तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च । विज्ञानं देवाः सर्वे । ब्रह्म ज्येष्ठमुपासते । विज्ञानं ब्रह्म चेद्वेद । तस्माच्चेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा । सर्वान्कामान्समश्नुत इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्मानन्दमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुष विधताम् । अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
विज्ञानं यज्ञं तनुते, विज्ञानवान्हि यज्ञं तनोति श्रद्धापूर्वकम् ; अतो विज्ञानस्य कर्तृत्वं तनुत इति । कर्माणि च तनुते । यस्माद्विज्ञानकर्तृकं सर्वम् , तस्माद्युक्तं विज्ञानमय आत्मा ब्रह्मेति । किञ्च, विज्ञानं ब्रह्म सर्वे देवाः इन्द्रादयः ज्येष्ठम् , प्रथमजत्वात् ; सर्ववृत्तीनां वा तत्पूर्वकत्वात्प्रथमजं विज्ञानं ब्रह्म उपासते ध्यायन्ति, तस्मिन्विज्ञानमये ब्रह्मण्यभिमानं कृत्वा उपासत इत्यर्थः । तस्मात्ते महतो ब्रह्मण उपासनात् ज्ञानैश्वर्यवन्तो भवन्ति । तच्च विज्ञानं ब्रह्म चेत् यदि वेद विजानाति ; न केवलं वेदैव, तस्मात् ब्रह्मणः चेत् न प्रमाद्यति ; बाह्येष्वनात्मस्वात्मा भावितः ; तस्मात्प्राप्तं विज्ञानमये ब्रह्मण्यात्मभावनायाः प्रमदनम् ; तन्निवृत्त्यर्थमुच्यते - तस्माच्चेन्न प्रमाद्यतीति । अन्नमयादिष्वात्मभावं हित्वा केवले विज्ञानमये ब्रह्मण्यात्मत्वं भावयन्नास्ते चेदित्यर्थः । ततः किं स्यादिति, उच्यते - शरीरे पाप्मनो हित्वा ; शरीराभिमाननिमित्ता हि सर्वे पाप्मानः ; तेषां च विज्ञानमये ब्रह्मण्यात्माभिमानात् निमित्तापाये हानमुपपद्यते ; छत्रापाय इव च्छायायाः । तस्मात् शरीराभिमाननिमित्तान्सर्वान् पाप्मनः शरीरप्रभवान् शरीरे एव हित्वा विज्ञानमयब्रह्मस्वरूपापन्नः तत्स्थान् सर्वान् कामान् विज्ञानमयेनैवात्मना समश्नुते सम्यग्भुङ्क्ते इत्यर्थः । तस्य पूर्वस्य मनोमयस्य आत्मा एष एव शरीरे मनोमये भवः शारीरः । कः ? य एष विज्ञानमयः । तस्माद्वा एतस्मादित्युक्तार्थम् । आनन्दमय इति कार्यात्मप्रतीतिः, अधिकारात् मयट्शब्दाच्च । अन्नादिमया हि कार्यात्मानो भौतिका इहाधिकृताः । तदधिकारपतितश्चायमानन्दमयः । मयट् चात्र विकारार्थे दृष्टः, यथा अन्नमय इत्यत्र । तस्मात्कार्यात्मा आनन्दमयः प्रत्येतव्यः । सङ्क्रमणाच्च । ‘आनन्दमयमात्मानमुपसङ्क्रामति’ इति वक्ष्यति । कार्यात्मनां च सङ्क्रमणमन्नात्मनां दृष्टम् । सङ्क्रमणकर्मत्वेन च आनन्दमय आत्मा श्रूयते, यथा ‘अन्नमयमात्मानमुपसङ्क्रामति’ इति । न च आत्मन एवोपसङ्क्रमणम् , अधिकारविरोधात् । असम्भवाच्च । न ह्यात्मनैव आत्मन उपसङ्क्रमणं सम्भवति, स्वात्मनि भेदाभावात् ; आत्मभूतं च ब्रह्म सङ्क्रमितुः । शिरआदिकल्पनानुपपत्तेश्च । न हि यथोक्तलक्षणे आकाशादिकारणे अकार्यपतिते शिरआद्यवयवरूपकल्पना उपपद्यते । ‘अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने’ (तै. उ. २ । ७ । १) ‘अस्थूलमनणु’ (बृ. उ. ३ । ८ । ८) ‘नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६) इत्यादिविशेषापोहश्रुतिभ्यश्च । मन्त्रोदाहरणानुपपत्तेश्च । न हि, प्रियशिरआद्यवयवविशिष्टे प्रत्यक्षतोऽनुभूयमाने आनन्दमये आत्मनि ब्रह्मणि नास्ति ब्रह्मेत्याशङ्काभावात् ‘असन्नेव स भवति असद्ब्रह्मेति वेद चेत्’ (तै. उ. २ । ६ । १) इति मन्त्रोदाहरणमुपपद्यते । ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्यपि चानुपपन्नं पृथग्ब्रह्मणः प्रतिष्ठात्वेन ग्रहणम् । तस्मात्कार्यपतित एवानन्दमयः, न पर एवात्मा । आनन्द इति विद्याकर्मणोः फलम् , तद्विकार आनन्दमयः । स च विज्ञानमयादान्तरः, यज्ञादिहेतोर्विज्ञानमयादस्यान्तरत्वश्रुतेः । ज्ञानकर्मणोर्हि फलं भोक्त्रर्थत्वादान्तरतमं स्यात् ; आन्तरतमश्च आनन्दमय आत्मा पूर्वेभ्यः । विद्याकर्मणोः प्रियाद्यर्थत्वाच्च । प्रियादिप्रयुक्ते हि विद्याकर्मणी ; तस्मात्प्रियादीनां फलरूपाणामात्मसंनिकर्षात् विज्ञानमयादस्याभ्यन्तरत्वमुपपद्यते ; प्रियादिवासनानिर्वर्तितो ह्यात्मा आनन्दमयो विज्ञानमयाश्रितः स्वप्ने उपलभ्यते । तस्य आनन्दमयस्यात्मनः इष्टपुत्रादिदर्शनजं प्रियं शिर इव शिरः, प्राधान्यात् । मोद इति प्रियलाभनिमित्तो हर्षः । स एव च प्रकृष्टो हर्षः प्रमोदः । आनन्द इति सुखसामान्यम् आत्मा प्रियादीनां सुखावयवानाम् , तेष्वनुस्यूतत्वात् । आनन्द इति परं ब्रह्म ; तद्धि शुभकर्मणा प्रत्युपस्थाप्यमाने पुत्रमित्रादिविषयविशेषोपाधौ अन्तःकरणवृत्तिविशेषे तमसा अप्रच्छाद्यमाने प्रसन्ने अभिव्यज्यते । तद्विषयसुखमिति प्रसिद्धं लोके । तद्वृत्तिविशेषप्रत्युपस्थापकस्य कर्मणोऽनवस्थितत्वात् सुखस्य क्षणिकत्वम् । तद्यदन्तःकरणं तपसा तमोघ्नेन विद्यया ब्रह्मचर्येण श्रद्धया च निर्मलत्वमापद्यते यावत् , तावत् विविक्ते प्रसन्ने अन्तःकरणे आनन्दविशेष उत्कृष्यते विपुलीभवति । वक्ष्यति च - ‘रसो वै सः, रसं ह्येवायं लब्ध्वानन्दी भवति, एष ह्येवानन्दयाति’ (तै. उ. २ । ७ । १) ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृ. उ. ४ । ३ । ३२) इति श्रुत्यन्तरात् । एवं च कामोपशमोत्कर्षापेक्षया शतगुणोत्तरोत्तरोत्कर्षः आनन्दस्य वक्ष्यते । एवं च उत्कृष्यमाणस्य आनन्दमयस्यात्मनः परमार्थब्रह्मविज्ञानापेक्षया ब्रह्म परमेव यत्प्रकृतं सत्यज्ञानानन्तलक्षणम् , यस्य च प्रतिपत्त्यर्थं पञ्च अन्नादिमयाः कोशा उपन्यस्ताः, यच्च तेभ्य आभ्यन्तरम् , येन च ते सर्वे आत्मवन्तः, तत् ब्रह्म पुच्छं प्रतिष्ठा । तदेव च सर्वस्याविद्यापरिकल्पितस्य द्वैतस्य अवसानभूतम् अद्वैतं ब्रह्म प्रतिष्ठा, आनन्दमयस्य एकत्वावसानत्वात् । अस्ति तदेकमविद्याकल्पितस्य द्वैतस्यावसानभूतमद्वैतं ब्रह्म प्रतिष्ठा पुच्छम् । तदेतस्मिन्नप्यर्थे एष श्लोको भवति ॥
विज्ञानवान्हीति ; कर्माणि चेति ; यस्मादिति ; किं च विज्ञानमिति ; सर्वप्रवृत्तीनामिति ; ध्यायन्तीति ; अभिमानमिति ; तस्मादिति ; तच्च विज्ञानमिति ; बाह्येष्विति ; प्रमदनमिति ; अन्नमयादिष्विति ; शरीराभिमाननिमित्ता हीति ; तेषां चेति ; छत्रापाय इति ; तस्मादिति ; शरीर एवेति ; विज्ञानमयेनैवात्मनेति ; आनन्दमय इतीति ; अन्नादिमया हीति ; मयट् चेति ; यथेति ; तस्मादिति ; सङ्क्रमणाच्चेति ; आनन्दमयमिति ; कार्यात्मनां चेति ; अनात्मनामिति ; सङ्क्रमणकर्मत्वेन चेति ; यथेति ; न चात्मन एवेति ; अधिकारेति ; न हीति ; आत्मभूतं चेति ; शिरआदीति ; न हि यथोक्तलक्षण इति ; आकाशादीति ; अकार्यपतित इति ; अदृश्य इत्यादिना ; मन्त्रोदाहरणेति ; ब्रह्म पुच्छमिति ; तस्मादिति ; न पर एवेति ; आनन्द इतीति ; तद्विकार इति ; ज्ञानकर्मणोर्हि फलमिति ; अन्तरतमश्चेति ; विद्याकर्मणोः प्रियाद्यर्थत्वाच्चेति ; प्रियादिप्रयुक्ते हीति ; तस्मादिति ; आत्मसंनिकर्षादिति ; अस्येति ; प्रियादिवासनेति ; स एव चेति ; तेष्विति ; आनन्द इतीति ; तद्धीत्यादिना ; तमसेति ; प्रसन्न इति ; अभिव्यज्यत इति ; तद्विषयेति ; तद्वृत्तीति ; तद्यदेति ; विविक्त इति ; आनन्दविशेष इति ; वक्ष्यति चेति ; अयमिति ; एष ह्येवेति ; एतस्यैवेति ; एवं चेति ; वक्ष्यत इति ; एवं चेति ; परमार्थेति ; यत्प्रकृतमिति ; यस्य चेति ; यच्चेति ; येन चेति ; तदेव चेति ; आनन्दमयस्येति ; अविद्यापरिकल्पितस्येति ; एकत्वावसानत्वादस्तीत्यादिना ;

