तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेन न्ततो विदुरिति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । अथातोऽनुप्रश्नाः । उताविद्वानमुं लोकं प्रेत्य । कश्चन गच्छती ३ । आहो विद्वानमुं लोकं प्रेत्य । कश्चित्समश्नुता ३ उ । सोऽकामयत । बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इदं सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा । तदेवानुप्राविशत् । तदनुप्रविश्य । सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् । यदिदं किञ्च । तत्सत्यमित्याचक्षते । तदप्येष श्लोको भवति ॥ १ ॥
देवेदमाकाशादिकारणं कार्यं सृष्ट्वा तदनुप्रविष्टमिवान्तर्गुहायां बुद्धौ द्रष्टृ श्रोतृ मन्तृ विज्ञात्रित्येवं विशेषवदुपलभ्यते । स एव तस्य प्रवेशः ; तस्मादस्ति तत्कारणं ब्रह्म । अतः अस्तित्वादस्तीत्येवोपलब्धव्यं तत् । तत् कार्यमनुप्रविश्य ; किम् ? सच्च मूर्तं त्यच्च अमूर्तम् अभवत् । मूर्तामूर्ते ह्यव्याकृतनामरूपे आत्मस्थे अन्तर्गतेन आत्मना व्याक्रियेते मूर्तामूर्तशब्दवाच्ये । ते आत्मना त्वप्रविभक्तदेशकाले इति कृत्वा आत्मा ते अभवदित्युच्यते । किं च, निरुक्तं चानिरुक्तं च, निरुक्तं नाम निष्कृष्य समानासमानजातीयेभ्यः देशकालविशिष्टतया इदं तदित्युक्तम् ; अनिरुक्तं तद्विपरीतम् ; निरुक्तानिरुक्ते अपि मूर्तामूर्तयोरेव विशेषणे । यथा सच्च त्यच्च प्रत्यक्षपरोक्षे, तथा निलयनं चानिलयनं च । निलयनं नीडम् आश्रयः मूर्तस्यैव धर्मः ; अनिलयनं तद्विपरीतम् अमूर्तस्यैव धर्मः । त्यदनिरुक्तानिलयनानि अमूर्तधर्मत्वेऽपि व्याकृतविषयाण्येव, सर्गोत्तरकालभावश्रवणात् । त्यदिति प्राणाद्यनिरुक्तं तदेवानिलयनं च । अतो विशेषणानि अमूर्तस्य व्याकृतविषयाण्येवैतानि । विज्ञानं चेतनम् ; अविज्ञानं तद्रहितमचेतनं पाषाणादि । सत्यं च व्यवहारविषयम् , अधिकारात् ; न परमार्थसत्यम् ; एकमेव हि परमार्थसत्यं ब्रह्म । इह पुनः व्यवहारविषयमापेक्षिकं सत्यम् , मृगतृष्णिकाद्यनृतापेक्षया उदकादि सत्यमुच्यते । अनृतं च तद्विपरीतम् । किं पुनः ? एतत्सर्वमभवत् , सत्यं परमार्थसत्यम् ; किं पुनस्तत् ? ब्रह्म, ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति प्रकृतत्वात् । यस्मात् , सत्त्यदादिकं मूर्तामूर्तधर्मजातं यत्किञ्चेदं सर्वमविशिष्टं विकारजातमेकमेव सच्छब्दवाच्यं ब्रह्माभवत् , तद्व्यतिरेकेणाभावान्नामरूपविकारस्य, तस्मात् तत् ब्रह्म सत्यमित्याचक्षते ब्रह्मविदः । अस्ति नास्तीत्यनुप्रश्नः प्रकृतः ; तस्य प्रतिवचनविषये एतदुक्तम् - ‘आत्माकामयत बहु स्याम्’ इति । स यथाकामं च आकाशादिकार्यं सत्त्यदादिलक्षणं सृष्ट्वा तदनुप्रविश्य पश्यञ्शृण्वन्मन्वानो विजानन् बह्वभवत् ; तस्मात् तदेवेदमाकाशादिकारणं कार्यस्थं परमे व्योमन् हृदयगुहायां निहितं तत्प्रत्ययावभासविशेषेणोपलभ्यमानमस्तीत्येवं विजानीयादित्युक्तं भवति । तत् एतस्मिन्नर्थे ब्राह्मणोक्ते एषः श्लोकः मन्त्रः भवति । यथा पूर्वेष्वन्नमयाद्यात्मप्रकाशकाः पञ्चस्वपि, एवं सर्वान्तरतमात्मास्तित्वप्रकाशकोऽपि मन्त्रः कार्यद्वारेण भवति ॥

इदानीं प्रवेशशब्दार्थं कथयति –

तदेवेदमित्यादिना ।

यदाकाशादिकारणं प्रकृतं तदेव ब्रह्म इदं प्रत्यक्षादिसंनिधापितं कार्यं सृष्ट्वेत्यर्थः ।

