असदिति पदेनाव्याकृतं ब्रह्मोच्यत इति सम्बन्धः । तत्रासच्छब्दप्रयोगे हेतुमाह –
व्याकृतेति ।
व्याकृतौ व्यक्तीकृतौ नामरूपात्मकौ विशेषौ यस्य जगतस्तस्मिन्सच्छब्दस्य प्रसिद्धत्वात्तद्विपरीते कारणे ब्रह्मण्यसच्छब्दप्रयोग इत्यर्थः ।
नन्वसत्पदस्य शून्यवाचित्वमेव किं न स्यात् ? तत्राह –
न पुनरिति ।
तत्र हेतुः –
न हीति ।
हि यस्मादसतः सकाशात्सतः कार्यस्य जन्म लोके नास्ति तस्मादत्र सज्जन्महेतुत्वेन श्रूयमाणमसदत्यन्तासन्न भवतीत्यर्थः ।
इदमिति पदस्यार्थमाह –
नामरूपेति ।
तत इति ।
कारणादित्यर्थः ।
स्वयमिति ।
स्वयमन्यानधिष्ठितं सदात्मानमेव जगदात्मना कृतवदित्यर्थः ।
यस्मादेवमिति ।
यस्माद्ब्रह्म स्वयमेव कृतवदित्यर्थः । सूपसर्गस्य शोभनवाचिनः स्वयंशब्दनिर्दिष्टमपरतन्त्रत्वलक्षणं शोभनमर्थः । कर्मार्थकस्यापि क्तप्रत्ययस्य च्छान्दस्या प्रक्रियया कर्तृत्ववाचित्वस्वीकारात्कृतमित्यस्य कर्त्रर्थः । तथा च तस्मादिति हेतुवचनानुसारेण स्वयं कर्तृत्ववेषेण ब्रह्मैव सुकृतमित्युच्यत इत्यर्थः ।
ननु ब्रह्मण एव स्वयं कर्तृत्वात्सुकृतशब्दवाच्यत्वमित्ययुक्तं ब्रह्मान्यस्यापि कस्यचित्स्वयं कर्तृत्वसम्भवादित्याशङ्क्याह –
स्वयमिति ।
लोकशब्दिते शास्त्रे समस्तजगत्कारणत्वाद्ब्रह्मैव स्वयमन्यानधिष्ठिततया जगत्कर्त्रिति प्रसिद्धं नान्यत् , अतो नातिप्रसङ्ग इति भावः ।
'तदात्मानं स्वयमकुरुत’ ‘तस्मात्तत्सुकृतमुच्यते’ इति वाक्यद्वयं पुनरपि योजयन्प्रकारान्तरेण ब्रह्मणः सुकृतशब्दवाच्यत्वमाह –
यस्माद्वेति ।
यद्वा ब्रह्म स्वयमात्मानमेव सर्वं जगदकरोत् यस्मादात्मानमेव सर्वजगदात्मनाकरोत्तस्मात्तदेव कारणं ब्रह्म पुण्यरूपेणाप्यवस्थितं सत्सुकृतमुच्यत इति योजना ।
'असद्वा इदमग्र आसीत्’ इति प्रकृतश्लोके ‘तस्मात्तत्सुकृतमुच्यते’ इति भागस्य ब्रह्मणः सुकृतशब्दवाच्यत्वसाधने न तात्पर्यं वैफल्यात् , किं तु ब्रह्मास्तित्वसाधन एव तात्पर्यं तत्परतयैवास्य श्लोकस्यावतारितत्वादित्याशयेन सुकृतशब्दवाच्येऽनास्थां प्रदर्शयन्ब्रह्मास्तित्वसाधने उपयोगं सुकृतवाक्यस्य दर्शयति –
सर्वथापि त्वित्यादिना ।
