उत्तरग्रन्थेऽप्यव्यवहितस्य ‘सोऽकामयत’ इत्यादेरवान्तरतात्पर्यमाह –
तत्रास्तित्वमेवेति ।
तावच्छब्दः प्राथम्यार्थः ।
ननु ‘ब्रह्मविदाप्नोति परम् ‘ इति सूत्रस्य सङ्क्षेपतो व्याख्यानरूपेण ‘सत्यं ज्ञानम् - ‘ इति मन्त्रेण सह सूत्रं प्रति विस्तरतो व्याख्यानरूपस्यास्य ग्रन्थस्य समानार्थताया वक्तव्यत्वात्केनांशेन मन्त्रस्य ‘सोऽकामयत’ इत्यादिब्राह्मणस्य च विवरणविवरणिभावेन समानार्थत्वमिति जिज्ञासायां तद्दर्शयितुमनुवदति –
यच्चोक्तमिति ।
तत्रेति ।
तत्र मन्त्रे सङ्ग्रहेणोक्तं सत्यत्वं कथमित्याकाङ्क्षायामेतद्विस्तरेण वक्तव्यमित्यर्थः ।
ननु ब्रह्मण्यसत्त्वशङ्कानिवृत्तिपरे ग्रन्थे सत्त्वमेवोच्यते न सत्यत्वमित्याशङ्क्य सत्सत्यशब्दयोः पर्यायत्वमुक्तं स्मारयति –
उक्तं हीति ।
हि-शब्दस्तयोः पर्यायत्वप्रसिद्धिद्योतकः ; तथा च सत्त्वसत्यत्वयोरेकत्वान्नोक्तशङ्कावकाश इत्याशयेनाह –
तस्मादिति ।
एवमर्थतेति ।
सत्त्वसाधनपरतेत्यर्थः ।
शब्दानुगमादिति परिहारं विवृणोति –
अनेनैवेति ।
सत्त्वलक्षणेनैवार्थेन, न तु विद्वदविदुषोर्ब्रह्मप्राप्त्यप्राप्तिलक्षणेनेत्यर्थः । इत्थं तात्पर्यमुपवर्ण्याक्षराणि व्याचिख्यासुरुत्तरग्रन्थव्यावर्त्यं पूर्वपक्षमुद्भावयति ।
तत्रासदेवेति ।
पूर्वोक्तसंशये सतीत्यर्थः ।
विशेषत इति ।
व्यवहारगोचरत्वेनेत्यर्थः ।
'इदं सर्वमसृजत, यदिदं किं च’ इति श्रुत्युक्तं ब्रह्मणो जगत्कारणत्वमवलम्ब्य शङ्कां निराकरोति –
तन्नेति ।
तन्नेति प्रतिज्ञां विवृणोति –
न नास्ति ब्रह्मेति ।
आकाङ्क्षापूर्वकं हेतुं विवृणोति –
कस्मादित्यादिना ।
कस्मादित्यनन्तरमाकाशादिकारणत्वादिति शेषः ।
हेतुं साधयति –
आकाशादि हीति ।
कार्यत्वेनाभिमतमाकाशादिकं सर्वं ब्रह्मणः सकाशाज्जातत्वेन ‘इदं सर्वमसृजत’ इति श्रुत्या गृह्यते, अतो ब्रह्मणि नाकाशादिकारणत्वहेतोरसिद्धिरित्यर्थः । आकाशादेर्ब्रह्मकार्यत्वे श्रुत्यन्तरप्रसिद्धिसूचनार्थो हि-शब्दः ।
इदानीं व्याप्तिमाह –
यस्माच्चेति ।
च-शब्दोऽवधारणार्थः सन्नस्तीत्यनेन सम्बध्यते । लोके किञ्चिद्यस्माज्जायते तदस्त्येवेति दृष्टमित्यर्थः । यद्भावकार्यं तत्सदुपादानकमिति व्याप्तिनिष्कर्षः ।
निगमयति –
तस्मादिति ।
उक्तव्याप्तिबलादित्यर्थः ; अत्र विमतं जगत्सदुपादानकं कार्यत्वात्संमतवदिति सृष्टिश्रुत्यभिमतानुमाननिष्कर्षः । तच्च जगदुपादानभूतं सद्ब्रह्मैव तदतिरिक्तस्य सर्वस्य कल्पिततायाः प्रागेव तत्र तत्र साधितत्वात् ; तथा च न ब्रह्मण्यसत्त्वशङ्केति भावः ।
नन्वस्तु ब्रह्मण आकाशादिकारणत्वं मास्तु सत्त्वमित्यप्रयोजकत्वशङ्कां निराचष्टे –
न चासत इति ।
