इत्थं सृष्टिवाक्यतात्पर्यार्थमानन्त्यं निरूप्याक्षराणि व्याचष्टे –
तस्मादित्यादिना ।
यथालक्षितमिति ।
परामृश्यत इत्यनुषङ्गः ।
उक्तं सर्वनामद्वयार्थमनुवदन्नेव वाक्यार्थमाह –
यदित्यादिना ।
ननु प्रतीच एवात्मशब्दवाच्यत्वात्कथं ब्रह्मण आत्मशब्दवाच्यत्वमित्याशङ्क्याह –
आत्मा हीति ।
तत् ब्रह्म सर्वस्य भोक्तृवर्गस्य आत्मा वास्तवं स्वरूपमित्यर्थः ।
तत्र हि-शब्दसूचितं मानमाह –
तत्सत्यमिति ।
आत्मेति ।
आत्मशब्दवाच्यमित्यर्थः ।
आकाशस्य लक्षणं स्वरूपं चाह –
आकाशो नामेत्यादिना ।
तस्माच्चेति ।
चकार आत्मसमुच्चयार्थः । तथा च आकाशतादात्म्यापन्नादात्मनः सकाशादेव वायुः सम्भूत इत्यर्थः । एवमुत्तरत्रापि पूर्वपूर्वभूततादात्म्यापन्नादुत्तरोत्तरभूतस्योत्पत्तिरवगन्तव्या ‘तदभिध्यानादेव तु’ इत्यादौ तथा व्यस्थापितत्वादिति मन्तव्यम् । अग्निशब्दस्तेजःसामान्यपरः ।
पृथिव्या इति ।
अत्र पञ्चम्याः प्रकृत्यर्थत्वात्पूर्वत्रापि पञ्चम्यः प्रकृत्यर्था एवेति मन्तव्यम् । ओषधयः सम्भूताः, अन्नं सम्भूतम् , पुरुषः सम्भूत इति सर्वत्र क्रियापदं द्रष्टव्यम् । ‘अन्नात्पुरुषः’ इति वाक्योक्तं पुरुषस्यान्नविकारत्वं व्याख्यातुम् ‘स वा एषः’ इत्युत्तरवाक्यं प्रवृत्तम् अतो न पौनरुक्त्यमिति मन्तव्यम् ।
रसशब्दितस्य रेतसः पुरुषाकृतिनियामकत्वमाह –
पुरुषाकृतीति ।
पितुः पुरुषाकृत्या भावितं संस्कृतं सत् पितुरङ्गेभ्यः सकाशात्सम्भूतमित्यर्थः ।
तेज इति ।
सर्वेषामङ्गानां सारभूतमित्यर्थः । तथा च श्रुतिः – 'यदेतद्रेतस्तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः सम्भूतम्’ इति ।
तस्मादिति ।
पुरुषाकृतिभाविताद्रेतोरूपाद्बीजादित्यर्थः ।
पुरुषग्रहणस्य तात्पर्यं वक्तुमाक्षेपमवतारयति –
सर्वेषामपीति ।
पश्वादीनामपरीत्यर्थः । क्रमेण ब्रह्मविकारत्वं ब्रह्मवंश्यत्वम् ।
समाधत्ते –
प्राधान्यादिति ।
यदि प्राधान्यं भक्षणादिविषये तदा पश्वादीनामेव प्राधान्यं स्यादित्याशयेन शङ्कते –
किं पुनरिति ।
कर्मज्ञानाधिकारित्वमत्र प्राधान्यम् , तच्च मनुष्यस्यैव न पश्वादीनामित्याह –
कर्मेति ।
तदुक्तं सूत्रकारेण - ‘मनुष्याधिकारत्वाद् ‘ इति ।
अधिकारमेव साधयति –
पुरुष एव हीति ।
हि-शब्दसूचितान्हेतूनाह –
शक्तत्वादर्थित्वाच्चेति ।
विधिनिषेधविवेकसामर्थ्योपेतत्वाच्छास्त्रोक्तस्वर्गादिफलार्थित्वसम्भवादित्यर्थः । अपर्युदस्तत्वादिहेत्वन्तरसङ्ग्रहार्थश्चकारः ।
पुरुषस्य यथोक्तसामर्थ्याद्युपेतत्वे श्रुतिमाह –
पुरुषे त्वेवेति ।
ब्राह्मण्यादिजातिमति मनुष्यदेह एवाविस्तरामतिशयेन प्रकट आत्मा ज्ञानाद्यतिशयवानित्यर्थः ।
एतदेवानुभवेन साधयति –
स हीत्यादिना ।
श्वस्तनं परेद्युर्भाविनम् । लोको भोग्यः, तत्साधनमलोकः । मर्त्येन विनाशार्हेण ज्ञानकर्मादिसाधनेनाक्षयं फलमाप्तुमिच्छतीत्यर्थः ।
साधितं ज्ञानातिशयमुपसंहरति –
एवं सम्पन्न इति ।
येन ज्ञानाद्यतिशयेन पुरुषस्य प्राधान्यं विवक्षितं तत्पश्वादीनां नास्तीत्याह –
अथेतरेषामिति ।
तेषां बुभुक्षादिविषयकज्ञानमेवास्ति न पूर्वोक्तमित्यर्थः ।