यदि प्रसिद्धिबलात्पुण्यं सुकृतशब्दवाच्यं यदि वास्मदुक्तरीत्या ब्रह्म उभयथापि सुकृतशब्दवाच्यं स्वर्गादिफलसम्बन्धादिकारणं लोकशब्दिते शास्त्रे प्रसिद्धमित्यर्थः । तत्र पुण्यस्य फलसम्बन्धतत्साधनदिव्यदेहादिसम्बन्धकारणत्वं कर्मकाण्डे प्रसिद्धम् , स्वयं कर्तृतया सुकृतशब्दवाच्यस्य ब्रह्मणोऽपि फलसम्बन्धादिकारणत्वम् ‘श्रुतत्वाच्च’ इति सूत्रोदाहृतश्रुतिप्रसिद्धमिति विभागः । फलदातृत्वस्य श्रुतिसिद्धत्वादुपपत्तेश्च ब्रह्मैव फलदातृ, न कर्म आशुतरविनाशित्वादिति सूत्रार्थः ।
ततः किम् ? अत आह –
सा प्रसिद्धिरिति ।
सुकृतशब्दवाच्यपुण्यस्य सा फलसम्बन्धादिकारणत्वप्रसिद्धिः आशुतरविनाशिनो जडस्य पुण्यकर्मणः स्वतः फलदातृत्वायोगान्नित्ये सर्वज्ञे ब्रह्मणि सत्येवोपपद्यत इत्यर्थः । ब्रह्मणः सुकृतशब्दवाच्यत्वपक्षे तु सा ब्रह्मणि फलसम्बन्धादिकारणत्वप्रसिद्धिस्तस्यासत्त्वे नोपपद्यत इति बहिरेव द्रष्टव्यम् ।
उपसंहरति –
तस्मादिति ।
सुकृतस्य फलसम्बन्धादिकारणत्वप्रसिद्धेरित्यर्थः ।
रसत्वादिति ।
आनन्दत्वादिति यावत् । यत्सुकृतशब्दवाच्यत्वेन प्रसिद्धं ब्रह्म तदेव रसः । विधेयापेक्षया पुंलिङ्गनिर्देशः ।
रसशब्दो ब्रह्मानन्दे गौण इति मत्वा गुणज्ञानाय मुख्यार्थमाह –
रसो नामेति ।
तृप्तिपदं तुष्टिपरम् । एवं ब्रह्मानन्दोऽपि सत्त्वप्रधानेऽन्तःकरणेऽभिव्यक्तः सन्प्राणिनामानन्दकर इति प्रागभिहितम् । तथा चानन्दकरत्वसाम्याद्रसशब्दो ब्रह्मानन्दे गौण इति भावः ।
रसमिवायमिति ।
अयं लोकः प्रसिद्धरससदृशमात्मानन्दं वृत्तिद्वारा लब्ध्वेत्यर्थः ।
सुखी भवतीति ।
तथा चानन्दकरत्वादानन्दरूपं ब्रह्मास्तीति भावः ।
ननु ब्रह्मणः सत्त्वाभावेऽप्यानन्दहेतुत्वमस्तु ; नेत्याह –
नासत इति ।
ननु विषयाणामेवानन्दहेतुत्वं न ब्रह्मानन्दस्येत्याशङ्क्य विषयशून्यानामप्यानन्ददर्शनान्मैवमित्याह –
बाह्येति ।
बाह्यत्वं साधनविशेषणम् । निरीहाः समस्तकरणचेष्टावर्जिताः, समाधिनिष्ठा इति यावत् । निरेषणाः नीरागाः विद्वांसः, साक्षात्कृतब्रह्मतत्त्वा इति यावत् ।
तेषामानन्दकारणं ब्रह्मैवेति निश्चीयत इत्याह –
नूनमिति ।
एवं विषयाभावेऽप्यानन्ददर्शनाद्विषयानुसन्धानस्थलेऽपि विषयाणां वृत्तिविशेषद्वारा स्वरूपानन्दव्यञ्जकत्वमेव, नाविद्यमानानन्दस्वरूपोत्पादकत्वमिति प्रागावेदितम् ; अतः सर्वप्राण्यानन्दहेतुत्वादस्ति तदानन्दकारणं ब्रह्मेत्युपसंहरति –
तस्मादिति ।
तेषामित्युपलक्षणम् , सर्वप्राणिनामित्यर्थः ।
इतश्चेति ।
वक्ष्यमाणहेतोरपि ब्रह्मास्ति ।
तमेव हेतुमाकाङ्क्षापूर्वकमाह –
