तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
ब्रह्मविदाप्नोति परम् । तदेषाभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चितेति । तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः । स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
सर्व एव वल्ल्यर्थः ‘ब्रह्मविदाप्नोति परम्’ इति ब्राह्मण वाक्येन सूत्रितः । स च सूत्रितोऽर्थः सङ्क्षेपतो मन्त्रेण व्याख्यातः । पुनस्तस्यैव विस्तरेणार्थनिर्णयः कर्तव्य इत्युत्तरस्तद्वृत्तिस्थानीयो ग्रन्थ आरभ्यते - तस्माद्वा एतस्मादित्यादिः । तत्र च ‘ सत्यं ज्ञानमनन्तं ब्रह्म’ इत्युक्तं मन्त्रादौ ; तत्कथं सत्यमनन्तं चेत्यत आह । त्रिविधं ह्यानन्त्यम् - देशतः कालतो वस्तुतश्चेति । तद्यथा - देशतोऽनन्त आकाशः ; न हि देशतस्तस्य परिच्छेदोऽस्ति । न तु कालतश्चानन्त्यं वस्तुतश्च आकाशस्य । कस्मात् ? कार्यत्वात् । नैवं ब्रह्मण आकाशवत्कालतोऽप्यन्तवत्त्वम् । अकार्यत्वात् । कार्यं हि वस्तु कालेन परिच्छिद्यते । अकार्यं च ब्रह्म । तस्मात्कालतोऽस्यानन्त्यम् । तथा वस्तुतः । कथं पुनर्वस्तुत आनन्त्यम् ? सर्वानन्यत्वात् । भिन्नं हि वस्तु वस्त्वन्तरस्य अन्तो भवति, वस्त्वन्तरबुद्धिर्हि प्रसक्ताद्वस्त्वन्तरान्निवर्तते । यतो यस्य बुद्धेर्निवृत्तिः, स तस्यान्तः । तद्यथा गोत्वबुद्धिरश्वत्वान्निवर्तत इत्यश्वत्वान्तं गोत्वमित्यन्तवदेव भवति । स चान्तो भिन्नेषु वस्तुषु दृष्टः । नैवं ब्रह्मणो भेदः । अतो वस्तुतोऽप्यानन्त्यम् । कथं पुनः सर्वानन्यत्वं ब्रह्मण इति, उच्यते - सर्ववस्तुकारणत्वात् । सर्वेषां हि वस्तूनां कालाकाशादीनां कारणं ब्रह्म । कार्यापेक्षया वस्तुतोऽन्तवत्त्वमिति चेत् , न ; अनृतत्वात्कार्यस्य वस्तुनः । न हि कारणव्यतिरेकेण कार्यं नाम वस्तुतोऽस्ति, यतः कारणबुद्धिर्विनिवर्तेत ; ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) एवं सदेव सत्यमिति श्रुत्यन्तरात् । तस्मादाकाशादिकारणत्वाद्देशतस्तावदनन्तं ब्रह्म । आकाशो ह्यनन्त इति प्रसिद्धं देशतः ; तस्येदं कारणम् ; तस्मात्सिद्धं देशत आत्मन आनन्त्यम् । न ह्यसर्वगतात्सर्वगतमुत्पद्यमानं लोके किञ्चिद्दृश्यते । अतो निरतिशयमात्मन आनन्त्यं देशतः । तथा अकार्यत्वात्कालतः ; तद्भिन्नवस्त्वन्तराभावाच्च वस्तुतः । अत एव निरतिशयसत्यत्वम् ॥

वृत्तानुवादपूर्वकमुत्तरसन्दर्भमवतारतयति –

सर्व एवेत्यादिना ।

तद्वृत्तीति ।

तस्य सूत्रस्य वृत्तिर्विस्तरतो व्याख्या तत्स्थानीय इत्यर्थः ।

तत्र सृष्टिवाक्येनानन्त्यं प्राधान्येन प्रपञ्च्यत इति तात्पर्यं दर्शयितुं पूर्वोक्तेष्वर्थविशेषमनुवदति –

तत्र चेति ।

आहेत्यनन्तरम् ‘तस्माद्वै’ इत्यादिश्रुतिरिति शेषः ।

नन्वन्तशब्दस्य नाशे प्रसिद्धत्वादनन्तत्वं नित्यत्वम् ; तच्चाकाशादिकारणत्ववचनाद्ब्रह्मणो न सिध्यति, तस्यान्तवत्त्वेऽप्याकाशादेर्वाय्वादिकारणत्ववदाकाशादिकारणत्वोपपत्तेरित्याशङ्क्य आनन्त्यं विभजते –

