प्रवेशपदार्थनिर्णयप्रयोजनकं विचारमारभते –
तत्रैतच्चिन्त्यमित्यादिना ।
कथंशब्दसूचितं विमर्शमेव विवृणोति –
किमिति ।
किं परमात्मा स्वेनैवात्मनानुप्राविशत् , किं वा स्वविकाराद्यात्मनानुप्राविशदित्यर्थः ।
तत्र प्रथमं सिद्धान्तमाह –
किं तावद्युक्तमित्यादिना ।
अन्येनात्मना प्रवेश इति स्वमतमुत्थापयितुं प्रथमं पूर्ववादिसिद्धान्तं निराकरोति –
ननु न युक्तमित्यादिना ।
कार्यस्य बुद्ध्यादेरुत्पत्तिप्रभृतिकारणात्मकत्वात्कारणेन व्याप्तत्वात्कार्यभूतदेहाद्युत्पत्तिव्यतिरेकेण कार्ये देहादौ प्रवेश इत्येतन्न युक्तमित्यर्थः ।
उक्तमेव विवृणोति –
कारणमेव हीति ।
कारणमेव कार्यात्मना परिणतमिति प्रसिद्धमित्यर्थः ।
ततः किम् ? अत आह –
तत इति ।
कारणेन कार्यस्य जन्मप्रभृति व्याप्तत्वादित्यर्थः ।
अप्रविष्टस्येवेति ।
देवदत्तादेरिति शेषः ।
उपादानकारणस्य कार्याकारपरिणतिव्यतिरेकेण कार्ये प्रवेशो नास्तीत्यत्र दृष्टान्तमाह –
न हीति ।
एवं ब्रह्मणस्तेनैवात्मनानुप्रवेश इति सिद्धान्तं निराकृत्यान्येनात्मनानुप्रवेश इति स्वमतं दृष्टान्तेनाह –
यथा घट इत्यादिना ।
पार्थिवानि रजांस्यत्र चूर्णशब्दार्थः । घटोपादानभूताया मृदो मृज्जातीयचूर्णात्मना घटे यथानुप्रवेशः तथा परस्यान्येन जीवेनात्मनानुप्रवेश इह विवक्षित इत्यर्थः ।
अत्रार्थे छन्दोगश्रुतिसंवादमाह –
श्रुत्यन्तराच्चेति ।
सिद्धान्ती निराकरोति –
नैवं युक्तमेकत्वाद्ब्रह्मण इति ।
परमात्मनो जीवेनैक्याच्चूर्णस्य मृदन्यत्ववज्जीवस्य ब्रह्मान्यत्वं नास्ति, तथा च मृदश्चूर्णात्मनेव ब्रह्मणोऽन्येन जीवेनात्मना प्रवेशकल्पनं न युक्तमेवेत्यर्थः । श्रुत्यन्तरेऽपि जीवस्यान्यत्वाश्रवणात् ‘तत्त्वमसि’ इत्यभेदस्यैव श्रवणाच्च अऩ्येनात्मनेति वदतः पूर्ववादिनो न तदप्यनुकूलमिति भावः ।
सङ्ग्रहवाक्यं दृष्टान्तवैशम्योक्तिपूर्वकं विवृणोति –
मृदात्मनस्त्वित्यादिना ।
मृज्जातीयस्य त्वित्यर्थः ।
सावयवत्वाच्चेति ।
सावयवस्य मूर्ततया प्रवेशयोग्यत्वाच्चेत्यर्थः ।
चूर्णस्येति ।
तस्य स्वेनाप्रविष्टदेशवत्त्वाच्चेत्यर्थः ।
एकत्वे सतीति ।
एकत्वादित्यर्थः ।
ननु यदि जीवस्य ब्रह्मानन्यत्वाद्ब्रह्मणश्च स्वतो व्यापकत्वादित्यादियुक्त्या अन्येनात्मना प्रवेशस्त्वया निराक्रियते, तर्हि तवापि कथं प्रवेशनिर्वाहः तेनैवात्मनानुप्रवेशासम्भवस्याप्युक्तत्वादिति मत्वा पूर्ववादी पृच्छति –
कथं तर्हीति ।
