तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः । स य एवंवित् । अस्माल्लोकात्प्रेत्य । एतमन्नमयमात्मानमुपसङ्क्रामति । एतं प्राणमयमात्मानमुपसङ्क्रामति । एतं मनोमयमात्मानमुपसङ्क्रामति । एतं विज्ञानमयमात्मानमुपसङ्क्रामति । एतमानन्दमयमात्मानमुपसङ्क्रामति । तदप्येष श्लोको भवति ॥ ५ ॥
तत्रैतच्चिन्त्यम् - कोऽयमेवंवित् , कथं वा सङ्क्रामतीति ; किं परस्मादात्मनोऽन्यः सङ्क्रमणकर्ता प्रविभक्तः, उत स एवेति । किं ततः ? यद्यन्यः स्यात् , श्रुतिविरोधः - ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । १) ‘अन्योऽसावन्योऽहमस्मीति । न स वेद’ (बृ. उ. १ । ४ । १०) ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘तत्त्वमसि’ (छा. उ. ६ । ८ । १६) इति । अथ स एव आनन्दमयमात्मानमुपसङ्क्रामतीति, कर्मकर्तृत्वानुपपत्तिः । परस्यैव च संसारित्वं पराभावो वा । यद्युभयथा प्राप्तो दोषो न परिहर्तुं शक्यत इति, व्यर्था चिन्ता । अथ अन्यतरस्मिन्पक्षे दोषाप्राप्तिः तृतीये वा पक्षे अदुष्टे, स एव शास्त्रार्थ इति व्यर्थैव चिन्ता ; न, तन्निर्धारणार्थत्वात् । सत्यं प्राप्तो दोषो न शक्यः परिहर्तुमन्यतरस्मिन् तृतीये वा पक्षे अदुष्टे अवधृते व्यर्था चिन्ता स्यात् ; न तु सोऽवधृत इति तदवधारणार्थत्वादर्थवत्येवैषा चिन्ता । सत्यमर्थवती चिन्ता, शास्त्रार्थावधारणार्थत्वात् । चिन्तयसि च त्वम् , न तु निर्णेष्यसि ; किं न निर्णेतव्यमिति वेदवचनम् ? न ; कथं तर्हि ? बहुप्रतिपक्षत्वात् ; एकत्ववादी त्वम् , वेदार्थपरत्वात् ; बहवो हि नानात्ववादिनो वेदबाह्याः त्वत्प्रतिपक्षाः ; अतो ममाशङ्का - न निर्णेष्यसीति । एतदेव मे स्वस्त्ययनम् - यन्मामेकयोगिनमनेकयोगिबहुप्रतिपक्षमात्थ । अतो जेष्यामि सर्वान् ; आरभे च चिन्ताम् ॥

तत्रैतच्चिन्त्यमिति ।

'स य एवंवित्’ इत्यत्र ‘उपसङ्क्रामति’ इत्यत्र च एवंवित्स्वरूपं सङ्क्रमणस्वरूपं च विचारणीयमित्यर्थः ।

कोऽयमेवंविदित्युक्तं विवृणोति –

किमिति ।

अन्य इत्यस्य विवरणं प्रविभक्त इति पक्षद्वयेऽप्यनुपपत्त्यभावात्संशयो न घटत इति मत्वा पृच्छति –

किं तत इति ।

पक्षद्वयेऽप्यनुपपत्तिं संशयकारणभूतामाह –

यद्यन्यः स्यादित्यादिना ।

'अन्योऽसौ ‘ इत्यनया श्रुत्या जीवपरभेदचिन्तनस्याज्ञानप्रयुक्तत्वप्रतिपादनात्तयोः स्वाभाविकमन्यत्वमेतच्छ्रुतिविरुद्धं चेत्यर्थः ।

आनन्दमयमिति ।

उपसङ्क्रमणस्य प्राप्तिरूपत्वमाश्रित्येदमुदाहरणम् ; तथा च एवंवित्परयोरभेदे तयोः प्राप्तिं प्रति कर्तृकर्मभावो नोपपद्यत इत्यर्थः ।

किं च, तयोरभेदपक्षे किं जीवस्य परस्मिन्नन्तर्भावः किं वा परस्य जीवे ? नाद्यः, तथा सति परव्यतिरेकेण जीवाभावादचेतनानां संसारित्वासम्भवाच्चानुभूयमानं संसारित्वं परमात्मन एव प्रसज्येतेत्याह –

