इदानीं प्रवेशशब्दार्थं कथयति –
तदेवेदमित्यादिना ।
यदाकाशादिकारणं प्रकृतं तदेव ब्रह्म इदं प्रत्यक्षादिसंनिधापितं कार्यं सृष्ट्वेत्यर्थः ।
अनुप्रविष्टमिवेति ।
गुहादावनुप्रविष्टं देवदत्तादिवस्तु यथा तदन्तरुपलभ्यते तथा ब्रह्मापि बुद्धेरन्तरुपलभ्यते, तथा चान्तरुपलभ्यमानत्वसाम्यात्प्रवेशशब्दो गौण इत्यर्थः । द्रष्टृत्वादिरूपेणोपलब्धिलक्षणे विवक्षिते प्रवेशे बुद्ध्युपहितचैतन्यरूपस्य जीवस्यैव कर्तृत्वेऽपि जीवब्रह्मणोर्वास्तवैक्यमादाय सृष्टिप्रवेशक्रिययोः समानकर्तृत्वसत्त्वात् यः स्रष्टा स एवानुप्राविशत् क्त्वाप्रत्ययश्रवणादिति सिद्धान्तो निष्प्रत्यूह इति भावः ।
एवमक्षराणि व्याख्याय प्रवेशवाक्यस्यापि ब्रह्मसत्त्वसाधने उपयोगं कथयति –
तस्मादस्तीति ।
तत्प्रकृतमाकाशादिकारणं ब्रह्म अस्ति नास्तीति न, प्रवेष्टृत्वात् असतः प्रवेशादर्शनादित्यर्थः ।
ब्रह्मणो नास्तित्वाभावे फलितमाह –
अत इति ।
पृथिव्यादिभूतत्रयं मूर्तमवशिष्टं भूतद्वयममूर्तमिति विभागो बोध्यः ।
ब्रह्मैव मूर्तामूर्ते अभवदित्यनेन तयोर्ब्रह्मतादात्म्यमुच्यते, तत्रोपपत्तिमाह –
मूर्तामूर्ते हीति ।
प्रागुत्पत्तेरव्याकृतनामरूपतयात्मनि स्थिते मूर्तामूर्ते एव सर्गादौ स्वान्तर्गतेन परमात्मना व्याक्रियेते इत्यर्थः । तयोरव्याकृतनामरूपतया प्रागवस्थाने ‘तद्धेदं तर्ह्यव्याकृतमासीत्’ इति श्रुतिप्रसिद्धिद्योतनार्थो हि-शब्दः ।
ततः किम् ? अत आह –
व्याकृते चेति ।
आत्मना त्विति ।
परमात्मना अविभक्तदेशकाले परमात्मना तादात्म्यापन्ने एव, प्रागुत्पत्तेरात्मनोऽद्वितीयत्वश्रवणादिति भावः । एतदुक्तं भवति - मूर्तामूर्तयोरव्याकृतयोरात्मतादात्म्यात्तयोरेव व्याकृतयोरपि तत्तादात्म्यमुपपद्यत एवेति कृत्वा तत्कारणभूत आत्मा ते मूर्तामूर्ते अभवदिति श्रुत्योच्यत इति ।
इदं तदित्युक्तमिति ।
यत्त्वया पृष्टं तदिदमिति निर्दिष्टमित्यर्थः । इहेदानीमयं विष्णुमित्र इत्यादिप्रकारेण निरूपितं वस्त्वित्यर्थः ।
विशेषणे इति ।
निरुक्तं मूर्तस्यैवाभेदेन विशेषणम् अनिरुक्तममूर्तस्यैवाभेदेन विशेषणमिति विभागः ।
यथेति ।
यथा सच्छब्दवाच्यं प्रत्यक्षं भूतत्रयं मूर्तस्याभेदेन विशेषणं त्यच्छब्दवाच्यं च परोक्षं भूतद्वयममूर्तस्याभेदेन विशेषणं तथा निरुक्तानिरुक्ते अपीत्यर्थः ।
तथेति ।
निलयनं च तथा निरुक्तवन्मूर्तस्यैव धर्म इति सम्बन्धः ।
धर्म इति ।
तथा च सन्निरुक्तनिलयनानि मूर्तधर्माः, त्यदनिरुक्तानिलयनान्यमूर्तधर्मा इति विभागः कृत इति बोध्यम् ।
ननु त्यदादीनाममूर्तधर्मत्वे सति ब्रह्मधर्मत्वं प्रसज्येत ब्रह्मणोऽप्यमूर्तत्वादिति, नेत्याह –
त्यदनिरुक्तेति ।
व्याकृतेति ।
व्याकृतं कार्यम् , तद्विशेषणान्येव न कारणब्रह्मविशेषणानि, तेषां तद्विशेषणत्वे सर्गात्प्रागपि सत्त्वापत्त्या तदुत्तरकालभावित्वश्रवणविरोधादित्यर्थः ।
व्याकृतविषयत्वमेव विवृणोति –
त्यदितीत्यादिना ।
प्राणो वायुः, आकाशसङ्ग्रहार्थमादिपदम् ।
अत इति ।
त्यदनिरुक्तानिलयनशब्दैरभिहितस्य प्राणादेः कार्यत्वादेतान्यमूर्तस्य विशेषणानि व्याकृतविषयाण्येवेति योजना ।