तत्र त्रिविधं हीति ।

तथा च त्रिविधे आनन्त्ये यद्वस्तुत आनन्त्यं तदेव सृष्टिवाक्येन तात्पर्यतो निरूप्यत इति भावः ।

तत्र देशत आनन्त्यस्य हि-शब्दसूचितां प्रसिद्धिमाकाशे दर्शयति –

तद्यथेति ।

न हीति ।

अवकाशात्मना सर्वत्रावस्थानादित्यर्थः । अभावः परिच्छेदः ।

ननु किं कालतो वस्तुतश्चानन्त्यमप्याकाशे प्रसिद्धम् ? नेत्याह –

न त्विति ।

कालत आनन्त्याभावे हेतुं पृच्छति –

कस्मादिति ।

यद्वा आकाशस्य नित्यत्वमभिप्रेत्य नैयायिकः शङ्कते –

कस्मादिति ।

'आत्मन आकाशः सम्भूतः’ इति श्रुतिमाश्रित्य परिहरति –

कार्यत्वादिति ।

तथा च कार्याकाशस्यानित्यत्वात्कालत आनन्त्यं नास्ति । वाय्वादेराकाशसमसत्ताकस्य वस्तुनः सत्त्वाद्वस्तुत आनन्त्यमपि तस्य नास्तीति भावः ।

ननु नित्यत्वेन प्रसिद्धस्य चेदाकाशस्य कालत आनन्त्यं नास्ति, तर्हि ब्रह्मणोऽपि तन्नास्त्येव, नेत्याह –

नैवमिति ।

नन्वकार्यत्वमसिद्धं ब्रह्मणः कारणत्वादाकाशादिवदिति, नेत्याह –

अकार्यं चेति ।

च-शब्दः शङ्कानिरासार्थः । आकाशादेरिव ब्रह्मणः सृष्टिप्रलययोरश्रवणान्मूलकारणस्यापि ब्रह्मणः कार्यत्वे कारणानवस्थाप्रसङ्गेनोक्तकारणत्वानुमानस्याप्रयोजकत्वात् ‘सर्वगतश्च नित्यः’ इत्यादौ नित्यत्वश्रवणात् ब्रह्मण उत्पत्तौ सामग्र्यनिरूपणादेश्च हेतोरकार्यं ब्रह्मेत्यर्थः ।

तथेति ।

तथा वस्तुतश्चानन्तं ब्रह्मेत्यर्थः ।

ननु वस्तुतो ब्रह्मातिरिक्तस्य जगतः सत्त्वात्तस्य वस्तुत आनन्त्यमसिद्धमित्याक्षिपति –

कथं पुनरिति ।

जगतो ब्रह्मापेक्षया वस्त्वन्तरत्वमसिद्धं कल्पितत्वादित्याशयेनाह –

सर्वानन्यत्वादिति ।

ननु सर्वस्य जगतो ब्रह्मानन्यत्वेऽपि ब्रह्मणस्तत्कृतः परिच्छेदः किं न स्यादित्याशङ्क्याह –

भिन्नं हीति ।

भिन्नस्यान्तत्वं प्रसिद्धमित्युक्तम् , तदेव प्रपञ्चयति –

वस्त्वन्तरबुद्धिर्हीति ।

गोत्वसंनिकर्षदशायां गोत्वरूपस्याश्वत्वाद्यपेक्षया वस्त्वन्तरस्य बुद्धिर्जायते ; सा च गोसंनिहितायामश्वादिव्यक्तावपि गौरयमपीत्येवमाकारेण प्रसक्ता सती तत्राश्वत्वं दृष्ट्वा निवर्तते नायं गौरिति हि प्रसिद्धमेतदित्यर्थः ।

ततः किम् ? तत्राह –

यत इति ।

उक्तं सामान्यन्यायं स्वयमेवोदाहरणनिष्ठतया योजयति –

तद्यथेति ।

अश्वत्वान्तमिति ।

गोत्वमश्वत्वान्तमश्वत्वावधिकमनुभूयत इति कृत्वा गोत्वमन्तवद्भवतीत्यर्थः ।

उक्तस्य वस्तुपरिच्छेदस्य घटत्वादिसाधारण्येन प्रसिद्धिमाह –

स चेति ।

एवं वस्त्वन्तरस्यान्तवत्त्वं प्रसाध्य प्रकृतमाह –

नैवमिति ।

भेदपदं भिन्नवस्तुपरम् ।

अत इति ।

परमार्थतो ब्रह्मभिन्नवस्त्वभावादित्यर्थः । सर्वस्यैव जगतो ब्रह्मानन्यत्वस्य पूर्वमभिहितत्वादिति भावः ।

