वृत्तानुवादपूर्वकमुत्तरग्रन्थमवतारयति –
अस्ति नास्तीत्यादिना ।
व्याख्यातो निराकृत इत्यर्थः ।
कथं निराकृत इत्याकाङ्क्षायामाह –
कार्येति ।
कार्यं च रसलाभश्च प्राणनं चाभयप्रतिष्ठा च भयदर्शनं च, एतान्येवोपपत्तय इत्यर्थः ।
विषयाविति ।
अविशिष्टाविति शेषः ।
उच्यत इति ।
'स य एवंवित्’ इत्यादिना ब्रह्मप्राप्तिर्विदुष उच्यत इत्यर्थः ।
ननु तर्हि मध्यमोऽनुप्रश्नो विशिष्येत ; नेत्याह –
मध्यम इति ।
विदुषो ब्रह्मप्राप्तिप्रतिपादनेनान्त्यप्रश्नापाकरणे कृते सति अर्थादविदुषस्तत्प्राप्तिर्नास्तीति निर्णयलाभान्मध्यमप्रश्नो निराकर्तव्यत्वेन नावशिष्यते, अतो न तदपाकरणाय श्रुत्या प्रयत्नः कृत इत्यर्थः । इदमुपलक्षणम् ; अविदुषो ब्रह्मप्राप्तिप्रश्नस्यातिफल्गुत्वाच्च तदपाकरणाय श्रुत्या न यत्यत इत्यपि द्रष्टव्यम् ।
वेदनस्योत्कर्षादिरहिताद्वितीयस्वप्रकाशब्रह्मविषयकत्वलाभे हेतुमाह –
एवंशब्दस्येति ।
लोकशब्दस्य प्रत्यक्षसिद्धभोग्यमात्रपरत्वं व्यावर्तयति –
दृष्टादृष्टेति ।
'अस्माल्लोकात्प्रेत्य’ इत्यनेन सर्वस्मात्कर्मफलाद्वैराग्यं विवक्षितमित्याह –
निरपेक्षो भूत्वेति ।
अत्र येन क्रमेणैव वेदनं प्राप्तं तत्क्रमानुवादपूर्वकमेवं वेदनफलमुच्यत इति प्रतीयते, तां प्रतीतिमाश्रित्य व्याख्यानमिदम् ; विवक्षितं तु व्याख्यानं करिष्यमाणचिन्तावसाने भविष्यतीति मन्तव्यम् ।
एवं विरक्तो भूत्वा प्रथमं पुमान्किं करोति ? तत्राह –
एतमिति ।
यथोक्तमिति ।
'स वा एष पुरुषोऽन्नरसमयः’ इत्यत्रान्नरसविकारत्वेनोक्तमित्यर्थः । विषयजातमित्यनेन व्यष्टिपिण्डव्यतिरिक्तः समष्टिपिण्डात्मा विराडुच्यते ।
विराजं व्यष्टिपिण्डव्यतिरिक्तं न पश्यति चेत्कथं तर्हि पश्यतीत्याकाङ्क्षायां तद्दर्शयन्नुपसङ्क्रामतीत्यस्यार्थमाह –
सर्वमिति ।
समष्टिस्थूलात्मानं विराजमन्नमयात्मानं पश्यति समष्टिव्यष्ट्यात्मकमन्नलक्षणं ब्रह्माहमिति पस्यतीति यावत् ।
तत इति ।
विराडात्मकादन्नमयकोशादान्तरमित्यर्थः ।
एतमिति ।
'अन्योऽन्तर आत्मा प्राणमयः’ इत्यत्र प्रकृतमित्यर्थः ।
अविभक्तमिति ।
सूत्रात्मना एकीभूतमित्यर्थः । अत एव सर्वपिण्डव्यापित्वरूपं सर्वान्नमयात्मस्थत्वविशेषणं प्राणमयस्योपपद्यते । तथा चान्नमयात्मदर्शनानन्तरं तद्धित्वा यथोक्तं प्राणमयात्मानं पश्यतीत्यर्थः । एवमुत्तरत्रापि योजनीयम् ।
उपसङ्क्रामतीति ।
एवं क्रमेणानन्दमयमात्मानमुपसङ्क्रम्यानन्तरमानन्दमयं प्रति पुच्छप्रतिष्ठाभूतमुत्कर्षादिरहितं सत्यज्ञानानन्तलक्षणं ब्रह्माहमस्मीति पश्यंस्तदेव प्राप्नोतीति भावः ।
अथेति ।
एवंविदेवं वेदनानन्तरमित्यर्थः ॥