कुत इत्यादिना ।
हेतुं साधयति –
अयमपि हीति ।
अपिशब्दोऽनुक्तसमुच्चयार्थः सन्नाधिदैविकादिपिण्डसङ्ग्रहार्थः । अध्यात्माधिभूताधिदैविकेषु पिण्डेषु प्राणनादिक्रिया प्रत्यक्षानुमानादिप्रसिद्धेति सूचनार्थो हि-शब्दः ।
मृतदेहं व्यावर्तयति –
जीवत इति ।
'को ह्येवान्यात्कः प्राण्यात्’ इति श्रुतौ प्राणापानग्रहणमुपलक्षणमित्याशयेनाह –
इत्येवमिति ।
संहतैरिति ।
यथा मृद्दारुतृणादीनि गृहप्रासादादिभावेन संहन्यन्ते तथा शरीरभावेन कार्यकरणानि संहन्यन्त इति भावः ।
ततः किमित्यत आह –
तच्चैकार्थेति ।
कार्यकरणानामेकस्य चेतनस्यार्थं प्रयोजनं प्रति साधनत्वेन मेलनमित्यर्थः ।
असंहतमिति ।
संहतकार्यकरणव्यतिरिक्तमित्यर्थः ।
अन्यत्रेति ।
गृहप्रासादादिषु स्वतन्त्रं चेतनं स्वामिनमन्तरेण संहननस्यादर्शनात्कार्यकरणसङ्घातेऽपि तद्विलक्षणः स्वामी चेतनोऽस्तीति निश्चीयते । स च चेतनः प्रतिशरीरं भेदेऽनन्यथासिद्धप्रमाणाभावात्सर्वात्मकं ब्रह्मैवेति तदस्तित्वसिद्धिरित्यर्थः ।
इतश्चेत्यादिना प्रसाधितेऽर्थे वाक्यमवतारयति –
तदाहेति ।
तत्कार्यकरणचेष्टाशेषित्वेन ब्रह्मणोऽस्तित्वमाह श्रुतिरित्यर्थः । ननु ‘आकाश आनन्दो न स्यात्’ इत्यत्राकाशानन्दपदयोः सामानाधिकरण्यमुचितम् , योगेन निरूढ्या वा आकाशपदस्य ब्रह्मण्यपि प्रयोगसम्भवात् , अत एव ‘आकाशस्तल्लिङ्गात्’ इत्यधिकरणे अत्रत्याकाशपदस्यानन्दत्वरूपब्रह्मासाधारणगुणश्रवणाद्ब्रह्मपरत्वमाचार्यैरेवे दर्शितम् ; तथापि गुहानिहितवाक्यानुसारात् रूढ्यनुसाराच्च वैयधिकरण्यमुक्तमिति मन्तव्यम् ।
न भवेदिति ।
सन्न स्यादित्यर्थः । अपानचेष्टां निःश्वासमिति यावत् ।
यदर्था इति ।
कार्यकरणानां प्राणनाद्युपलक्षिताः सर्वाश्चेष्टा यदर्थाः यस्यासंहतस्य चेतनस्य भोगार्थाः स चेतनोऽस्त्येव अन्यथा भोक्तुरभावेन कार्यकरणचेष्टानां वैयर्थ्यप्रसङ्गात् तस्य च चेतनस्य वस्तुगत्या ब्रह्मत्वादस्ति तद्ब्रह्मेत्युक्तम् ।
तत्कृत एव चेति ।
आत्मानन्दकृत एव लोकस्यानन्दश्चेत्यर्थः ।
ननु परस्यैवानन्दरूपत्वादानन्दहेतुत्वमयुक्तम् आनन्दभेदाभावादित्याशङ्क्याह –
स एवेति ।
अविद्ययेति ।
भ्रान्त्या नानात्वेनानुभूयत इत्यर्थः ।
'यदा ह्येवैषः’ इत्यादेस्तात्पर्यमाह –
भयाभयेति ।
नन्वसतः सकाशादेव भयनिवृत्तिरस्तु ; नेत्याह –
सद्वस्त्वाश्रयण इति ।
