तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
ब्रह्मविदाप्नोति परम् । तदेषाभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चितेति । तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः । स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
स हि पुरुषः इह विद्यया आन्तरतमं ब्रह्म सङ्क्रामयितुमिष्टः । तस्य च बाह्याकारविशेषेष्वनात्मसु आत्मभाविताबुद्धिः विना आलम्बनविशेषं कञ्चित् सहसा आन्तरतमप्रत्यगात्मविषया निरालम्बना च कर्तुमशक्येति दृष्टशरीरात्मसामान्यकल्पनया शाखाचन्द्रनिदर्शनवदन्तः प्रवेशयन्नाह - तस्येदमेव शिरः । तस्य अस्य पुरुषस्यान्नरसमयस्य इदमेव शिरः प्रसिद्धम् । प्राणमयादिष्वशिरसां शिरस्त्वदर्शनादिहापि तत्प्रसङ्गो मा भूदिति इदमेव शिर इत्युच्यते । एवं पक्षादिषु योजना । अयं दक्षिणो बाहुः पूर्वाभिमुखस्य दक्षिणः पक्षः । अयं सव्यो बाहुः उत्तरः पक्षः । अयं मध्यमो देहभागः आत्मा अङ्गानाम् , ‘मध्यं ह्येषामङ्गानामात्मा’ इति श्रुतेः । इदमिति नाभेरधस्ताद्यदङ्गम् , तत् पुच्छं प्रतिष्ठा । प्रतितिष्ठत्यनयेति प्रतिष्ठा । पुच्छमिव पुच्छम् , अधोलम्बनसामान्यात् , यथा गोः पुच्छम् । एतत्प्रकृत्य उत्तरेषां प्राणमयादीनां रूपकत्वसिद्धिः, मूषानिषिक्तद्रुतताम्रप्रतिमावत् । तदप्येष श्लोको भवति । तत् तस्मिन्नेवार्थे ब्राह्मणोक्ते अन्नमयात्मप्रकाशके एष श्लोकः मन्त्रः भवति ॥

प्रकृतायामपि ब्रह्मविद्यायां पुरुषस्यैवाधिकारित्वाच्चात्र पुरुषग्रहणमित्याशयेनाह –

स हीति ।

ननु यद्यत्र सर्वान्तरं ब्रह्म प्रापयितुमिष्ठः पुरुषस्तर्हि तं प्रति तादृशब्रह्मोपन्यास एवोत्तरसन्दर्भे कार्यो न कोशोपन्यास इत्याशङ्क्य तदुपन्यासस्य तात्पर्यमाह –

तस्य चेति ।

विद्याधिकारिणः पुरुषस्येत्यर्थः । चकारोऽवधारणार्थः सन्सप्तम्या सम्बध्यते । चिदात्मापेक्षया बाह्या येऽचिदात्मानः कल्पिताकारविशेषाः कोशास्तेष्वेवानात्मस्वनादिकालमारभ्याहमित्यात्मत्वभावनोपेता बुद्धिः कञ्चिदुपायविशेषमनालम्ब्य सहसा सर्वान्तरप्रत्यगात्मविषया पूर्वमात्मत्वेन गृहीतकोशरूपालम्बनशून्या च कर्तुमशक्येति कृत्वा प्राणमयादिषु शिरआदिमत्त्वेन दृष्टस्थूलशरीरसाम्योपन्यासेन अन्योऽन्तर आत्मान्योऽन्तर आत्मेत्यादिनान्तः प्रवेशयन्नाहेत्यर्थः । यथा लोके चन्द्रं बुबोधयिषुः शाखाग्रमालम्ब्य बोधयति ‘शाखाग्रं चन्द्रः’ इति स च बोद्धा दिगन्तराणि त्यक्त्वा शाखाग्रं पश्यन् तद्द्वारा चन्द्रं पश्यति, तद्वदन्नमयादिषु कोशेषु क्रमेणात्मत्वेनोपदिष्टेषु सत्सु बाह्ये पुत्रादौ पूर्वपूर्वकोशे चात्मत्वबुद्धिं क्रमेण परित्यज्य सर्वकोशाधिष्ठानभूतं सर्वान्तरं ब्रह्माहमस्मीति प्रतिपद्यते मुमुक्षुरित्यर्थः । ब्रह्मविद्योपायविशेषत्वेन कोशपरम्परा शाखाग्रस्थानीयोपदिश्यत इति दृष्टान्तदार्ष्टान्तिकयोः सङ्गतिः । एवं कोशेषु पक्षपुच्छादिमत्त्वोपन्यासात्सुपर्णाकारतयोपास्तयो विधीयन्ते । ता अप्युपास्तयश्चित्तैकाग्र्यद्वारा ब्रह्मविद्याशेषभूता एव न स्वतन्त्राः । तासु फलश्रवणं प्रयाजाद्यङ्गवाक्येषु फलश्रवणवदर्थवादमात्रमित्यादिकं वार्त्तिकादौ द्रष्टव्यमिति सङ्क्षेपः ।

अन्नमयस्य प्रसिद्धं शिर एव शिर इत्यत्रावधारणस्य तात्पर्यमाह –

प्राणमयादिष्विति ।

एवमिति ।

अयमेव दक्षिणः पक्ष इत्यादिप्रकारेणान्नमयपर्याये सर्वत्रावधारणं योजनीयमित्यर्थः ।

ननु बाह्वोर्दक्षिणत्वादेरनित्यतत्वात्कथं दक्षिणो बाहुरित्युच्यते ? तत्राह –

पूर्वाभिमुखस्येति ।

श्रौतस्मार्तेषु कर्मसु पूर्वाभिमुखत्वस्यौत्सर्गिकत्वादिति भावः ।

आत्मेति ।

अयं मध्यमो देहभागोऽङ्गानामात्मेत्यवगन्तव्यमित्यत्र श्रुत्यन्तरमाह –

मध्यं हीति ।

मध्यमभागस्य सर्वाङ्गस्पर्शितया सर्वाङ्गव्यापकत्वरूपमात्मत्वं तस्य युक्तमिति हि-शब्दार्थः ।

प्रतिष्ठापदं स्थितिसाधनत्वं वददाधारपरमित्याह –

प्रतितिष्ठतीति ।

नाभेरधोभागे पुच्छदृष्टिकरणे इवशब्दसङ्गृहीतं सामान्यमाह –

अधोलम्बनेति ।

एतत्प्रकृत्येति ।

अन्नमयस्य पुरुषविधत्वं शिरआदिमत्त्वलक्षणं प्रकृत्य ‘तस्य पुरुषविधताम् , अन्वयं पुरुषविधः’ इति वक्ष्यमाणं पुरुषविधत्वं प्राणमयादीनां सिध्यतीत्यर्थः ।

मूषेति ।

अन्तः प्रतिमाकारच्छिद्रवती मृन्मयी प्रतिकृतिर्मूषा, तस्यां निषिक्तं द्रुतं ताम्रादिकं यथा प्रतिमाकारं भवति, तथा शिरआदिमत्यन्नमयकोशेऽन्तर्व्याप्य विद्यमानं प्राणमयादिकमपि तदाकारं भवतीत्यर्थः ।

अत्रान्नमयकोशस्य विराडात्मनोपास्यत्वं विवक्षितमिति मत्वा विराडात्मन्यन्नमयकोशे मन्त्रमवतारयति –

तदप्येष इति ॥