अनुप्रविष्टमिवेति ।

गुहादावनुप्रविष्टं देवदत्तादिवस्तु यथा तदन्तरुपलभ्यते तथा ब्रह्मापि बुद्धेरन्तरुपलभ्यते, तथा चान्तरुपलभ्यमानत्वसाम्यात्प्रवेशशब्दो गौण इत्यर्थः । द्रष्टृत्वादिरूपेणोपलब्धिलक्षणे विवक्षिते प्रवेशे बुद्ध्युपहितचैतन्यरूपस्य जीवस्यैव कर्तृत्वेऽपि जीवब्रह्मणोर्वास्तवैक्यमादाय सृष्टिप्रवेशक्रिययोः समानकर्तृत्वसत्त्वात् यः स्रष्टा स एवानुप्राविशत् क्त्वाप्रत्ययश्रवणादिति सिद्धान्तो निष्प्रत्यूह इति भावः ।

एवमक्षराणि व्याख्याय प्रवेशवाक्यस्यापि ब्रह्मसत्त्वसाधने उपयोगं कथयति –

तस्मादस्तीति ।

तत्प्रकृतमाकाशादिकारणं ब्रह्म अस्ति नास्तीति न, प्रवेष्टृत्वात् असतः प्रवेशादर्शनादित्यर्थः ।

ब्रह्मणो नास्तित्वाभावे फलितमाह –

अत इति ।

पृथिव्यादिभूतत्रयं मूर्तमवशिष्टं भूतद्वयममूर्तमिति विभागो बोध्यः ।

ब्रह्मैव मूर्तामूर्ते अभवदित्यनेन तयोर्ब्रह्मतादात्म्यमुच्यते, तत्रोपपत्तिमाह –

मूर्तामूर्ते हीति ।

प्रागुत्पत्तेरव्याकृतनामरूपतयात्मनि स्थिते मूर्तामूर्ते एव सर्गादौ स्वान्तर्गतेन परमात्मना व्याक्रियेते इत्यर्थः । तयोरव्याकृतनामरूपतया प्रागवस्थाने ‘तद्धेदं तर्ह्यव्याकृतमासीत्’ इति श्रुतिप्रसिद्धिद्योतनार्थो हि-शब्दः ।

ततः किम् ? अत आह –

व्याकृते चेति ।

आत्मना त्विति ।

परमात्मना अविभक्तदेशकाले परमात्मना तादात्म्यापन्ने एव, प्रागुत्पत्तेरात्मनोऽद्वितीयत्वश्रवणादिति भावः । एतदुक्तं भवति - मूर्तामूर्तयोरव्याकृतयोरात्मतादात्म्यात्तयोरेव व्याकृतयोरपि तत्तादात्म्यमुपपद्यत एवेति कृत्वा तत्कारणभूत आत्मा ते मूर्तामूर्ते अभवदिति श्रुत्योच्यत इति ।

इदं तदित्युक्तमिति ।

यत्त्वया पृष्टं तदिदमिति निर्दिष्टमित्यर्थः । इहेदानीमयं विष्णुमित्र इत्यादिप्रकारेण निरूपितं वस्त्वित्यर्थः ।

विशेषणे इति ।

निरुक्तं मूर्तस्यैवाभेदेन विशेषणम् अनिरुक्तममूर्तस्यैवाभेदेन विशेषणमिति विभागः ।

यथेति ।

यथा सच्छब्दवाच्यं प्रत्यक्षं भूतत्रयं मूर्तस्याभेदेन विशेषणं त्यच्छब्दवाच्यं च परोक्षं भूतद्वयममूर्तस्याभेदेन विशेषणं तथा निरुक्तानिरुक्ते अपीत्यर्थः ।

तथेति ।

निलयनं च तथा निरुक्तवन्मूर्तस्यैव धर्म इति सम्बन्धः ।

धर्म इति ।

तथा च सन्निरुक्तनिलयनानि मूर्तधर्माः, त्यदनिरुक्तानिलयनान्यमूर्तधर्मा इति विभागः कृत इति बोध्यम् ।

ननु त्यदादीनाममूर्तधर्मत्वे सति ब्रह्मधर्मत्वं प्रसज्येत ब्रह्मणोऽप्यमूर्तत्वादिति, नेत्याह –

त्यदनिरुक्तेति ।

व्याकृतेति ।

व्याकृतं कार्यम् , तद्विशेषणान्येव न कारणब्रह्मविशेषणानि, तेषां तद्विशेषणत्वे सर्गात्प्रागपि सत्त्वापत्त्या तदुत्तरकालभावित्वश्रवणविरोधादित्यर्थः ।

व्याकृतविषयत्वमेव विवृणोति –

त्यदितीत्यादिना ।

प्राणो वायुः, आकाशसङ्ग्रहार्थमादिपदम् ।

अत इति ।

त्यदनिरुक्तानिलयनशब्दैरभिहितस्य प्राणादेः कार्यत्वादेतान्यमूर्तस्य विशेषणानि व्याकृतविषयाण्येवेति योजना ।