लोके श्रीरामादेः सत एव भयनिवृत्तिहेतुत्वप्रसिद्धेरसतः शशशृङ्गादेस्तदप्रसिद्धेश्च असद्ब्रह्माश्रयणाद्भयनिवृत्तिर्नोपपद्यत इत्यर्थः ।
ब्रह्मणो विद्वदभयहेतुत्वे मानं प्रश्नपूर्वकं दर्शयति –
कथमित्यादिना ।
विकार इति ।
अध्यस्तमिति यावत् ।
अविषयीभूत इति ।
सर्वदृश्यवर्जित इति यावत् ।
आत्म्यपदेनात्मीयं शरीरमुच्यत इत्याशयेनाह –
अशरीर इति ।
यस्माच्चेति ।
च-शब्दोऽवधारणार्थः । यस्माद्धेतोरनात्म्यं ब्रह्म तस्मादेव हेतोरनिरुक्तमपीत्यर्थः । अत्रात्म्यनिरुक्तनिलयनानां दृश्यविशेषत्वाद्दृश्यसामान्यनिषेधस्य ‘व्यापकनिवृत्त्या व्याप्यनिवृत्तिः’ इति न्यायेनात्म्यनिरुक्तनिलयननिषेधहेतुत्वमत्र विवक्षितमिति मन्तव्यम् ।
विशेषो हीति ।
स विशेषः पदार्थ इत्यर्थः । निरुच्यते समानासमानजातीयेभ्यो निष्कृष्योच्यत इत्यर्थः । घटादिरत्रोदाहरणम् ।
यत एवमिति ।
यतः अदृश्यत्वाद्धेतोरनिरुक्तं ब्रह्म तस्मादेव हेतोरनिलयनम् आधाररहितमित्यर्थः । यद्वा यथाश्रुतानुरोधेन पूर्वपूर्वनिषेधस्यैवोत्तरोत्तरनिषेधहेतुत्वं बोध्यम् ।
एवं व्याख्यातानि पदान्यनूद्य वाक्यार्थमाह –
तस्मिन्नेतस्मिन्नित्यादिना ।
सर्वकार्यपदं दृश्यमात्रोपलक्षणार्थम् , अन्यथा मूलाविद्यादिवैलक्षण्यसिद्ध्यभावप्रसङ्गादिति बोध्यम् ।
क्रियाविशेषणमिति ।
अभयं यथा भवति तथा विन्दत इति लाभक्रियाविशेषणमित्यर्थः ।
प्रतिष्ठाविशेषणं वेत्याह –
अभयामिति वेति ।
आत्मभावमिति ।
सर्वविशेषरहितं ब्रह्माहमिति साक्षात्काराभिव्यङ्ग्यमिति शेषः ।
अदर्शनादिति ।
वस्तुत इति शेषः । विदुषोऽपि बाधितद्वैतदर्शनाभ्युपगमादिति मन्तव्यम् ।
अभयप्राप्तिमेव विवृणोति –
स्वरूपप्रतिष्ठो हीति ।
यत्र यस्मिन्स्वरूपे स्थितो विद्वान्वस्तुतोऽन्यन्न पश्यति अन्यन्न शृणोति अन्यन्न विजानाति च, तादृशस्वरूपप्रितष्ठोऽसौ विद्वान् तदा विद्याकाले भवतीति मन्तव्यमित्यर्थः ; अद्वितीयं ब्रह्मैव तदा भवतीति यावत् । तत्र ‘ब्रह्म वेद ब्रह्मैव भवति’ इत्यादिश्रुतिप्रसिद्धिसूचनार्थो हि-शब्दः ।
ननु विदुषोऽन्यदर्शनाभावेऽपि कथं भयनिवृत्तिरित्यत आह –
अन्यस्य हीति ।
ननु स्वस्मादपि स्वस्य भयं किं न स्यादित्याशङ्क्याह –
नात्मन इति ।
तथा सति ‘द्वितीयाद्वै भयं भवति’ इति श्रुतिविरोधप्रसङ्गादनुभवविरोधप्रसङ्गाच्चेति भावः ।
अनात्मैवेति ।
स च विदुषो वस्तुतो नास्ति, अतः ‘अथ सोऽभयं गतो भवति’ इति वचनमुपपन्नमिति भावः ।