मास्तु प्रवेश इति त्वयापि वक्तुं न शक्यत इत्याह –
युक्तश्चेति ।
तस्मादन्येनात्मनानुप्रवेश इति वदता मयैव प्रवेशनिर्वाहः कर्तव्य इति भावः ।
कथमित्याशङ्क्याह पूर्ववादी –
सावयवमेवास्तु तर्हीति ।
यदि ब्रह्मणो निरवयवत्वे प्रवेशायोग्यता तर्हि सावयवमेव ब्रह्मास्तु उपादानत्वान्मृदादिवत् ।
ततश्च प्रवेशोपपत्तिरित्याह –
सावयवत्वादिति ।
यथा शिरःपाण्यादिमतो देवदत्तस्य हस्तादिरवयवः तथा नामरूपशब्दितकार्यप्रपञ्चाकारेण परिणममानस्य ब्रह्मणोऽप्यवयवविशेषो जीवः ; तथा च देवदत्तस्य हस्तात्मना मुखबिले प्रवेशवत्स्वायवभूतजीवात्मना ब्रह्मणः शरीरलक्षणकार्ये प्रवेश उपपद्यत इत्यर्थः ।
उक्तं पूर्ववादिना प्रवेशनिर्वाहं सिद्धान्ती निराकरोति –
नाशून्यत्वादिति ।
प्रवेष्टव्यप्रदेशशून्यत्वाद्ब्रह्मणो नोक्तविधयापि प्रवेशो युक्त इत्यर्थः ।
उक्तमेव विवृणोति –
न हीति ।
कार्यात्मना परिणतस्य ब्रह्मणस्तावन्नामरूपात्मककार्यदेशे प्रवेशो वक्तुं न शक्यते, मृत्कार्यस्य मृदा तदवयवैरिव च ब्रह्मकार्यस्य सर्वस्य ब्रह्मणा तदवयवजीवैश्च जन्मप्रभृत्येव व्याप्तत्वात् , नापि तदतिरेकेणात्मना शून्यः कश्चित्प्रवेशोऽस्ति यं प्रदेशं स्वावयवभूतेन जीवेनात्मना ब्रह्म प्रविशेदित्यर्थः । निष्कलश्रुत्या विरोधेन ब्रह्मणः सावयवत्वसाधकानुमानानुत्थानाच्चेत्यपि दृष्टव्यम् ।
इत्थमन्येनात्मना ब्रह्मणः कार्ये प्रवेश इति वदतः पूर्ववादिनो निरासं श्रुत्वा तदेकदेशी प्रत्यवतिष्ठते –
कारणमेव चेत्प्रविशेदिति ।
नात्र कारणस्य कार्ये प्रवेशः कथ्यते, किं तु कार्यविशेषस्य जीवस्य कारणे, तस्य च परिच्छिन्नत्वात्प्रवेष्टृत्वोपपत्तिरिति चेदित्यर्थः ।
सिद्धान्ती तमपि निराकरोति –
जीवात्मत्वं जह्यादिति ।
यदि जीवः स्वकारणे प्रविशेत्तदा स्वकीयं जीवात्मत्वमेव जह्यात्परित्यजेदित्यर्थः । जीवस्वरूपस्यैव विलयनप्रसङ्गादिति यावत् ।
विकारस्य प्रकृतौ प्रवेशे लय एव स्यादित्यत्रोदाहरणमाह –
यथेति ।
इतश्च न कारणे कार्यस्यानुप्रवेशो युक्त इत्याह –
तदेवेति ।
तच्छब्दोपात्तस्य कार्यस्यैव प्रवेशकर्मत्वश्रवणादित्यर्थः ।
एवं पूर्ववाद्येकदेशिनि निरस्ते पुनः पूर्ववादी प्रकारान्तरेण प्रवेशनिर्वाहकमाशङ्कते –
कार्यान्तरमेव स्यादिति ।
तदेव विवृणोति –
तदेवेति ।