ननु लोके कार्यस्यासज्जन्यत्वाग्रहेऽपि सर्गाद्यकार्यमसदुपादानकमेवास्तु ; नेत्याह –
असतश्चेदिति ।
कार्यमित्यनन्तरं जायेतेति शेषः । कार्यस्य ह्युपादानमात्मा सत्ताप्रदमिति यावत् ; तथा च असत उपादानत्वे नामरूपकर्मात्मकस्य जगतो निरात्मकत्वात्सत्ताहीनत्वात्सत्त्वेन रूपेण जगन्नोपलभ्येतेत्यर्थः ।
तर्कस्य विपर्यये पर्यवसानमाह –
उपलभ्यते त्विति ।
'सन्घटः’ ‘सन्पटः’ इत्येवं सत्त्वेनैव जगदुपलभ्यत इत्यर्थः ।
फलितमाह –
तस्मादिति ।
हेतोरप्रयोजकत्वासम्भवादित्यर्थः । यद्वा कारणत्वादित्यर्थः ।
विपक्षे बाधकान्तरप्रदर्शनपूर्वकं पुनस्तदस्तित्वमुपसंहरति –
असतश्चेत्कार्यमित्यादिना ।
असत उपादानभूतात्कार्यं जगज्जायेत चेत्तर्हि यथा जायमानं जगदसदन्वितं जायते तथा गृह्यमाणमप्यसदन्वितत्वेनैव गृह्येतासज्जगदिति, यथा मृद्विकारजातं मृदन्वितत्वेनैव गृह्यते तद्वत् ; न चैवं गृह्यते जगत् , तस्माज्जगति सदुपादानकत्वानुमानस्याप्रयोजकत्वाभावात्कारणं ब्रह्मास्तीत्यर्थः ।
न्यायत इति ।
असदन्वयादर्शनादियुक्तित इत्यर्थः ।
तस्मादिति ।
श्रुत्यन्तरबलादपीत्यर्थः ।
मान्त्रवर्णिकसत्यत्वविवरणवन्मान्त्रवर्णिकचेतनत्वविवकरणमप्यत्र कामयितृत्ववचनेन क्रियत इत्याशयेन तद्वचनाभिप्रायं शङ्कापूर्वकं कथयति –
तद्यदीत्यादिना ।
तद्ब्रह्म ।
ननु कामस्याचेतनधर्मतायाः श्रुतिस्मृतिसिद्धत्वात्कथं कामेन ब्रह्मणोऽचेतनत्वव्यावृत्तिर्लभ्यत इत्याशङ्क्य लौकिकव्याप्तिबलेनेत्याशयेनाह –
न हीति ।
यद्वा प्रसङ्गात्साङ्ख्यशङ्कामुद्भाव्य कामश्रुत्या निराकरोति –
तद्यदीत्यादिना ।
तदाह सूत्रकारः - ‘कामाच्च नानुमानापेक्षा’ इति । अनुमानशब्दितं प्रधानं कारणत्वेन नापेक्षितव्यं कारणस्य ‘सत्यं ज्ञानम् - ‘ इति चिद्रूपत्वश्रवणात्कामयितृत्वश्रवणाच्चेति तदर्थः ।
मन्त्रेऽपि सङ्ग्रहेण ब्रह्मणश्चेतनत्वमुक्तमित्याह –
सर्वज्ञमिति ।
अवोचामेति ।
मन्त्रगतज्ञानपदविवेचनावसर इत्यर्थः ।
यद्वा कामयितृत्ववचनादिना ब्रह्मणश्चेतनत्वसिद्धावपि सृष्टेः पूर्वं शरीराद्यभावेन ज्ञानासम्भवात्सृष्ट्यनुकूलकामानुपपत्तिरित्याशङ्क्याह –
सर्वज्ञमिति ।
'पश्यत्यचक्षुः’ इत्यादिश्रुत्या परमेश्वरज्ञानस्य चैतन्यरूपस्य मायावृत्तिरूपस्य वा करणाद्यनपेक्षत्वश्रवणान्नोक्तशङ्कावकाश इति भावः ।
अत इति ।
चेतनत्वात्सर्वज्ञत्वाद्वेत्यर्थः ।
ब्रह्मणः कामयितृत्वे तस्याप्तकामत्वश्रुतिविरोधमाशङ्कते –
कामयितृत्वादिति ।
अनाप्तकामत्वे कामयितृत्वं न प्रयोजकम् आप्तकामानामपि ब्रह्मविदां परानुग्रहार्थं विद्यासम्प्रदायप्रवर्तनादौ कामयितृत्वदर्शनात् ; किं तु कामवश्यत्वम् , तच्च ब्रह्मणो नास्ति, अतो नाप्तकामत्वश्रुत्या सह कामयितृत्वश्रुतेर्विरोध इति परिहरति –