यदुक्तं विद्वदभयहेतुत्वादस्ति ब्रह्मेति तदनुभवेन साधयति –
सर्वत इति ।
ब्राह्मणा ब्रह्मविदः ।
भयहेतुष्विति ।
शरीरप्रतिकूलेषु सर्पव्याघ्रादिष्वित्यर्थः ।
उक्तमर्थं सङ्क्षिप्य प्रश्नपूर्वकमाह –
कदासावित्यादिना ।
तैमिरिकेति ।
यथा तैमिरिको दुष्टनेत्रः पुरुषो वस्तुत एकस्मिन्नेव चन्द्रे चन्द्रभेदं पश्यति तथा एकस्मिन्नेवात्मस्वरूपे ब्रह्मण्यविद्यया कल्पितं भेदरूपं वस्तु यदा पश्यतीत्यर्थः ।
अविद्याप्रत्युपस्थापितभेदवस्तुदर्शनमेवाक्षरव्याख्यानपूर्वकं विवृणोति –
उदित्यादिना ।
नन्वत्रान्तरशब्दितस्यात्मब्रह्मभेदस्यानादित्वादन्तरं कुरुत इत्यनुपपन्नमित्याशङ्क्याह –
भेददर्शनमिति ।
इतश्चान्तरपदं भेददर्शनपरमेव न भेदपरमित्याह –
भेददर्शनमेव हीति ।
अल्पमपीति ।
उपास्योपासकभावोपेतमपीत्यर्थः ।
आत्मन इति ।
भेदेन दृष्टादीश्वरादित्यर्थः ।
उक्तमर्थं सङ्क्षिप्याह –
तस्मादिति ।
स्वरूपभूतोऽपि परमात्मा तद्भेददर्शिनो भयकारणमित्युक्तं भवतीत्यर्थः ।
अस्मिन्नर्थे उत्तरवाक्यमवतार्य व्याचष्टे –
तदेतदाहेति ।
विद्वानपीति ।
य एकरूपमद्वितीयमात्मनस्तत्त्वं न पश्यति, सोऽयं विद्वानपि सकलवेदशास्त्रविदपि अविद्वानेव भयमध्यस्थत्वादित्यर्थः ।
नन्वविदुषः स्वस्येश्वराद्भेदं पश्यतोऽपि कथं भयसम्भावना ? तत्राह –
उच्छेदेति ।
उच्छेदो नाशपीडादिः, तत्कारणवस्तुज्ञानादुच्छेद्यत्वेनाभिमतस्य प्राणिवर्गस्य भयं भवतीत्यर्थः । तच्च सर्वोच्छेदहेतुभूतं वस्तु ब्रह्मैवेत्याशयः ।
कुत इत्यत आह –
अनुच्छेद्यं हीति ।
उच्छेदहेतोरप्युच्छेद्यत्वे तस्य तस्यान्य उच्छेदहेतुर्वक्तव्य इत्यनवस्थाप्रसङ्गान्नित्यत्वं वक्तव्यम् ; तच्च ब्रह्मणोऽन्यत्र न सम्भाव्यते, ‘अतोऽन्यदार्तम्’ इति श्रुत्या तदतिरिक्तस्य सर्वस्य नाशप्रतिपादनादिति भावः ।
एवं भेददर्शिनः प्राणिवर्गस्य भयकारणं ब्रह्मेति वदतो वाक्यसन्दर्भस्य ब्रह्मास्तित्वसाधने तात्पर्यमादौ सङ्गृहीतं प्रपञ्चयति –
तन्नासतीति ।
तस्मादुच्छेदहेतुदर्शनकार्यं भयं जगतो दृश्यमानं स्वयमनुच्छेद्यस्वभावे परेषामुच्छेदहेतावसति न युक्तमिति योजना ।
ननु तद्दर्शनकार्यं भयं जगतो नास्तीति वदन्तं प्रत्याह –
सर्वं चेति ।
अनुच्छेदात्मकमिति ।
नित्यमिति यावत् ।
यत इति ।
यतो जगद्बिभेति तद्भयकारणमस्ति नूनं निश्चय इत्यर्थः ॥