परस्यैवेति ।

द्वितीये दोषमाह –

पराभावो वेति ।

जीवनियन्तृत्वेन श्रुतिसिद्धस्य परस्याभावः प्रसज्येतेत्यर्थः ।

पक्षद्वयेऽप्यपरिहार्यं दोषं श्रुत्वा मध्यस्थश्चिन्तामाक्षिपति –

यद्युभयथेति ।

जीवस्य परस्मादन्यत्वेऽनन्यत्वे चेत्यर्थः ।

नन्वभेदपक्षे प्राप्तो दोषो वक्ष्यमाणरीत्या परिहर्तुं शक्यत इति वदन्तं चिन्तारम्भवादिनं प्रति मध्यस्थ एवाह –

अथान्यतरस्मिन्निति ।

परापरयोर्वास्तवौ भेदाभेदाविति पक्षान्तरं निर्दुष्टं मन्यमानस्य भास्करादेरभिप्रायमनूद्य तस्मिन्नपि पक्षे चिन्तावैयर्थ्यमाह –

तृतीये वेति ।

अदुष्ट इति च्छेदः ।

सिद्धान्ती चिन्तावैयर्थ्यं निराकरोति –

न, तन्निर्धारणेनेति ।

तेषां पक्षाणामन्यतमस्यादुष्टत्वनिर्धारणेनेत्यर्थः । चिन्तां विना निर्धारणासम्भवादिति भावः ।

सङ्ग्रहवाक्यं तटस्थोक्तानुवादपूर्वकं विवृणोति –

सत्यमित्यादिना ।

न शक्य इत्यत्र यदिशब्दोऽध्याहर्तव्यः ।

पुनरपि मध्यस्थश्चिन्तावैयर्थ्यमाह –

सत्यमर्थवतीति ।

न तु निर्णेष्यसीति ।

त्वया निर्णेतुमशक्यमित्यभिसन्धिः ।

अभिसन्धिमानेव तटस्थं निराकरोति –

किमिति ।

निर्णयस्याशक्यत्वमसिद्धमित्यारम्भवादिनोऽपि गूढोऽभिसन्धिः ।

यथाश्रुतमुपालम्भं तटस्थः परिहरति –

नेति ।

वेदवचनं न भवतीत्यर्थः ।

आरम्भवादी न तु निर्णेष्यसीत्यत्र हेतुं पृच्छति –

कथं तर्हीति ।

यदि न वेदवचनं तर्हि कथं न निर्णेष्यसीति वदसीत्यर्थः ।

निर्णयस्याशक्यत्वे स्वाभिसंहिते हेतुमाह –

बह्विति ।

अद्वैतस्यैव वेदार्थत्वात्तत्साधनपरस्त्वमेक एव, भेदवादिनः पुनरसङ्ख्याताः, ततश्च कथं तेषु जीवत्सु तव निर्णयसिद्धिरित्यर्थः ।

'शतमप्यन्धानां न पश्यति’ इति न्यायमाश्रित्यारम्भवादी परिहरति –

एतदेवेति ।

एकयोगिनमिति ।

एकत्ववादिनमित्यर्थः । अनेकयोगिनो नानात्ववादिनो बहवः प्रतिपक्षा यस्य स तथा, तमित्यर्थः । त्वदीयं यदेकत्ववादीत्यादिवचनमेतदेव मम स्वस्त्ययनं निर्णयसामर्थ्यसूचकमित्यर्थः । नानात्ववादिनां बहुत्वेऽपि न तेषां प्राबल्यशङ्का, नानात्वस्य मानशून्यतायास्तत्र तत्रोक्तत्वाद्वक्ष्यमाणत्वाच्चेति भावः ।

तेषां दौर्बल्याभिप्राये स्थिते फलितमाह –

अत इति ।

एवमात्मैकत्वस्य वादिविप्रतिपत्त्या सन्दिग्धत्वात्तन्निर्णयस्य मुक्तिफलकत्वाच्च विषयप्रयोजनवतीमात्मतत्त्वगोचरां चिन्तामारभते –

आरभे च चिन्तामिति ॥