न ; स्वातन्त्र्यादिति ।
ब्रह्मणः कामेषु स्वातन्त्र्यमस्मदादिकामवैलक्षण्योक्तिपूर्वकं प्रपञ्चयति –
यथान्यानित्यादिना ।
ननु ब्रह्मकामा दोषरूपा ब्रह्मप्रवर्तकाश्च न भवन्ति चेत्तर्हि ते कथम्भूता यतस्तैर्ब्रह्म न प्रवर्त्यत इति पृच्छति –
कथं तर्हीति ।
विशुद्धा इत्युत्तरम् ।
ब्रह्मकामानां विशुद्धत्वे ब्रह्मैवोपमानमित्याशयेनाह –
सत्यज्ञानलक्षणा इति ।
'सत्यं ज्ञानम्’ इति मन्त्रोक्तब्रह्मण इव लक्षणं दोषरहितं स्वरूपं येषां ते यथोक्ताः ।
तेषां विशुद्धत्वे हेतुमाह –
स्वात्मभूतत्वादिति ।
स्वस्य ब्रह्मण आत्मभूता या माया तत्त्वात् तत्परिणामत्वादिति यावत् । आत्मभूतत्वं च मायायास्तादात्म्यापन्नत्वमुपाधित्वं वा । एतदुक्तं भवति – ब्रह्मोपाधिभूतमायाया विशुद्धत्वात्तत्परिणामरूपाणां कामानां विशुद्धत्वं मायाया ब्रह्मवश्यत्वात्कामानामपि तद्वश्यत्वं चेति ।
ननु तर्हि ब्रह्मणः कामाः पुण्यकारिणामप्यनिष्टफलप्राप्त्यनुकूलाः स्युः स्वातन्त्र्यादित्याशङ्क्याह –
तेषां त्विति ।
तु-शब्दोऽवधारणार्थः । तद्ब्रह्म प्राणिकर्मापेक्षयैव प्राणिकर्मफलप्रदानां स्वकामानां प्रवर्तकं न प्राणिकर्मानपेक्षया, यथा सेवकानां कर्मापेक्षया राजा स्वकामानां सेवकफलप्रदानां प्रवर्तकस्तथेत्यर्थः ।
एतेन ब्रह्मणः स्वकामेषु सापेक्षत्वे कथं स्वातन्त्र्यमिति शङ्कापि निरस्ता, लोके सेवापेक्षस्यापि राज्ञः स्वातन्त्र्यप्रसिद्धिदर्शनेन ब्रह्मणोऽपि ‘सर्वेश्वरः’ इत्यादिश्रुतिसिद्धस्वातन्त्र्योपपत्तेरित्याशयेनाह –
तस्मादिति ।
कामानां विशुद्धत्वादित्यर्थः ।
अत इति ।
स्वातन्त्र्यादित्यर्थः ।
साधनान्तरेति ।
ब्रह्मणः स्वकामेषु स्वकीयसाधनान्तरानपेक्षत्वाच्च नानाप्तकामं ब्रह्मेति प्रतिपत्तव्यमित्यर्थः ।
साधनान्तरानपेक्षत्वमेव व्यतिरेकोदाहरणेन प्रपञ्चयति –
किं चेत्यादिना ।
अनात्मभूता इति ।
अस्वाधीना इत्यर्थः । यद्वा दोषरूपा इत्यर्थः । अथ वा आत्मव्यतिरिक्तसाधनोद्भूता इत्यर्थः ।
अस्मिन्पक्षेऽस्यैव विवरणम् –
धर्मादीत्यादि ।
कामानां साधनापेक्षत्वे हि साधनविलम्बात्कामितार्थालाभप्रसक्त्या ब्रह्मणोऽनाप्तकामत्वं स्यात् , साधनान्तरानपेक्षत्वे तु नायं दोष इति भावः । कार्यं स्थूलशरीरम् , कारणं लिङ्गशरीरम् , स्वात्मव्यतिरिक्तानि कार्यकारणान्येव स्वात्मापेक्षया साधनान्तराणीत्यर्थः ।
न तथा ब्रह्मण इति ।
कामानामिति शेषः ।
किं तर्हीति ।
यदि ब्रह्मणः कामाः स्वात्मव्यतिरिक्तसाधनापेक्षा न भवन्ति तर्हि किं तेषां साधनमित्यर्थः ।
उत्तरमाह –
स्वात्मनोऽनन्या इति ।
स्वात्ममात्रसाध्या ब्रह्मणः कामा इत्यर्थः ।