ननु विज्ञानं नाम वेदार्थविषयो निश्चय इत्युक्तम् , अतस्तस्य कथं कर्तृत्वनिर्देश इत्याशङ्क्य, उपचारादित्याह –

विज्ञानवान्हीति ।

'य एवं विद्वान्यजते’ इत्यादौ वेदार्थज्ञानवतो यज्ञादिकर्तृत्वं प्रसिद्धमिति सूचनार्थो हि-शब्दः ।

कर्माणि चेति ।

लौकिकानीति शेषः, वैदिककर्मणां यज्ञशब्देन सङ्गृहीतत्वात् । अत्र विज्ञानमयस्य मुख्यं लौकिकवैदिककर्मकर्तृत्वम् , विज्ञानस्य तु तदौपचारिकमिति व्यवस्था दर्शिता । स च विज्ञानमयो नानाविधानि कर्माण्युपासनानि च कुर्वन्नपरब्रह्मवज्जगतः कारणं भवति । इयांस्तु विशेषः - विज्ञानमयो ह्यदृष्टद्वारा कारणम् , अपरब्रह्म तु साक्षादेवेश्वरवत्कारणमिति ।

तथा च ‘विज्ञानं यज्ञं तनुते’ इति वाक्योक्तं सर्वकर्मकर्तृत्वं विज्ञानमयकोशे जगत्कारणत्वसाम्यसम्पादनद्वारा अपरब्रह्मारोपे निमित्तमित्याशयेनाह –

यस्मादिति ।

विज्ञानपदं कोशपरम् ।

इतश्च विज्ञानमयोऽपरब्रह्माभेदेनोपास्य इत्याह –

किं च विज्ञानमिति ।

विज्ञानमयमित्यर्थः ।

ज्येष्ठपदं कारणपरं वेत्याह –

सर्वप्रवृत्तीनामिति ।

सर्वप्राणिचेष्टानां सूत्ररूपब्रह्मकारणकत्वाद्वा ब्रह्म ज्येष्ठमित्यर्थः ।

ध्यायन्तीति ।

पूर्वजन्मनि यजमानावस्थायामिति शेषः ।

अभिमानमिति ।

अहम्बुद्धिमित्यर्थः ।

पूर्वं ब्रह्मोपासनं देवैरनुष्ठितमित्यत्र देवत्वावस्थायां ज्ञानाद्यैश्वर्यदर्शनं लिङ्गमित्याशयेनाह –

तस्मादिति ।

इदानीमुपासनविधिं दर्शयति –

तच्च विज्ञानमिति ।

विज्ञानमयमित्यर्थः । अत्र चेच्छब्दः प्रकृतोपासनदौर्लभ्यसूचनार्थः, कथञ्चिदुपासने प्रवृत्तावपि तत्र प्रमादसम्भवस्यावश्यकत्वात् । अप्रमाददौर्लभ्यसूचनार्थो द्वितीयश्चेच्छब्दः ।

