्र सविशेषत्वम् ‘ इति व्याप्तिर्दृश्यते, ब्रह्मणि च व्यापकसविशेषत्वनिवृत्त्या व्याप्याधेयत्वनिवृत्तिरित्याशयेनाह –

निर्विशेषत्वाच्चेति ।

यद्वा विशेषपदमाधारपरम् , ततश्च आधारराहित्यश्रवणाच्च न तस्याधेयत्वमित्यर्थः ।

एवं गुहानिहितवाक्यं व्याख्यायानन्तरवाक्यमाकाङ्क्षापूर्वं व्याचष्टे –

स एवमित्यादिना ।

यो ब्रह्म गुहायां प्रत्यक्तया स्थितम् ‘अहं ब्रह्म’ इति वेद विजानाति स एवं विजानन्किं लभत इत्याकाङ्क्षायामाहेत्यर्थः । भुङ्क्ते अनुभवति ।

सर्वशब्दस्यासङ्कुचितं साकल्यमर्थतया दर्शयति –

निरवशिष्टानिति ।

कामशब्दस्येच्छापरत्वं व्यावर्तयति –

काम्यानिति ।

तानेव विशिष्य दर्शयति –

भोगानित्यर्थ इति ।

भुज्यत इति व्युत्पत्त्या भोगपदमानन्दपरमिति भावः ।

सह शब्दमवतारयति –

किमिति ।

यथास्मादादिः पुत्रस्वर्गादीन्पर्यायेण क्रमेण भुङ्क्ते तथैव विद्वानपि किं कामान्भुङ्क्त इति योजना ।

एकक्षणेति ।

एकक्षणावच्छिन्नानित्यर्थः ।

ननु सुखव्यञ्जकानां सत्त्ववृत्तिविशेषाणां क्रमिकत्वात्कथमेकदैवानन्दानामनुभवो विदुषः सिध्यति ? तत्राह –

एकयेति ।

वृत्तिकृतानन्दानुभवो नात्र विवक्षित इति भावः ।

यामिति ।

'सत्यं ज्ञानम्’ इत्यत्र ज्ञानमिति पदेन लक्षणीयतया यामुपलब्धिमवोचाम तया ब्रह्मस्वरूपाव्यतिरिक्तया कामानश्नुत इति योजना ।

तदुच्यत इति ।

यत्सर्वकामानामनुभवे यौगपद्यमुक्तं तदेव ब्रह्मणा सहेत्यत्र सहशब्देनोच्यते न साहित्यमित्यर्थः ।

नन्वत्र तृतीयया साहित्यमेव सहशब्दार्थतया भातीत्याशङ्क्याह –

ब्रह्मभूत इति ।

इत्थम्भावे तृतीयेयं न साहित्यप्रतियोगित्ववाचिनीति भावः ।

पूर्वोक्तव्यतरेकदृष्टान्तविवरणपूर्वकमुक्तमर्थं प्रपञ्चयति –

न तथेत्यादिना ।

अत्रोपाधिकृतेनेत्याद्या अपि तृतीया इत्थम्भावे द्रष्टव्याः ; तथा च परमात्मनो जलसूर्यवत्प्रतिबिम्बभूतं घटाकाशवदवच्छिन्नं वा उपाधिकृतं सांसारिकं संसारधर्मकं यत्स्वरूपं तदात्मा लोको यथा धर्मादिसाधनापेक्षान्कामान्पर्यायेणाश्नुत इत्यर्थः ।

विदुषः कामाशनप्रकारं पृच्छति –

कथं तर्हीति ।

पूर्वोक्तेनैव प्रकारेणेत्याह –

यथोक्तेनेति ।

सर्वज्ञेनेति ।

सर्वसाक्षिणेत्यर्थः ।

सर्वगतेन हीति ।

सर्वप्राणिसुखानुगतेन विदुष आत्मभूतेनेत्यर्थः । सर्वगतत्वादिकं श्रुतिषु प्रसिद्धमिति हि-शब्दार्थः ।

सर्वज्ञादिरूपस्य विद्वदात्मनः सेश्वरसाङ्ख्यमत इव ताटस्थ्यं वारयति –

नित्यब्रह्मस्वरूपेणेति ।

धर्मादीति ।

स्वकीयधर्माद्यनपेक्षानित्यर्थः ; यथाश्रुते प्रतिप्राणिवर्तिनां कामानां तत्तद्धर्माद्यपेक्षत्वादसाङ्गत्यापत्तेः । एवमग्रेऽपि ।

तद्धीति ।

ब्रह्मणः प्रसिद्धं सर्वसाक्षित्वमेव विपश्चित्त्वम् , नान्यदित्यर्थः ।

इदं च विशेषणं विदुषो ब्रह्मानन्दानुभवकाले समुद्राम्भसि विप्रुषामिव ब्रह्मानन्देऽन्तर्भूतानां सर्वप्राणिगतानामानन्दानां सर्वसाक्षिचैतन्यरूपेणैवाशनमत्र विवक्षितं न प्रकारान्तरेणेत्येतस्यार्थस्य गमकमित्याशयेनाह –

तेन सर्वज्ञस्वरूपेणेति ।

ननु यः सत्यज्ञानानन्तलक्षणं ब्रह्म प्रत्यक्त्वेन वेद सोऽर्चिरादिवर्त्मना ब्रह्मलोकं गत्वा तत्रस्थेन सर्वज्ञेन ब्रह्मणा सह दिव्यान्कामानश्नुत इति ऋज्वर्थ एवात्र किमिति न विवक्षित इति चेत् , न ; ब्रह्मणा सहेत्यन्वयस्य ‘सोऽस्नुते सर्वान्कामान्सह’ इत्यत्राध्ययनसम्प्रदायप्राप्तवाक्यविच्छेदाननुगुणत्वात् परब्रह्मविदो गत्युत्क्रान्त्याद्यभावस्य चतुर्थाध्याये साधितत्वाद् ‘अशरीरं वाव सन्तम् ‘ इत्यादिश्रुत्या मुक्तस्य शरीरसम्बन्धप्रतिषेधात् ‘तत्केन कं पश्येत्’ इत्यादिश्रुत्या तस्य विशेषविज्ञानप्रतिषेधाच्च ‘ब्रह्म वेद ब्रह्मैव भवति’ इति श्रुत्या सावधारणया ब्रह्मस्वरूपव्यतिरिक्तस्य प्राप्यत्वप्रतिषेधाच्च ; तस्मादत्र ऋज्वर्थाविवक्षेत्यन्यत्र विस्तरः ॥