तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
श्रोत्रियस्य चाकामहतस्य । ते ये शतमिन्द्रस्यानन्दाः । स एको बृहस्पतेरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं बृहस्पतेरानन्दाः । स एकः प्रजापतेरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहातस्य ॥ ४ ॥
भीषा भयेन अस्मात् वातः पवते । भीषोदेति सूर्यः । भीषा अस्मात् अग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चम इति । वातादयो हि महार्हाः स्वयमीश्वराः सन्तः पवनादिकार्येष्वायासबहुलेषु नियताः प्रवर्तन्ते ; तद्युक्तं प्रशास्तरि सति ; यस्मात् नियमेन तेषां प्रवर्तनम् , तस्मादस्ति भयकारणं तेषां प्रशास्तृ ब्रह्म । यतस्ते भृत्या इव राज्ञः अस्मात् ब्रह्मणः भयेन प्रवर्तन्ते तच्च भयकारणमानन्दं ब्रह्म । तस्य अस्य ब्रह्मणः आनन्दस्य एषा मीमांसा विचारणा भवति । किमानन्दस्य मीमांस्यमिति, उच्यते - किमानन्दो विषयविषयिसम्बन्धजनितः लौकिकानन्दवत् , आहोस्वित् स्वाभाविकः, इत्येवमेषा आनन्दस्य मीमांसा ॥

अस्मादिति ।

प्रकृताद्ब्रह्मण इत्यर्थः । अग्निश्चेन्द्रश्च स्वस्वकार्यमनुतिष्ठत इत्यर्थः ।

धावतीति ।

समाप्तायुषः प्रतीति शेषः । पञ्चमः पञ्चत्वसङ्ख्यापूरक इत्यर्थः ।

श्लोकस्य भयकारणब्रह्मास्तित्वे तात्पर्यं दर्शयति –

वातादयो हीति ।

महार्हा इति ।

पूज्यतमा इत्यर्थः । यदा वाय्वादीनामपि भयकारणं ब्रह्म तदान्येषां किमु वक्तव्यमित्याशयेन श्रुतौ वातादय उदाहृताः, तमाशयं प्रकटयितुं महार्हत्वादिविशेषणमिति मन्तव्यम् ।

ननु स्वयं दिगीश्वराणामपि तेषां नियता प्रवृत्तिः स्वत एवास्तु यथेश्वरस्य सृष्ट्यादौ नियता प्रवृत्तिरनन्यायत्ता तद्वदिति ; नेत्याह –

तद्युक्तमिति ।

बहूनां दिक्पालानां प्रायेण तुल्यैश्वर्याणां विरुद्धेषु कार्येषु प्रवर्तमानानां विनिगमनाविरहादिना लोकवदेव कलहप्रवृत्तेरावश्यकत्वान्नियतं तेषां प्रवर्तनमसत्यन्यस्मिन्नियन्तरि न युक्तमित्यर्थः ।

यत इति ।

यतस्ते वातादयो राज्ञो भृत्या इव बिभ्यति तत्तेषां नियन्तृ ब्रह्मास्तीति योजना ।

ननु सैषा ब्रह्मणो मीमांसा भवतीति वक्तव्यं तस्यैव भयादिहेतुत्वेन प्रकृतत्वात् नानन्दस्येत्याशङ्कां वारयन्मीमांसावाक्यमवतारयति –

यस्मादित्यादिना ।

आनन्दं ब्रह्मेति ।

'यदेष आकाश आनन्दो न स्यात्’ इति ब्रह्मण एवानन्दरूपत्वस्योक्तत्वान्नासङ्गतिरिति भावः ।

नन्वानन्दस्वरूपस्य दुःखादिस्वरूपवत्प्रसिद्धत्वादानन्दस्वरूपं न विचारणीयमिति मत्वा शङ्कते –

किमानन्दस्येति ।

ब्रह्मस्वरूपतया श्रुत आनन्दो विषयानन्दवज्जन्यो नित्यो वेति संशयनिवृत्त्यर्था मीमांसेत्याह –

उच्यत इति ।

स्रक्चन्दनादिर्विषयः, तदनुभविता पुरुषो विषयी, तयोः सम्बन्धेनेत्यर्थः ॥