प्रमादप्रसक्तिमाह –

बाह्येष्विति ।

विज्ञानमयापेक्षया बाह्यानां मनोमयप्राणमयान्नमयानामपि पूर्वमात्मत्वेन भावितत्वादित्यर्थः ।

प्रमदनमिति ।

विज्ञानमये ब्रह्मण्यात्मभावनायाः सकाशात्प्रमदनं नाम पूर्वकोशेषु पुनरात्मभावनमित्यर्थः ।

फलितमाह –

अन्नमयादिष्विति ।

सूक्ष्मशारीराभिन्ने ब्रह्मणि विषये क्रियमाणादुपासनात्पाप्महानं भवतीत्यत्र युक्तिमाह –

शरीराभिमाननिमित्ता हीति ।

मनुष्यत्वब्राह्मणत्वगृहस्थत्वादिधर्मवति शरीरे ‘मनुष्योऽहम्’, ’ब्राह्मणोऽहम्’, ’गृहस्थोऽहम्’ इत्याद्यभिमानं निमित्तीकृत्य मनुष्यादीनां प्रतिषिद्धैः कर्मभिः पाप्मानो भवन्ति । अत्रार्थे लोकवेदप्रसिद्धिद्योतको हि-शब्दः ।

ततः किम् ? तत्राह –

तेषां चेति ।

चोऽवधारणे । तेषां हानमुपपद्यत इति सम्बन्धः । विज्ञानमयब्रह्मण्येवाहमभिमानात्पाप्मनिमित्तस्य शरीरात्माभिमानस्यापाये सतीत्यर्थः ।

निमित्तापाये नैमित्तिकापाय इत्यत्र दृष्टान्तमाह –

छत्रापाय इति ।

एवं पाप्महानफलवचनस्योपपत्तिमुक्त्वा तस्यार्थमाह –

तस्मादिति ।

शरीरात्माभिमानस्य निमित्तस्य निवृत्तत्वादित्यर्थः ।

शरीर एवेति ।

जीवद्दशायामेवेति यावत् ।

विज्ञानमयेनैवात्मनेति ।

इहैव साक्षात्कारेण विज्ञानमयब्रह्मस्वरूपापन्नो विद्वान्सर्वान्पाप्मनो हित्वा देहपातानन्तरं विज्ञानमयब्रह्मात्मभावेनैव स्थित्वा तल्लोकस्थान्सर्वान्भोग्याननुभवतीत्यर्थः ॥

अत्रानन्दमयः प्रकरणी पर एव न संसारीति केचित् ; तान्प्रत्याह –

आनन्दमय इतीति ।

आनन्दमय इति पदेन कार्यात्मन एव प्रतीतिर्भवति न तु कारणस्य परमात्मन इत्यर्थः । यद्यप्यानन्दमयो न कार्यभूतः अविद्योपाधिकस्य जीवस्यानन्दमयत्वाभ्युपगमेनानादित्वात् , तथापि मयडर्थवर्णनावसरे तस्य प्रियमोदादिविशिष्टतया प्रकृत्यर्थभूतानन्दविकारत्वस्य वक्ष्यमाणत्वात्कार्यात्मेत्युक्तम् ।

अधिकारं विवृणोति –

अन्नादिमया हीति ।

तेषां कार्यात्मत्वं प्रसिद्धमिति हि-शब्दार्थः ।

नन्वानन्दमय इत्यत्र मयटः प्राचुर्यार्थकत्वाभ्युपगमान्न तस्य मयट्च्छ्रुत्या कार्यात्मत्वमित्याशङ्क्य द्वितीयहेतुमपि विवृणोति –

मयट् चेति ।

प्राचुर्यार्थत्वपक्षे प्राचुर्यस्य प्रतियोग्यल्पतापेक्षत्वादानन्दप्रचुरस्य ब्रह्मणो दुःखाल्पत्वमपि प्रसज्येत, तस्माद्विकारार्थ एव मयट् न प्राचुर्यार्थ इत्यर्थः ।

किं च विकारे प्राचुर्ये च मयटो विधानाविशेषात्संशये विकारार्थकमयट्प्रवाहपतितत्वाद्विकारार्थकत्वमेवात्र निश्चीयत इत्याशयेनाह –

यथेति ।

एवमनात्मप्रायपाठाद्विकारार्थकमयट्च्छ्रुतिबलाच्चानन्दमयः कार्यात्मेत्युपसंहरति –

तस्मादिति ।

सङ्क्रमणाच्चेति ।

आनन्दमयस्य सङ्क्रमणं प्रति कर्मत्वश्रवणाच्च कार्यात्मत्वमित्यर्थः ।

हेत्वसिद्धिं परिहरति –

आनन्दमयमिति ।

व्याप्तिमाह –

कार्यात्मनां चेति ।

चोऽवधारणे । अत्र प्रकरणे यत्र यत्र सङ्क्रमणकर्मत्वं तत्र तत्र कार्यात्मत्वमेवेति व्याप्तिर्दृष्टेत्यर्थः ।