तदेतदिति ।
तद्विशुद्धत्वेन निरूपितमेतत्स्वात्ममात्रसाध्यत्वेन च निरूपितं कामानां स्वरूपमभिप्रेत्य ब्रह्मणः कामयितृत्वमाह श्रुतिरित्यर्थः ।
प्रकृते ब्रह्मणि स इति पुंलिङ्गनिर्धेशो न संनिहितब्रह्मपदापेक्षः, किं तु ‘आत्मन आकाशः सम्भूतः’ इत्यादौ व्यवहितात्मपदापेक्ष इत्याशयेनाह –
स आत्मेति ।
कामनाप्रकारं प्रश्नपूर्वकं दर्शयति –
कथमित्यादिना ।
एकस्य बहुभवनं विरुद्धमिति शङ्कते –
कथमेकस्येति ।
नन्वेकस्यापि मृद्वस्तुनो विकारात्मना बहुभवनं दृष्टमित्याशङ्क्याह –
अर्थान्तराननुप्रवेश इति ।
यद्यप्यर्थान्तरानुप्रवेशाभावे सत्येकस्य बहुत्वं विरुद्धं तथापि प्रकृते न बहुभवनस्यानुपपत्तिः अर्थान्तरानुप्रवेशेनैव बहुत्वस्य विवक्षितत्वादिति परिहरति –
उच्यत इति ।
उत्पद्येयेति ।
पूर्वसिद्धस्य ब्रह्मणः स्वत उत्पत्त्ययोगादाकाशाद्यर्थान्तरानुप्रवेशेनैवोत्पत्तिर्विवक्षिता वाच्या, अतः प्रजायेयेत्येतदर्थान्तरानुप्रवेशेन बहुभवनस्योपपादकमिति भावः ।
ननु पितुरर्थान्तरभूतैः पुत्रादिभिर्यथा तस्य बहुभवनं तथा किं ब्रह्मणोऽर्थान्तरभूतैराकाशादिविकारैर्बहुभवनं विवक्षितम् ? नेत्याह –
न हीति ।
अर्थान्तरपदं भिन्नसत्ताकवस्तुपरम् , तत्प्रयुक्तस्य बहुभवनस्यामुख्यत्वेन प्रकृते तद्ग्रहणे हेत्वभावादिति भावः ।
नन्वसङ्गस्वभावस्य ब्रह्मण आकाशादिविकारतादात्म्यमादायापि बहुभवनं न सम्भवतीत्यभिप्रायेण शङ्कते –
कथं तर्हीति ।
वस्तुतस्तदसम्भवेऽपि काल्पनिकं तादात्म्यमादाय तदुपपद्यत इत्याशयेन परिहरति –
आत्मस्थेति ।
आत्मनि स्थिते अनभिव्यक्ते ये नामरूपे तयोः सर्गादावभिव्यक्त्या आभिमुख्येन तादात्म्येन व्यक्त्या स्थूलीभावापत्त्या नामरूपाधिष्ठानभूतस्यात्मनो बहुभवनमित्यर्थः ।
उक्तं विवृणोति –
यदेति ।
आत्मस्वरूपापरित्यागेनैवेति ।
कारणभूतात्मतादात्म्येनैव, न ततो भेदेनेत्यर्थः ।
तमेवापरित्यागं विवृणोति –
ब्रह्मणोऽप्रविभक्तेति ।
ब्रह्मणः सकाशादप्रविभक्तौ प्रविभागरहितौ देशकालौ ययोरिति विग्रहः । तन्मात्रावस्था स्थूलभूतावस्था अण्डावस्था तदन्तर्वर्तिविकारावस्था चेत्येताः कार्यगता अवस्थाः सर्वावस्थाशब्देनोच्यन्ते ।
नान्यथेति ।
अन्यथा विविधपरिणामिविकारतया बहुत्वापत्तिर्नोपपद्यत इत्यत्र हेतुं सूचयति –
निरवयवस्येति ।
लोके सावयवस्यैव मृदादेः परिणामित्वदर्शनादिति भावः । अल्पत्वं वेति दृष्टान्तार्थम् ।
एवं परिणामितया बहुत्वादिकं निरस्य नामरूपोपाधिकृतमेव ब्रह्मणस्तदित्यत्र दृष्टान्तमाह –
यथेति ।
वस्त्वन्तरकृतमिति ।
घटाद्युपाधिकृतमित्यर्थः । इदं च ब्रह्मणो नानाजीवभावेन बहुभवने उदाहरणमिति बोध्यम् । जगदात्मना बहुभवने तु रज्ज्वादेः सर्वदण्डधारादिभावेन बहुभवनमुदाहर्तव्यम् ।