सत्यं चेति ।

'सत्यं चानृतं च’ इत्यत्र सत्यशब्देन व्यावहारिकसत्यमेवोच्यते ।

न तु परमार्थसत्यमित्यत्र हेतुः –

अधिकारादिति ।

सच्च त्यच्चेत्यादीनां व्यवहारविषयाणामेव विकाराणां प्रकरणादित्यर्थः । किं च ‘सत्यं च’ इत्यत्र परमार्थसत्यग्रहणे परमार्थद्वयं प्रसज्येत, ‘सत्यमभवत्’ इत्यत्रापि परमार्थसत्यस्य गृहीतत्वात् ।

भवत्विति चेत् , तत्राह –

एकमेव हीति ।

परमार्थसत्यस्याद्वितीयत्वं श्रुतिस्मृतिन्यायसहस्रप्रसिद्धमिति द्योतनार्थो हि-शब्दः, अतो न परमार्थद्वये इष्टापत्तिरिति भावः ।

ननु व्यवहारविषयाकाशादिप्रपञ्चस्य कल्पितत्वात्कथं तत्र सत्यशब्दप्रवृत्तिरिति शङ्कां निराकुर्वन्सत्यं च व्यवहारविषयमित्युक्तं विवृणोति –

इह पुनरिति ।

'सत्यं चानृतं च’ इत्यत्रेत्यर्थः । आपेक्षिकं सत्यमुच्यत इति सम्बन्धः ।

किमपेक्षयोदकादिलक्षणस्य सत्यस्यापेक्षिकत्वमित्याकाङ्क्षायामाह –

मृगतृष्णिकादीति ।

'सत्यं चानृतं च’ इत्यत्र व्यावहारिकं वस्तु सत्यशब्दार्थः प्रातिभासिकं वस्त्वनृतशब्दार्थ इति निष्कर्षः ।

किं पुनरिति ।

एतत्प्रत्कृतं निरुक्तादिकं सर्वं किमिति प्रश्ने सत्यमभवदिति प्रतिवचनम् ।

तत्र सत्यं विशिनष्टि –

परमार्थेति ।

इदं च विशेषणं सत्यं चेत्यत्र गृहीतसत्यव्यावृत्त्यर्थमिति प्रागेव व्यक्तम् ।

परमार्थसत्यस्वरूपं प्रश्नपूर्वकं विशिष्य दर्शयति –

किं पुनस्तदित्यादिना ।

यत्सत्यादिशब्दैरुपात्तं यच्चेदं किं चाविशेषितं विशिष्यानुपात्तं तत्सर्वं परमार्थसत्यमभवदिति रीत्या श्रुतौ ‘यदिदं किं च’ इति वाक्यस्य पूर्वेणैकवाक्यता बोध्या ।

इमामेवैकवाक्यतां प्रदर्शयन् ‘तत्सत्यमित्याचक्षते’ इत्यस्योपपत्तिमाह –

यस्मादित्यादिना ।

पूर्वग्रन्थस्य विवक्षितमर्थं दर्शयितुं तत्र वृत्तमनुवदति –

अस्तीत्यादिना ।

इदानीं तत्र विवक्षितं कथयति –

तस्मादिति ।

श्रुत्या ब्रह्मण्यसत्त्वाशङ्कानिराकरणपूर्वकं सत्त्वप्रतिपादनायैव तस्य भोक्तृभोग्यात्मनावस्थानप्रतिपादनादित्यर्थः । अस्य हेतोरस्तीति विजानीयादित्यनेन सम्बन्धः ।

तदेवेति ।

ब्रह्मैवेत्यर्थः ।

इदंशब्दार्थमेवाह –

कार्यस्थमिति ।

कार्यकरणसङ्घाते साक्षितया स्थितमित्यर्थः ।

बुद्धौ विशिष्य तस्योपलब्धिमभिप्रेत्याह –

परम इत्यादिना ।

व्योम्नि या गुहा तस्यामिति सप्तम्योर्वैयधिकरण्यम् । हार्दमेवाकाशं परमं व्योमेति च प्रागेव दर्शितम् ।

मुख्यस्य निधानस्यासम्भवं मनसि निधाय हृदयगुहायां निहितमित्यस्यार्थमाह –

तत्प्रत्ययेति ।

तस्मिन्हृदयगुहाशब्दिते प्रत्यये साक्षिणा प्रतीयमानेऽन्तःकरणे योऽयमात्मचैतन्यस्यावभासमानो विशेषः ‘पश्यन् शृण्वन्’ इत्यादिभाष्येण प्रदर्शितो द्रष्टृत्वादिरूपभेदस्तेन रूपभेदेनोपलभ्यमानं प्रकाशमानं ब्रह्मेत्यर्थः ।

ननु ‘असद्वा इदम् - - ’ इति श्लोको न सर्वान्तरात्मास्तित्वप्रतिपादकः तदस्तित्ववाचिपदाभावात् , प्रत्युत आकाशादिकारणे वस्तुन्यसच्छब्दश्रवणेन तदसत्त्वस्यैव प्रतीतेश्चेत्याशङ्क्य विशिनष्टि –

कार्यद्वारेणेति ।

असतः कार्यकारणत्वासम्भवादसच्छब्दनिर्दिष्टस्यापि कारणस्य सत्त्वं सिध्यतीत्याशयः ॥