अनात्मनामिति ।

मुख्यात्मभिन्नानामन्नमयादीनामिति यावत् ।

हेतोः पक्षधर्मत्वमाह –

सङ्क्रमणकर्मत्वेन चेति ।

तदेव दृष्टान्तेन साधयति –

यथेति ।

आनन्दमयस्य सङ्क्रमणकर्मत्वलिङ्गेनाब्रह्मत्वमुक्तम् ।

विपक्षे बाधकं वदन्नप्रयोजकत्वशङ्कां निराकरोति –

न चात्मन एवेति ।

सङ्क्रमितुरेवंविदः परब्रह्मस्वरूपत्वादानन्दमयस्यापि ब्रह्मत्वे स्वस्यैव स्वेनोपसङ्क्रमणिति प्रसज्जेत, तच्च न युक्तमित्यर्थः ।

अधिकारेति ।

सङ्क्रमणकर्तुरेवंविदः सकाशादन्यस्यैवान्नमयादेः सङ्क्रमणकर्मत्वं प्रकृतम् ; अत्र स्वस्यैव स्वेनोपसङ्क्रमणाभ्युपगमे कर्तृकर्मणोर्भेदाधिकारविरोध इत्यर्थः ।

असम्भवं विवृणोति –

न हीति ।

एवंविद्ब्रह्मणोर्भेदमाशङ्क्याह –

आत्मभूतं चेति ।

अत्र सङ्क्रमणं प्राप्तिर्बाधो वा, उभयथाप्यानन्दमयस्य ब्रह्मत्वे सङ्क्रमणकर्मत्वायोगात्कार्यात्मत्वमेवेति भावः ।

आनन्दमयस्य कार्यात्मत्वे हेत्वन्तरमाह –

शिरआदीति ।

ननु ब्रह्मण्यप्युपासनार्थं शिरआदिकल्पनमुपपद्यत इत्याशङ्क्यानुपपत्तिमेव साधयति –

न हि यथोक्तलक्षण इति ।

सत्यज्ञानानन्ताख्यस्वरूपलक्षणवतीत्यर्थः ।

तटस्थलक्षणमप्याह –

आकाशादीति ।

कार्यकोटिप्रविष्ट एवान्नमयादौ शिरआदिकल्पनदर्शनाच्च तद्विलक्षणे ब्रह्मणि न तत्कल्पनमुपपद्यत इत्याशयेनाह –

अकार्यपतित इति ।

इत्थं मुमुक्षुज्ञेये निर्विशेषे ब्रह्मण्यनुपास्ये शिरआदिकल्पनमनुपपन्नम् , निर्विशेषत्वे च यथोक्तलक्षण इत्यादिनोपक्रमस्वारस्यं प्रमाणत्वेन सूचितम् ।

तत्रैव वाक्यशेषं श्रुत्यन्तराणि च प्रमाणयति –

अदृश्य इत्यादिना ।

आनन्दमयः कार्यात्मा शिरआदिकल्पनावत्त्वादन्नमयादिवत् , विपक्षे हेतूच्छित्तिरेव बाधिकेति निष्कर्षः ।

आनन्दमयस्य ब्रह्मत्वे विवक्षिते सति तद्विषयश्लोके तस्यैवासत्त्वाशङ्का वाच्या, सा च न सम्भवति, अतो नानन्दमयो ब्रह्मेत्याह –

मन्त्रोदाहरणेति ।

न हि मन्त्रोदाहरणमुपपद्यत इति सम्बन्धः ।

इतश्च नानन्दमयो ब्रह्मेत्याह –

ब्रह्म पुच्छमिति ।

आनन्दमयस्य ब्रह्मत्वे ब्रह्मणोऽवयवित्वेन गृहीतत्वात्पृथक्तस्यैव ब्रह्मणः पुच्छत्वेन प्रतिष्ठात्वेन च ग्रहणमनुपपन्नम् एकत्रावयवावयविभावादिकल्पनस्यानुचित्तत्वादिति भावः ।

तस्मादिति ।

उक्तहेतुसमुदायादित्यर्थः ।

न पर एवेति ।

न साक्षात्परमात्मैवानन्दमय इत्यर्थः ।

आनन्दमय इत्यत्र प्रकृत्यर्थमाह –

आनन्द इतीति ।

आनन्द इति प्रकृत्यंशेनोपासनाकर्मफलभूतं प्रियमोदादिलक्षणं सुखमुच्यते आनन्दपदस्य लोके विषयसुखेषु प्रसिद्धत्वादित्यर्थः ।