अतस्तद्द्वारेणैवेति ।
परिणामितया बहुत्वासम्भवात्स्वाध्यस्तनामरूपद्वारेणैवात्मा बहुत्वमापद्यत इत्यर्थः ।
नामरूपयोरप्रविभक्तदेशकालत्वं साधयति –
न हीति ।
अन्यदित्यस्य विवरणमनात्मभूतमिति । यत्सूक्ष्मं व्यवहितं विप्रकृष्टं भूतवर्तमानभविष्यदादिरूपं वात्मनोऽन्यज्जगद्वस्तु तत्तस्माद्ब्रह्मणः सकाशात्प्रविभक्तदेशकालं यथा भवति तथा न हि विद्यत इति योजना । कल्पितस्य जगतोऽधिष्ठानब्रह्मतादात्म्यशून्यतयावस्थानायोगादिति भावः ।
नामरूपयोर्ब्रह्मणि कल्पितत्वे स्थिते फलितमाह –
अत इति ।
ब्रह्मणैवात्मवती इति ।
ब्रह्मसत्तयैव सत्तावती इत्यर्थः । न स्वतः सत्तावती इत्येवकारार्थः ।
वैपरीत्यं निषेधति –
न ब्रह्मेति ।
स्वप्रकाशस्य ब्रह्मणो नामरूपात्मके जगत्यध्यस्तत्वेन तत्सत्तया सत्तावत्त्वे स्वीकृते सति जगदान्ध्यं प्रसज्येत, जगतः स्वतः प्रकाशात्मकत्वाभावादध्यस्तस्य जडत्वनियमेन ब्रह्मणोऽपि स्वप्रकाशत्वासम्भवाच्च ; तस्माद्ब्रह्म नामरूपसत्तया सत्तावन्न भवतीत्यर्थः ।
ब्रह्मणैवात्मवती इत्युक्तं सहेतुकं विवृणोति –
ते तदिति ।
तत्प्रत्याख्याने ब्रह्मप्रत्याख्याने, ब्रह्मसत्तां विनेति यावत् , ते नामरूपे न स्त एवेति कृत्वा ते तदात्मके ब्रह्मात्मके उच्येते इत्यर्थः ।
ब्रह्मणो नामरूपोपाधिकबहुभवनं कीदृशमित्याकाङ्क्षायामाह –
ताभ्यां चेति ।
ताभ्यामेव न स्वत इत्यर्थः । तत्रायं विभागः – बुद्ध्युपाधिकं ब्रह्म ज्ञातृव्यवहारभाक् बुद्धिवृत्त्युपाधिकं ब्रह्म ज्ञानमिति व्यवहारभाक् , विषयोपाधिकं ब्रह्म ज्ञेयव्यवहारभाक् , नामोपाधिकं ब्रह्म शब्दव्यवहारभाक् , सामान्यतो जडोपाधिकं ब्रह्मार्थव्यवहारभागिति । आदिपदं कर्मादिसङ्ग्रहार्थम् । एवं सर्वव्यवहारभाग्ब्रह्मेत्यर्थः । श्रुत्यन्तरे मयट् स्वार्थिक इति भावः ।
इतरस्य कायक्लेशादिरूपस्य तमसः सम्भव एव नास्तीत्यत्र हेत्वन्तरमाह –
आप्तकामत्वाच्चेति ।
इदमुपलक्षणम् ; प्राक्सृष्टेर्ब्रह्मणः कायाभावाच्चेत्यपि द्रष्टव्यम् । आलोचनमित्यनेन ‘तप आलोचने’ इति वैयाकरणप्रसिद्धिरपि प्रकृते तपो ज्ञानमित्यत्र हेतुरिति सूचितं भवति ।
सृज्यमानजगद्वैचित्र्ये निमित्तं सूचयति –
प्राणिकर्मादीति ।
उपासनादिलक्षणं श्रुतमादिपदार्थः, ‘यथाकर्म यथाश्रुतम् ‘ इति श्रुतेः ।
आनुरूप्यमेव विवृणोति –
देशत इत्यादिना ।
सर्वावस्थैरिति ।
देवत्वमनष्यत्वतिर्यक्त्वाद्यवस्थैरित्यर्थः । यत्किं चेदमवशिष्टं जगत् तत्सर्वं सृष्टवानिति योजना । ‘तत्सृष्ट्वा तदेवानुप्राविशत् , तदनुप्रविश्य’ इत्येषु वाक्येषु तच्छब्दा जगत्पराः ॥