सत्यं चेति ।
'सत्यं चानृतं च’ इत्यत्र सत्यशब्देन व्यावहारिकसत्यमेवोच्यते ।
न तु परमार्थसत्यमित्यत्र हेतुः –
अधिकारादिति ।
सच्च त्यच्चेत्यादीनां व्यवहारविषयाणामेव विकाराणां प्रकरणादित्यर्थः । किं च ‘सत्यं च’ इत्यत्र परमार्थसत्यग्रहणे परमार्थद्वयं प्रसज्येत, ‘सत्यमभवत्’ इत्यत्रापि परमार्थसत्यस्य गृहीतत्वात् ।
भवत्विति चेत् , तत्राह –
एकमेव हीति ।
परमार्थसत्यस्याद्वितीयत्वं श्रुतिस्मृतिन्यायसहस्रप्रसिद्धमिति द्योतनार्थो हि-शब्दः, अतो न परमार्थद्वये इष्टापत्तिरिति भावः ।
ननु व्यवहारविषयाकाशादिप्रपञ्चस्य कल्पितत्वात्कथं तत्र सत्यशब्दप्रवृत्तिरिति शङ्कां निराकुर्वन्सत्यं च व्यवहारविषयमित्युक्तं विवृणोति –
इह पुनरिति ।
'सत्यं चानृतं च’ इत्यत्रेत्यर्थः । आपेक्षिकं सत्यमुच्यत इति सम्बन्धः ।
किमपेक्षयोदकादिलक्षणस्य सत्यस्यापेक्षिकत्वमित्याकाङ्क्षायामाह –
मृगतृष्णिकादीति ।
'सत्यं चानृतं च’ इत्यत्र व्यावहारिकं वस्तु सत्यशब्दार्थः प्रातिभासिकं वस्त्वनृतशब्दार्थ इति निष्कर्षः ।
किं पुनरिति ।
एतत्प्रत्कृतं निरुक्तादिकं सर्वं किमिति प्रश्ने सत्यमभवदिति प्रतिवचनम् ।
तत्र सत्यं विशिनष्टि –
परमार्थेति ।
इदं च विशेषणं सत्यं चेत्यत्र गृहीतसत्यव्यावृत्त्यर्थमिति प्रागेव व्यक्तम् ।
परमार्थसत्यस्वरूपं प्रश्नपूर्वकं विशिष्य दर्शयति –
किं पुनस्तदित्यादिना ।
यत्सत्यादिशब्दैरुपात्तं यच्चेदं किं चाविशेषितं विशिष्यानुपात्तं तत्सर्वं परमार्थसत्यमभवदिति रीत्या श्रुतौ ‘यदिदं किं च’ इति वाक्यस्य पूर्वेणैकवाक्यता बोध्या ।
इमामेवैकवाक्यतां प्रदर्शयन् ‘तत्सत्यमित्याचक्षते’ इत्यस्योपपत्तिमाह –
यस्मादित्यादिना ।
पूर्वग्रन्थस्य विवक्षितमर्थं दर्शयितुं तत्र वृत्तमनुवदति –
अस्तीत्यादिना ।
इदानीं तत्र विवक्षितं कथयति –
तस्मादिति ।
श्रुत्या ब्रह्मण्यसत्त्वाशङ्कानिराकरणपूर्वकं सत्त्वप्रतिपादनायैव तस्य भोक्तृभोग्यात्मनावस्थानप्रतिपादनादित्यर्थः । अस्य हेतोरस्तीति विजानीयादित्यनेन सम्बन्धः ।
तदेवेति ।
ब्रह्मैवेत्यर्थः ।
इदंशब्दार्थमेवाह –
कार्यस्थमिति ।
कार्यकरणसङ्घाते साक्षितया स्थितमित्यर्थः ।
बुद्धौ विशिष्य तस्योपलब्धिमभिप्रेत्याह –
परम इत्यादिना ।
व्योम्नि या गुहा तस्यामिति सप्तम्योर्वैयधिकरण्यम् । हार्दमेवाकाशं परमं व्योमेति च प्रागेव दर्शितम् ।
मुख्यस्य निधानस्यासम्भवं मनसि निधाय हृदयगुहायां निहितमित्यस्यार्थमाह –
तत्प्रत्ययेति ।
तस्मिन्हृदयगुहाशब्दिते प्रत्यये साक्षिणा प्रतीयमानेऽन्तःकरणे योऽयमात्मचैतन्यस्यावभासमानो विशेषः ‘पश्यन् शृण्वन्’ इत्यादिभाष्येण प्रदर्शितो द्रष्टृत्वादिरूपभेदस्तेन रूपभेदेनोपलभ्यमानं प्रकाशमानं ब्रह्मेत्यर्थः ।
ननु ‘असद्वा इदम् - - ’ इति श्लोको न सर्वान्तरात्मास्तित्वप्रतिपादकः तदस्तित्ववाचिपदाभावात् , प्रत्युत आकाशादिकारणे वस्तुन्यसच्छब्दश्रवणेन तदसत्त्वस्यैव प्रतीतेश्चेत्याशङ्क्य विशिनष्टि –
कार्यद्वारेणेति ।
असतः कार्यकारणत्वासम्भवादसच्छब्दनिर्दिष्टस्यापि कारणस्य सत्त्वं सिध्यतीत्याशयः ॥