उत्तरवाक्यतात्पर्यमाह –
अन्नब्रह्मविद इति ।
ननु कथमन्नस्य ब्रह्मत्वं कथं वा तदुपासनमिति पृच्छति –
कथमिति ।
उत्तरम् – अन्नज इत्यादि । यस्मादन्नं प्रथमकोशजातस्य जन्मस्थितिप्रलयकारणं तस्मादन्नं ब्रह्म, तच्चान्नात्मकं ब्रह्माहमस्मीति चिन्तयेत् , उपास्यविराड्देवभावापत्तिं विना सर्वान्नप्राप्त्यसम्भवात् देवभावस्य चाहङ्ग्रहं विना प्राप्तुमशक्यत्वादित्यर्थः ।
अन्नं हीति पुनर्वचनमन्नब्रह्मविदः सर्वान्नप्राप्तौ हेतुपरमिति मत्वा तदवतारयति –
कुतः पुनरिति ।
अन्नस्य ज्येष्ठत्वे हेतुमाह –
भूतेभ्य इति ।
भूतेभ्यः पूर्वं निष्पन्नत्वादन्नं ज्येष्ठम् , तच्च ज्येष्ठमन्नं हि यस्माद्भूतानां जन्मजीवनादिकारणं तस्मादन्नं सर्वौषधमुच्यते लोकैरिति योजना । अनेन हि पुनर्वचनेन अन्नदेवतात्मनो विराजः स्वकार्येषु सर्वप्राणिषु व्याप्तिस्तात्पर्येण प्रतिपाद्यते लोके कारणस्य मृदादेः कार्येषु व्याप्तेः प्रसिद्धत्वात् ।
सा च व्याप्तिर्विराडात्मभावमापन्नस्यान्नब्रह्मविदः सर्वप्राण्यात्मना सर्वान्नात्तृत्वे हेतुर्भवतीति मत्वाह –
तस्मादिति ।
अन्नब्रह्मविदो विराडात्मना सर्वप्राणिव्यापित्वादित्यर्थः । अस्य पुनर्वचनस्यायमभिप्रायो वार्त्तिके स्पष्टमभिहितः - ‘कार्यं सर्वं यतो व्याप्तं कारणेनात्तृरूपिणा । इति हेतूपदेशाय त्वन्नं हीत्युच्यते पुनः’ इति ।
ननु ‘अन्नाद्वै प्रजाः प्रजायन्ते’ इत्युक्तत्वात्पुनः ‘अन्नाद्भूतानि जायन्ते’ इत्यादिवचनं व्यर्थमित्याशङ्क्याह –
उपसंहारार्थमिति ।
अद्यत इत्यादेस्तात्पर्यमाह –
इदानीमिति ।
तच्च निर्वचनमुपास्यस्यान्नरूपप्रजापतेरद्यत्वात्तृत्वरूपगुणद्वयविधानार्थमिति मन्तव्यम् । यस्मात्प्रकृतं व्रीहियवादिलक्षणं वस्तु भूतैरद्यते तस्मादन्नशब्दवाच्यं भवति, यस्माच्च तद्भूतान्यत्ति संहरति तस्मादपि तदन्नमुच्यते ; अन्नस्य चापथ्यादिरूपस्य प्राणिसंहारसाधनत्वं लोके प्रसिद्धमिति मन्तव्यम् ।
इत्थमन्नमयकोशं निरूप्य तस्यानात्मत्वसिद्धये प्राणमयकोशवाक्यप्रवृत्तिः ; एवमुत्तरत्रापीति तात्पर्यमाह –
अन्नमयादिभ्य इति ।
आत्मभ्य इति ।
कल्पितात्मभ्य इत्यर्थः ।
अत एवाह –
अविद्याकृतेति ।
यथा लोकोऽनेकतुषकोद्रववितुषीकरणेन कोद्रवतण्डुलान्दर्शयितुं प्रवर्तते तथा प्रत्यगात्मावरणभूताविद्याकृतपञ्चकोशापनयनेनान्नमयादिभ्य आनन्दमयान्तेभ्य अन्तरतमं ब्रह्म कोशापनयनशब्दितविवेकजनितया विद्यया प्रत्यक्तया दर्शयितुमिच्छु शास्त्रं प्रस्तौति प्रवर्तत इत्यर्थः । तस्माद्वा एतस्माद्यथोक्तादिति । अत्र ‘अन्नाद्वै प्रजाः प्रजायन्ते’ इत्यादौ दूरदेशे भूतकारणत्वेन प्रकृतं विराजं वै-शब्देन स्मारितं तस्मादित्यनेनानूद्य एतस्मादित्यनेनान्नमयकोशस्य विराडात्मत्वं प्रबोध्यते । एवमुत्तरत्रापि । तदुक्तं वार्तिके – 'वै-शब्देनैव संस्मार्य दवीयोदेशवर्तिनम् । तस्माच्छब्देन वैराजमादायाध्यात्मरूपिणः । एतस्मादिति शब्देन वैराजत्वं प्रबोध्यते । कार्याणां कारणात्मत्वमेवं स्यादुत्तरेष्वपि’ इति । कार्याण्याध्यात्मिकाः कोशाः, तेषां