मयडर्थमाह –

तद्विकार इति ।

विशिष्टस्य विशेषणविकारत्वात्प्रकृत्यर्थभूतानन्दविशिष्ट आत्मा तद्विकार इत्यर्थः ।

आनन्दमयस्य विज्ञानमयादान्तरत्वं श्रुत्युक्तमुपपादयति –

ज्ञानकर्मणोर्हि फलमिति ।

तयोः फलशब्दितसुखसाधनत्वं प्रसिद्धमिति हि-शब्दार्थः । भोक्त्रर्थत्वादित्यत्र भोक्तृपदं भावप्रधानं सत्फलत्वेन विवक्षितं सुखरूपं भोगमाह ; तथा च कर्तुर्विज्ञानमयस्य भोक्तृशब्दितफलसाधनत्वाज्ज्ञानकर्मफलभूतं सुखं साधनभूतविज्ञानमयाद्यपेक्षया अन्तरतममित्यर्थः ।

तथाप्यानन्दमयस्यान्तरत्वे किमायातम् ? तत्राह –

अन्तरतमश्चेति ।

चोऽवधारणार्थः । अन्तरतमफलविशिष्टः सन्नानन्दमय आत्मा पूर्वेभ्यो विज्ञानमयान्तेभ्यः कोशेभ्योऽन्तरतमो भवत्येवेत्यर्थः ।

नन्वानन्दमयो न विद्याकर्मफलविशिष्टः किं तु प्रियादिविशिष्टः ‘तस्य प्रियमेव शिरः’ इत्यादिश्रवणादित्याशङ्क्याह –

विद्याकर्मणोः प्रियाद्यर्थत्वाच्चेति ।

च-शब्दः शङ्कानिवृत्त्यर्थः । प्रियादेः सुखरूपत्वान्न विद्याकर्मफलात्प्रियादेर्भेद इति भावः ।

तयोः प्रियाद्यर्थत्वं प्रसिद्धमित्याह –

प्रियादिप्रयुक्ते हीति ।

प्रियाद्युद्देश्यके इत्यर्थः ।

आनन्दमयस्यान्तरत्वप्रतिपादनमुपसंहरति –

तस्मादिति ।

आत्मसंनिकर्षादिति ।

आत्मविशेषणत्वादिति यावत् ।

अस्येति ।

आन्तरैः प्रियादिभिर्विशिष्टस्यात्मन इत्यर्थः ।

इत्थमानन्दमयस्य विज्ञानमयादभ्यन्तरत्वं प्रसाध्य तस्मादन्यत्वं साधयति –

प्रियादिवासनेति ।

जाग्रति प्रियाद्यनुभवजनिताभिर्वासनाभिर्निर्वर्तितः ; वासनाविशिष्ट इति यावत् । एवंभूत आनन्दमय आत्मा विज्ञानमयाश्रिते स्वप्ने प्रियादिविशिष्टतयोपलभ्यते । स च विज्ञानमयादन्यः विज्ञानमयस्य जाग्रति यज्ञादिकर्मकर्तृत्वेन व्यवस्थितत्वात् स्वप्ने चात्मनः कर्मक्रतृत्वाभावात् स्वप्ने कर्मकरणादिव्यापारस्य वासनामात्रत्वात् । किं च स्वप्नप्रपञ्चस्य विज्ञानमयशब्दितसाभासान्तःकर्णपरिणामत्वाद्विज्ञानमयो विषयत्वेनैवोपक्षीणः ; ततो विषयभूताद्विज्ञानमयादानन्दमयस्य स्वप्नद्रष्टुरन्यत्वमावश्यकमित्याशयेन विज्ञानमयाश्रिते स्वप्न इत्युक्तमिति मन्तव्यम् ।

स एव चेति ।

लाभनिमित्त एव हर्षो लब्धस्योपभोगादिना प्रकर्षं प्राप्तः सन्प्रमोदशब्दवाच्यो भवतीत्यर्थः । आनन्द इति पदेन सुखसामान्यमुच्यते ; तच्च शिरआद्यवयवरूपेण कल्पितानां प्रियादीनामात्मा मध्यकाय इत्यर्थः ।

आनन्दस्य सामान्यरूपत्वे युक्तिमाह –

तेष्विति ।

प्रियादिषु सुखविशेषेष्वित्यर्थः ।

ननु सुखसामान्यं नाम किं जातिरूपम् ? नेत्याह –

आनन्द इतीति ।

सुखसामान्यवाचिना आनन्द इति पदेन परं सुखरूपतयोत्कृष्टं ब्रह्मोच्यत इत्यर्थः । यथा घटाद्युपहितानि च्छिद्राण्याकाशविशेषाः तेषु स्वरूपेणानुस्यूतमाकाशमाकाशसामान्यमिति प्रसिद्धम् , तथा वृत्तिविशेषोपहितानि ब्रह्मस्वरूपसुखान्येव सुखविशेषाः तेषु स्वरूपेणानुस्यूतं ब्रह्मसुखमेव सुखसामान्यमुच्यते, न जातिरूपमिति भावः ।