'तदेवानुप्राविशत्’ इत्यत्र नामरूपात्मना परिणतं ब्रह्म जीवात्मरूपं कार्यं सद्देहादिरूपं कार्यान्तरमेवापद्यत इत्ययमर्थो विवक्षितः, ‘स्थूलोऽहम्’ ‘कृशोऽहम्’ इत्यादिरूपेणाहंशब्दार्थस्य जीवस्य शरीराद्यभेदानुभवादनुभवानुसारेण श्रुत्यर्थवर्णनस्य न्याय्यत्वात् , तथा च ब्रह्मणोऽन्येन जीवेनात्मना प्रवेश इति सिद्धमिति भावः ।
सिद्धान्ती निराकरोति –
न, विरोधादिति ।
कार्यान्तरस्य कार्यान्तरस्य कार्यान्तरतापत्तेर्विरुद्धत्वादित्यर्थः ।
अत्रोदाहरणमाह –
नहीति ।
जीवस्य देहादिभावो वास्तव इति पक्षे विरोधान्तरमाह –
व्यतिरेकेति ।
जीवस्यावस्थात्रये बाल्यादिषु चानुवृत्तिरवस्थात्रयस्य बाल्यादीनां च व्यावृत्तिश्चानुभवसिद्धा ; तथा चानुवृत्तिव्यावृत्तिलक्षणाभ्यामन्वयव्यतिरेकाभ्यामेव जीवस्य देहादिभ्यः सकाशाद्यो व्यतिरेकः सिद्धः तदुपोद्बलकतया तं व्यतिरेकमनुवदन्त्यः ‘योऽयं विज्ञानमयः’ इत्याद्याः श्रुतयो विरुध्येरन्नित्यर्थः । अत एव ‘स्थूलोऽहम्’ इत्यादिप्रतीतेरप्रमात्वान्न तदनुसारेण प्रवेशवाक्यार्थकल्पनं युज्यत इति भावः ।
जीवस्य देहादिभावो वास्तव इत्यत्रैव बाधकान्तरमाह –
तदापत्ताविति ।
जीवस्य देहादिलक्षणकार्यान्तरतापत्तावित्यर्थः ।
असम्भवमेव विवृणोति –
न हीति ।
यत इति ।
देहादिलक्षणाद्बन्धादित्यर्थः ।
दृष्टान्तमाह –
न हीति ।
यथा शृङ्खलया बद्धस्य चोरादेर्या शृङ्खलापत्तिर्विद्यते सैव तस्करादेर्न हि मोक्षो भवति तद्वदित्यर्थः ।
ननु यदि जीवस्य देहादिभावापत्तौ व्यतिरेकश्रुतिविरोधः प्रसज्येत तर्हि तदविरुद्ध एव प्रवेशोऽस्त्विति पूर्ववादी प्रत्यवतिष्ठते –
बाह्यान्तर्भेदेनेति ।
एतदेव प्रपञ्चयति –
तदेवेति ।
प्रकृतमाकाशादिकारणं ब्रह्मैव प्रथमं जीवं प्रत्याधारभूतदेहाद्याकारेण परिणमते पश्चाद्देहादावाधारे तदाधेयजीवरूपेण च परिणमते ; तथा च ब्रह्मणो देहाद्याकारेण परिणतिः सृष्टिः जीवरूपेण परिणतिः प्रवेश इति सृष्टिप्रवेशक्रिययोर्भेदः समानकर्तृकत्वं च सिध्यति, ब्रह्मणोऽन्येन जीवेनात्मना प्रवेश इति स्वाभिमतार्थोऽपि सिध्यतीत्यर्थः ।
येयं शरीराद्यन्तर्जीवात्मना परिणतिः सा किं ब्रह्मणो मुख्यप्रवेशत्वेन त्वदभिमता किं वौपचारिकप्रवेशत्वेन ? नाद्य इत्याह –
न ; बहिष्ठेत्यादिना ।
न द्वितीयः, ब्रह्मणः परिणामित्वस्यासम्भवात् । एतच्च ब्रह्मणः परिणामित्वनिराकरणं स्मृतिपादे विस्तरेण कृतमित्याशयेनात्राचार्यैर्न कृतम् । सूचितं चात्रपि सङ्ग्रहेण प्राक् ‘नान्यथा निरवयवस्य ब्रह्मणो बहुत्वापत्तिरुपपद्यते’ इत्यत्र । तस्मादन्येनात्मना ब्रह्मणः प्रवेश इति पूर्ववादिमतमनुपपन्नमेवेति स्थितम् ।