सर्वानन्त्यत्वे हेतुं पृच्छति –

कथमिति ।

'आत्मन आकाशः सम्भूतः’ इति सृष्टिवाक्येनोत्तरमाह –

उच्यत इति ।

ननु कालपरमाण्वादीनां नित्यत्वात्सर्ववस्तुकारणत्वमसिद्धमित्याशङ्क्याह –

सर्वेषां हीति ।

कालादेरपि कार्यत्वं वियदधिकरणन्यायसिद्धमिति सूचनार्थो हि-शब्दः । ‘चिदविद्यासम्बन्धः कालः’ विष्णुपुराणोक्तरीत्या ‘ब्रह्मण एव रूपभेदः कालः’ इति पक्षयोः कालस्यानादित्वेन कार्यत्वाभावेऽपि न क्षतिः, आद्यपक्षे कालस्याविद्यावत्कल्पितत्वेन वस्त्वन्तरत्वाभावात् , द्वितीये कालस्य ब्रह्मस्वरूपत्वादेव वस्त्वन्तरत्वाभावादिति मन्तव्यम् ।

ब्रह्मवद्ब्रह्मकार्यस्यापि परमार्थत्वं मन्वानः शङ्कते –

कार्यापेक्षयेति ।

आरम्भणाधिकरणन्यायेन परिहरति –

नानृतत्वादिति ।

यत इति ।

यतः पृथक्सत्त्वाद्धेतोः कारणबुद्धिः कार्यान्निवर्तेत तत्पृथक्सत्त्वं कार्यस्य नास्तीत्यर्थः । अत एव ‘मृद्घटः’ ‘मृच्छरावम्’ इति विकारेषु कारणबुद्धिरनुवर्तते, तथा जगत्यपि ‘सन्घटः’ ‘सन्पटः’ इत्यादिरूपेण सद्रूपब्रह्मबुद्धिरनुवर्तते, न हि पृथक्सत्त्वयुक्तयोर्घटपटयोर्मध्ये घटबुद्धिः पटे पटबुद्धिर्वा घटेऽनुवर्तत इति भावः ।

कार्यस्य कारणात्पृथक्सत्त्वाभावे श्रुतिमाह –

वाचारम्भणमिति ।

वस्तुत आनन्त्यनिरूपणमुपसंहरति –

तस्मादिति ।

देशत इति पाठेऽपि देशपदं वस्तुपरम् ।

ब्रह्मणो देशत आनन्त्यं कैमुतिकन्यायेन साधयति –

आकाशो हीत्यादिना ।

आकाशस्य देशत आनन्त्यं प्रसिद्धमित्ययमर्थः प्रागेवोक्त इति सूचनार्थो हि-शब्दः ।

ननु सर्वगतमाकाशं प्रति ब्रह्मण उपादानकारणत्वेऽपि कथं तस्याकाशापेक्षयापि महत्त्वं सिध्यति स्वन्यूनपरिमाणद्रव्यस्याप्युपादानत्वसम्भवादित्याशङ्कां निराकरोति –

न हीति ।

कार्यद्रव्ये स्वन्यूनपरिमाणद्रव्यारभ्यत्वनियमस्य दीर्घविस्तृतदुकूलाद्यारब्धरज्ज्वादौ व्यभिचारात्सर्वगतस्याकाशादेरसर्वगतादुत्पद्यमानतायाः प्रत्यक्षादिसिद्धत्वाभावाच्चौचित्येनाकाशस्य ततोऽप्यधिकपरिमाणादेवोत्पत्तिः सिध्यतीत्यर्थः ।

'ज्यायानाकाशात्’ इत्यादिश्रुत्या च ब्रह्मणो निरतिशयमहत्त्वं सिद्धमित्याशयेन फलितमाह –

अत इति ।

अत एवेति ।

त्रिविधपरिच्छेदशून्यत्वादेवेत्यर्थः ।

निरतिशयमिति ।

त्रैकालिकबाधशून्यत्वलक्षणमित्यर्थः ॥