अन्नादिति ।
विराडात्मकादित्यर्थः ।
स्थावरेति ।
व्यष्ट्यन्नमयकोशा इत्यर्थः ।
कदा लीयन्त इत्याकाङ्क्षायामाह –
अन्त इति ।
विराजोऽस्मदादिकारणत्वे हेतुपरमन्नं हीति वाक्यं हि-शब्दयोगादिति मत्वा तदाकाङ्क्षापूर्वकमवतार्य व्याचष्टे –
कस्मादित्यादिना ।
अन्नशब्दितस्य विराजः प्रथमजत्वे फलितमाह –
अन्नमयादीनां हीति ।
प्राणमयादीनामन्नविकारत्वाभावेऽप्यन्नोपचितत्वमस्तीति मत्वात्रादिपदं प्रयुक्तम् । अन्नं विराडात्मकं यतः प्रथममेव जातं सत्स्वव्यतिरिक्तानां भूतानां कारणं कारणत्वयोग्यम् अतोऽन्नप्रभवा इत्यर्थः । प्रथममुत्पन्नस्य पश्चादुत्पद्यमानकार्यं प्रति कारणत्वयोग्यतासम्भवसूचनार्थो हि-शब्दः ।
यस्माच्चैवमिति ।
चोऽवधारणे । यस्मादन्नजीवना एव प्रजाशब्दवाच्याः प्राणिन इत्यर्थः ।
दाहेति ।
जाठरकृता क्षुद्दाहः, तत्प्रशामकमित्यर्थः ॥