इत्थं पूर्ववादिनं निराकृत्य सिद्धान्ती स्वैकदेशिनमप्युत्थाप्य निराकरोति –
जलसूर्येत्यादिना ।
यथा सूर्यादेर्जलादौ प्रतिबिम्बभावलक्षणः प्रवेशोऽस्ति, तथा बुद्ध्यादौ ब्रह्मणः प्रतिबिम्बभाव एव प्रवेशपदार्थः ‘यथा ह्ययं ज्योतिरात्मा विवस्वान्’ इत्यादिश्रुतिषु ‘आभास एव च’ इत्यादिसूत्रेषु च ब्रह्मणः प्रतिबिम्बभावस्य प्रसिद्धत्वेन तस्यैव प्रवेशपदार्थत्वकल्पने बाधकाभावादित्याशयः ।
अपरिच्छिन्नत्वादिति ।
व्यापकत्वादित्यर्थः ।
अमूर्तत्वाच्चेति ।
मूर्तिरवयवसंस्थानविशेषः, तद्रहितत्वात् , निरवयवद्रव्यत्वादिति यावत् ।
व्यापकत्वे हेतुं पूर्ववाक्येनाह –
आकाशादीति ।
ननु निरवयवत्वव्यापकत्वादिना प्रसिद्धस्य गगनस्य मेघालोकाद्यवच्छेदेन जलादौ प्रतिबिम्बोदयदर्शनादात्मनोऽपि तथा किं न स्यादित्याशङ्क्याह –
तद्विप्रकृष्टेति ।
लोके बिम्बसूर्याद्यपेक्षया विप्रकृष्टदेशवद्रूपवच्च प्रतिबिम्बबोदययोग्यं जलादिकं यथास्ति, न तथा ब्रह्मणः प्रतिबिम्बाधारवस्त्वस्ति, बुद्ध्यादेर्व्यापकात्मापेक्षया विप्रकृष्टदेशत्वाभावात् उद्भूतरूपरहितत्वाच्चेत्यर्थः । अत एव पूर्वोदाहृतश्रुतिसूत्राणामनयैव रीत्या प्रतिबिम्बभावपरत्वं निरस्यार्थान्तरे तात्पर्यम् ‘वृद्धिह्रासभाक्त्वम्’ इति सूत्रतद्भाष्ययोर्महता प्रपञ्चेन प्रतिपादितमिति न तद्विरोध इति भावः ।
प्रतिबिम्बभावलक्षणस्य प्रवेशस्य निराकरणे प्रवेशवाक्यं निर्विषयं स्यादिति सिद्धान्त्येकदेश्याह –
एवं तर्हीति ।
प्रकारान्तरेण प्रवेशवाक्यस्य विषयमाशङ्क्य प्रकारान्तराणां निरस्तत्वादित्याशयेनाह –
न चेति ।
प्रवेशवाक्यस्य निर्विषयत्वमयुक्तं श्रुतिवाक्यत्वादित्याह –
तदेवेति ।
प्रवेशादेरतीन्द्रियत्वेन तत्राज्ञाते श्रुतिप्रामाण्यस्यावाभ्यां स्वीकृतत्वाच्चेत्याह –
श्रुतिश्चेति ।
तर्ह्यस्तु प्रवेशवाक्यादतीन्द्रियार्थबोध इत्याशङ्क्याह –
न चास्मादिति ।
प्रतिबिम्बभावानुपगमे सत्येतद्वाक्यार्थबोधे यत्नवतामप्यस्माकमस्माद्वाक्यादर्थज्ञानं न चोत्पद्यते, तस्मात्प्रतिबिम्बभावनिराकरणे प्रवेशवाक्यं निर्विषयं स्यादित्यर्थः ।
एवमेकदेशिना प्रवेशवाक्यस्य निर्विषयत्वापादने कृते तच्छ्रुत्वा तटस्थ आह –
हन्त तर्हीति ।
इदानीं सिद्धान्ती प्रवेशवाक्यस्य निर्विषयत्वादिकमपाकरोति –
न, अन्यार्थत्वादिति ।
प्राङ् निराकृतेभ्योऽर्थेभ्यः सकाशादन्यस्य प्रकरणाविरुद्धस्य प्रकरणापेक्षितस्य चार्थस्य सत्त्वान्न वाक्यस्य निर्विषयत्वप्रसङ्गो न वापोह्यतेत्यर्थः ।