वृत्तिविशेषैरभिव्यक्तं तदुपहितस्वरूपसुखमेव विषयसुखं सदत्र प्रियमोदादिशब्दैरभिधीयत इतीममेवाभिप्रायं प्रकटयति –

तद्धीत्यादिना ।

प्रत्युपस्थाप्यमान इति पदं वृत्तिविशेष इत्यस्य विशेषणम् ; उत्पद्यमान इत्यर्थः । समस्तपाठे प्रत्युपस्थाप्यमानाः प्राप्यमाणाः पुत्रमित्रादिविषयविशेषा उपाधयः कारणानि यस्य वृत्तिविशेषस्येति विग्रहः ।

क्रोधादिवृत्तिवैलक्षण्यरूपं वृत्तेर्विशषमेवाह –

तमसेति ।

अप्रच्छादनफलमाह –

प्रसन्न इति ।

अभिव्यज्यत इति ।

निवृत्तावरणं भवतीत्यर्थः ।

ततः किमित्यत आह –

तद्विषयेति ।

तद्वृत्तिविशेषोपहितं तेनैवाभिव्यक्तं ब्रह्मस्वरूपसुखमेव लोके विषयजनितं सुखमिति प्रसिद्धं न तु वस्तुगत्या विषयजनितमन्यत्सुखमस्तीत्यर्थः ।

ननु विषयसुखस्य ब्रह्मानन्दस्वरूपत्वे क्षणिकत्वं न स्यात् ब्रह्मानन्दस्य नित्यत्वादित्याशङ्क्याह –

तद्वृत्तीति ।

स्वरूपसुखव्यञ्जकवृत्तिविशेषोत्पादककर्मणः क्षणिकत्वादित्यर्थः ।

नन्वेवमपि स्वरूपसुखस्य वृत्तिविशेषेष्वभिव्यक्तस्याप्येकरूपत्वात्कथं विषयसुखेषूत्कर्षतारतम्यमित्याशङ्क्याह –

तद्यदेति ।

तमोघ्नत्वविशेषणं दमादिसाधारणं बोध्यम् । विद्यया उपास्त्या ।

विविक्त इति ।

तमसेति शेषः । अन्तःकरणशुद्धितारतम्यात्तारतम्योपेतास्तद्वृत्तयो भवन्ति, वृत्तितारतम्याच्च तदभिव्यङ्ग्यमात्मसुखमपि तरतमभावेनाभिव्यज्यत इत्यर्थः ।

आनन्दविशेष इति ।

वृत्तिविशेषोपहितानन्द इत्यर्थः ।

विषयसुखानां ब्रह्मसुखावयवत्वे मानमाह –

वक्ष्यति चेति ।

सः प्रकृतः परमात्मा रसः सारः आनन्द इत्यर्थः ।

अयमिति ।

ब्रह्मादिस्तम्बपर्यन्तो लोक इत्यर्थः ।

एष ह्येवेति ।

आनन्दरूपः पर एव निजेनानन्देनानन्दयतीत्यर्थः ।

वाजसनेयश्रुतिमाह –

एतस्यैवेति ।

आत्मानन्दस्यैवेत्यर्थः । आत्मानं ब्रह्मणः सकाशादन्यत्वेन मन्यमानानि भूतानि प्राणिनो मात्रां लेशमेवानुभवन्तीत्यर्थः ।

सुखतारतम्यस्य चित्तशुद्धितारतम्यानुरोधित्वे सत्येव वाक्यशेषोऽप्युपपद्यत इत्याशयेनाह –

एवं चेति ।

कामोपशमः शुद्धिः ।

वक्ष्यत इति ।

'श्रोत्रियस्य चाकामहतस्य’ इत्यत्रेत्यर्थः ।

'ब्रह्म पुच्छं प्रतिष्ठा’ इति वाक्यं व्याचष्टे –

एवं चेति ।

उक्तरीत्यैवोत्कृष्यमाणस्य उत्कर्षतारतम्योपेतप्रियादिविशिष्टस्यानन्दमयात्मनः परमेव ब्रह्म पुच्छं प्रतिष्ठेति सम्बन्धः ।