विराडाद्यात्मत्वबोधनं च प्रागानन्दमयपर्यायाद्विराडाद्यभेदेनोपासनसूचनार्थम् ; आनन्दमयपर्याये तु तदेतच्छब्दयोरुक्तार्थपरत्वेऽपि न चिन्तनविवक्षास्ति, किं त्वध्यात्माधिदैवतलक्षणाद्द्विविधादप्यानन्दमयतत्कारणकोशाच्चिदेकरसस्य पुच्छह्मणो विवेकमात्रं विवक्षितम् ; तत्पर्याये पक्षपुच्छादिकल्पनस्यान्यदेव प्रयोजनमिति वक्ष्यते । यथोक्तादित्यस्य सुपर्णाकारेणोक्तादित्यर्थः । आत्मत्वेन परिकल्पित इति योजना ।
वायुरिति ।
अत्र हिरण्यगर्भोपाधिभूते समष्टिकारणात्मनि क्रियाशक्तिमदंशः प्राणो विवक्षित इति मत्वा वायुरित्युक्तम् । तत्रैव ज्ञानशक्तिमदंशभूतं समष्ट्यन्तःकरणं मनोमय इत्यत्र मनःशब्दार्थ इत्यपि बोध्यम् ।
तत्प्राय इति ।
तद्विकार इत्यर्थः ।
अत एवानुवादावसरे वक्ष्यति –
वायुविकारस्येति ।
प्राणमयस्यान्नमयं प्रत्यात्मत्वं तद्व्यापित्वादित्युपपादनार्थम् ‘तेनैष पूर्णः’ इत्युक्तम् ।
तत्र प्राणेन देहो व्याप्त इत्यत्रानुरूपं दृष्टान्तमाह –
वायुनेवेति ।
शिरःपक्षादिभिरिति ।
शिरःपक्षपुच्छादिकल्पनालम्बनभूतैरवयवैः पुरुषाकारः प्राण इत्यर्थः ।
ननु पञ्चवृत्तेः प्राणस्यामूर्तत्वात्स्वयमेव तस्य पुरुषविधत्वं न सम्भवतीति शङ्कते –
किं स्वयमेवेति ।
'तस्य पुरुषविधताम् ‘ इति श्रुत्या परिहरति –
नेत्याहेति ।
श्रुतिरिति शेषः ।
नन्वन्नमयस्य वा कथं पुरुषविधत्वम् ? तत्राह –
प्रसिद्धमिति ।
प्राणमये उक्तं न्यायं मनोमयादिष्वतिदिशति –
एवमिति ।
कथं पुरुषविधतास्येति ।
अस्य प्राणमयस्य यद्यपि पुरुषविधता सिद्धा तथापि कथं पक्षपुच्छादिकल्पनाप्रकार इत्यर्थः ।
वृत्तिविशेष इति ।
वृत्तिमतः प्राणस्यावयवित्वेन विवक्षितत्वादिति भावः ।
ननु प्राणवृत्तौ शिरस्त्वकल्पनायां किं नियामकम् ? तत्राह –
वचनादिति ।
उत्तरत्रापि वचनमेव नियामकमित्याह –
सर्वत्रेति ।
यद्वा सर्वपर्यायेष्वपि वस्तुगत्या वचनमेव तत्कल्पने नियामकमित्याह –
सर्वत्रेति ।
आकाशपदेन शरीरमध्याकाशस्थसमानलक्षणायां कारणमाह –
प्राणवृत्त्यधिकारादिति ।
समानस्य मध्यभागत्वरूपात्मत्वकल्पनायां युक्तिमाह –
मध्यस्थत्वादिति ।
इतराः पर्यन्ता वृत्तीरपेक्ष्य मध्यस्थत्वात्समान आत्मेति योजना ।
ननु मध्यस्थस्यापि कथमात्मत्वम् ? तत्राह –
मध्यं हीति ।
पृथिवीदेवतेति ।
न च प्राणवृत्त्यधिकाराविशेषात्पृथिवीशब्देनोदानग्रहणं न्याय्यमिति वाच्यम् ; प्रतिष्ठात्वलिङ्गविरोधेन प्रकरणस्यानादरणीयत्वात् । न ह्युदानवृत्तेर्वृत्तिमन्तं प्राणमयं प्रति प्रतिष्ठात्वं सम्भवति ।
स्थितिहेतुत्वादिति ।
पृथिवीदेवताया आध्यात्मिकप्राणस्थितिहेतुत्वस्य श्रुत्यन्तरादवगतत्वादित्यर्थः । श्रुतावपानपदं प्राणमयकोशपरम् ।
अन्यथेति ।
देवताकृतावष्टम्भनाभाव इत्यर्थः । उदानवृत्तेरूर्ध्वगमनहेतुत्वम् ‘अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन पापम्’ इत्यादिश्रुत्यन्तरादेव सिद्धमिति मन्तव्यम् , उदानवृत्तेः कालविशेषापेक्षत्वेन सदोर्ध्वगमनप्रसक्त्यभावेऽपि च्छिन्नकदलीस्तम्भादेरिव भूमौ पतनं वा प्रसज्यत इत्यर्थः ॥