सङ्ग्रहवाक्यं विवृणोति –
किमर्थमिति ।
वाक्यस्य निर्विषयत्वाद्यापादनमस्थाने न युक्तम् , अत इदं किमर्थं क्रियत इत्यर्थः ।
निर्विषयत्वाद्यापादनस्यायुक्तत्वे हेतुमाह –
प्रकृतो हीति ।
हि-शब्दो हेत्वर्थः । प्रकृतस्यात्र स्मर्तुं योग्यस्यार्थान्तरस्य सत्त्वादित्यर्थः ।
कोऽसौ प्रकृतोऽर्थ इत्याकाङ्क्षायां तं दर्शयति –
ब्रह्मविदिति ।
'ब्रह्मविदाप्नोति...’ इति सूत्रे ‘सत्यं ज्ञानम्...’ इति मन्त्रे च तस्य ब्रह्मणः प्रत्यक्त्वेन विज्ञानं प्रकृतम् , न केवलं प्रकृतं विवक्षितं च तत् । ‘अहं ब्रह्म’ इति ज्ञानस्यैव परप्राप्तिसाधनत्वादित्यर्थः ।
एवं सूत्रमन्त्रयोः प्रकृतस्य ब्रह्मावगमस्य प्रवेशवाक्यपर्यन्तमनुवृत्तिमाह –
ब्रह्मस्वरूपेत्यादिना ।
ब्रह्मावगमश्चेति ।
'आत्मन आकाशः सम्भूतः’ इत्यादिवाक्ये यतो ब्रह्मस्वरूपावगमायैव शरीरान्तं कार्यं प्रदर्शितम् अतस्तद्वाक्येऽपि ब्रह्मावगम आरब्धोऽनुवृत्त इत्यर्थः ।
एवं सृष्टिवाक्येऽनुवृत्तस्य च तस्य विज्ञानमयवाक्येऽनुवृत्तिमाह –
तत्रान्नमयादिति ।
कोशवाक्येषु मध्य इति तत्रशब्दार्थः । स्थूलसूक्ष्मक्रमेण कोशानामान्तरत्वोपदेशस्य सर्वान्तरब्रह्मप्रतिपत्तिशेषत्वाद्विज्ञानशब्दलक्षितायां बुद्धिगुहायां ब्रह्मावगमस्यानुवृत्तिर्युक्ता । अत्र प्रवेशवाक्यपर्यन्तमनुवृत्तिकथनावसरे प्राणमये प्रवेशितो मनोमये प्रवेशित इत्यनुक्त्वा विज्ञानमयपर्याये प्रवेशित इत्युक्तेः कोऽभिप्राय इत्याकाङ्क्षायां तमभिप्रायं गुहाशब्दप्रयोगेण सूचयति । एतदुक्तं भवति - ‘यो वेद निहितं गुहायां परमे व्योमन्’ इत्यत्र हार्दाकाशनिष्ठा गुहा केत्याकाङ्क्षायां सा गुहा विज्ञानमयपर्याये बुद्धिरूपेण निरूप्यते, अतो बुद्धौ निहितत्वेन ब्रह्मणोऽवगमः सम्पादनीय इति गुहानिहितवाक्यतात्पर्यसूचनार्थं विज्ञानगुहायां प्रवेशित इत्युक्तिरिति ।
नन्वेवमानन्दमयस्य मुख्यात्मत्वं सिध्येत् ‘अन्योऽन्तर आत्मानन्दमयः’ इति वाक्येन तस्यैव बुद्धिगुहास्थत्वाभिधानादित्याशङ्क्याह –
तत्रेति ।
प्रियादिविशिष्ट एवात्मा तत्र प्रवेशितः न शुद्धचिद्धातुः विशिष्टश्चामुख्य आत्मेत्युक्तमित्यर्थः ।
कथं तर्हि बुद्धिगुहानिहितत्वेन शुद्धब्रह्मावगमसिद्धिरित्याशङ्क्याह –
ततः परमिति ।
आनन्दमयाधिगमानन्तरमित्यर्थः ।
नन्वानन्दयमाधिगमस्यानन्तर्योक्तिसिद्धविशुद्धब्रह्माधिगमोपायत्वं कथमित्यत आह –