नन्वानन्दमयं प्रति ब्रह्मणः प्रतिष्ठात्वं किमर्थमुपदिश्यते ? तत्राह –

परमार्थेति ।

परमार्थस्य ब्रह्मणः सर्वान्तरत्वज्ञानार्थमित्यर्थः ।

पुच्छशब्दप्रयोगेऽपि ब्रह्मणोऽत्र प्राधान्यसूचनार्थं प्रकरणित्वमाह –

यत्प्रकृतमिति ।

ब्रह्मप्रकरणस्य कोशवाक्यैर्विच्छेदमाशङ्क्य तेषां प्रकरणिब्रह्मसम्बन्धित्वमाह –

यस्य चेति ।

यस्य ब्रह्मणः सर्वान्तरत्वप्रतिपत्त्यर्थमन्तर्बहिर्भावेन पञ्च कोशाः श्रुत्योपन्यस्ता इत्यर्थः ।

ननु सर्वान्तरत्वमानन्दमयकोशस्यैव न पुच्छब्रह्मणः तस्यान्तरत्वाश्रवणादित्याशङ्क्याह –

यच्चेति ।

अन्नमयादिवदानन्दमयस्यापि कार्यात्मकतायाः प्राक्साधितत्वान्न तस्य सर्वान्तरत्वम् ; पुच्छब्रह्मण्यान्तरत्ववाचिपदाभावेऽपि प्रतिष्ठात्वलिङ्गेनानन्दमयान्तकोशजातं प्रत्यान्तरत्वरूपं सर्वान्तरत्वं सिध्यतीति भावः ।

'आत्मन आकाशः’ इत्यादौ ब्रह्मण्येवात्मशब्दप्रयोगात्तदेव कोशानां वास्तवं स्वरूपमित्याह –

येन चेति ।

ननु प्रतिष्ठापदेन ब्रह्मण आनन्दमयं प्रत्याधारत्वोक्तौ पुच्छपदेन पौनरुक्त्यं प्रसज्येत तेनापि तदाधारस्य लक्षणीयत्वादित्याशङ्क्य प्रतिष्ठापदस्यानन्दमयोपलक्षितसर्वद्वैताधारपरत्वमाह –

तदेव चेति ।

आनन्दमयस्येति ।

यदद्वैतं ब्रह्म आनन्दमयस्य प्रितष्ठा प्रतिष्ठात्वेन श्रुतं तत्सर्वस्यैव द्वैतस्य अवसानभूतमधिष्ठानभूतमिह विवक्षितमित्यर्थः ।

द्वैतस्य सर्वस्य साधिष्ठानत्वे युक्तिं सूचयति –

अविद्यापरिकल्पितस्येति ।

शुक्तिरूप्यादिवन्मिथ्याभूतस्येत्यर्थः ।

पुच्छवाक्यनिर्दिष्टब्रह्मास्तित्वसाधनपरत्वेन श्लोकमवतारयितुं तदस्तित्वमुपक्षिपति –

एकत्वावसानत्वादस्तीत्यादिना ।

एकत्वमद्वैतमविद्यापरिकल्पितस्य द्वैतस्याद्वैतावसानत्वाद्धेतोर्यत्तस्यावसानभूतमद्वैतं ब्रह्म पुच्छप्रतिष्ठाशब्दितं तदेकमस्तीति योजना । ननु पुच्छपदेन ब्रह्मण आनन्दमयं प्रत्यवयवत्वावगमात्कथं श्लोकस्य तद्विषयत्वं पूर्वपर्यायेषु श्लोकानामवयविकोशविषयत्वदर्शनादिति चेत् , न ; पूर्वत्रापि मनोमयपर्यायस्थस्य ‘यतो वाचः’ इति श्लोकस्य मनोमयावयवभूतयजुरादिविषयत्वेन तथा नियमाभावात् पुच्छपदस्यापि प्रियादिविशिष्टानन्दमयाधारमात्रलक्षकस्यावयवपरत्वाभावेन तेन ब्रह्मणोऽवयवत्वप्रतीत्यभावाच्च । न च ब्रह्मणि पुच्छदृष्टिलक्षकस्य पुच्छपदस्य कथमाधारलक्षकत्वमिति वाच्यम् ; अत्र पर्याये पूर्वपर्यायेष्विवोपासनाविधिफलश्रवणयोरभावेनानन्दमयकोशस्यानुपास्यत्वात् प्रियादिषु शिरःपक्षादिकल्पनस्यानन्दमये कार्यात्मत्वप्रतिपत्तिमात्रप्रयोजनकत्वोपपत्तेः । एतच्च प्रयोजनं प्रागेव भाष्ये शिरआदिकल्पनानुपपत्तेश्चेत्यादिना प्रपञ्चितम् । अतोऽत्र पुच्छवाक्यनिर्दिष्टस्य ब्रह्मण एव प्राधान्यात् ‘असन्नेव स भवति’ इति श्लोकस्य तद्विषयत्वे नानुपपत्तिः ; प्रत्युत तस्यानन्दमयविषयत्व एवानुपपत्तिरुक्ता वक्ष्यते चेति सङ्क्षेपः ॥