आनन्दमयलिङ्गेति ।
आनन्दमय एव विशिष्टोऽर्थो विशेष्यस्य शुद्धचिद्धातोर्लिङ्गम् , विशिष्टस्य विशेष्याव्यभिचारित्वदर्शनात् ।
आनन्देति ।
आनन्दवृद्धेर्वक्ष्यमाणाया अवसानः अवधिभूतः, निरतिशयानन्दरूप इत्यर्थः ।
प्रतिष्ठाशब्दार्थमाह –
सर्वविकल्पेति ।
सर्वकल्पनाधिष्ठानत्वादेव वस्तुतो निर्विशेषत्वमाह – –
निर्विकल्प इति ।
तथा च आनन्दमयरूपलिङ्गाधिगमद्वारेणानन्दवृद्ध्यवसानभूत आत्मा यथोक्तोऽस्यामेवानन्दमयगुहायामेवाधिगन्तव्य इत्यभिप्रेत्य बुद्धौ द्रष्टृत्वादिरूपेणोपलब्धिरेव तस्य ब्रह्मणः प्रवेशत्वेन प्रवेशवाक्ये कल्प्यते गौण्या वृत्त्योपचर्यत इत्यर्थः । तथा च वक्ष्यति – तदनुप्रविष्टमिवान्तर्गुहायां बुद्धौ द्रष्टृ श्रोतृ मन्तृ विज्ञातृ इत्येवं विशेषवदुपलभ्यते तदेव तस्य प्रवेश इति ।
बुद्धावेव प्रवेशकल्पने हेतुमाह –
न ह्यन्यत्रेति ।
बुद्धेः सकाशादन्यत्र ब्रह्मचैतन्यस्यानुपलम्भादित्यर्थः ।
तत्र हेतुमाह –
निर्विशेषत्वादिति ।
व्यञ्जकपदार्थरूपो यो विशेषस्तत्सम्बन्धरहितत्वादित्यर्थः ।
बुद्धिसम्बन्धस्य ब्रह्मोपलब्धिहेतुत्वं सदृष्टान्तमाह –
विशेषसम्बन्धो हीति ।
व्यञ्जकपदार्थो विशेषपदस्यार्थः ।
ननु बुद्धावेव ब्रह्मचैतन्यस्योपलब्धिरिति न नियमः, घटः स्फुरति पटः स्फुरतीत्यादिप्रकारेण बुद्धेरन्यत्रापि तस्योपलब्धिदर्शनादित्याशङ्क्याह –
संनिकर्षादिति ।
वृत्तिद्वारा बुद्धिसम्बन्धादेव तत्राप्युपलब्धिरित्यर्थः ।
बुद्धेश्चैतन्यव्यञ्जकत्वे युक्तिमाह –
अवभासात्मकत्वाच्चेति ।
प्रकाशात्मकत्वादित्यर्थः । अन्तःकरणस्य प्रकाशात्मकत्वमालोकादेरिव स्वाभाविकमेव, न तु तप्तायःपिण्डादेरिवान्यकृतमिति सूचनार्थश्चकारः ।
बुद्धिवृत्तेर्घटादिषु चैतन्यव्यञ्जकत्वं सदृष्टान्तमाह –
यथा चेति ।
आदिपदं नीलपीतादिसङ्ग्रहार्थम् । यथा नीलपीताद्युपलब्धिरालोकसम्बन्धकृता तथा विषयेष्वात्मनः स्फुरणरूपेणोपलब्धिरन्तःकरणवृत्तिलक्षणालोकसम्बन्धप्रयुक्तेत्यर्थः ।
एवमन्वयव्यतिरेकाभ्यां बुद्धेरेव ब्रह्मोपलब्धिसाधनत्वमिति प्रसाध्य प्रकृतमुपसंहरति –
तस्मादिति ।
मन्त्रे यद्गुहायां निहितमिति गुहानिहितत्वं प्रकृतं तदेव प्राविशदित्यनेन पुनरुच्यत इत्यर्थः ।
तर्हि पौनरुक्त्यं स्यादिति शङ्कां वारयति –
वृत्तिस्थानीय इति ।
वृत्तिर्व्याख्या । तथा च व्याख्यानव्याख्येयभावापन्नयोर्गुहानिहितप्रवेशवाक्ययोर्न पौनरुक्त्यदोष इति भावः ॥