तत्रैतच्चिन्त्यमिति ।
'स य एवंवित्’ इत्यत्र ‘उपसङ्क्रामति’ इत्यत्र च एवंवित्स्वरूपं सङ्क्रमणस्वरूपं च विचारणीयमित्यर्थः ।
कोऽयमेवंविदित्युक्तं विवृणोति –
किमिति ।
अन्य इत्यस्य विवरणं प्रविभक्त इति पक्षद्वयेऽप्यनुपपत्त्यभावात्संशयो न घटत इति मत्वा पृच्छति –
किं तत इति ।
पक्षद्वयेऽप्यनुपपत्तिं संशयकारणभूतामाह –
यद्यन्यः स्यादित्यादिना ।
'अन्योऽसौ ‘ इत्यनया श्रुत्या जीवपरभेदचिन्तनस्याज्ञानप्रयुक्तत्वप्रतिपादनात्तयोः स्वाभाविकमन्यत्वमेतच्छ्रुतिविरुद्धं चेत्यर्थः ।
आनन्दमयमिति ।
उपसङ्क्रमणस्य प्राप्तिरूपत्वमाश्रित्येदमुदाहरणम् ; तथा च एवंवित्परयोरभेदे तयोः प्राप्तिं प्रति कर्तृकर्मभावो नोपपद्यत इत्यर्थः ।
किं च, तयोरभेदपक्षे किं जीवस्य परस्मिन्नन्तर्भावः किं वा परस्य जीवे ? नाद्यः, तथा सति परव्यतिरेकेण जीवाभावादचेतनानां संसारित्वासम्भवाच्चानुभूयमानं संसारित्वं परमात्मन एव प्रसज्येतेत्याह –
परस्यैवेति ।
द्वितीये दोषमाह –
पराभावो वेति ।
जीवनियन्तृत्वेन श्रुतिसिद्धस्य परस्याभावः प्रसज्येतेत्यर्थः ।
पक्षद्वयेऽप्यपरिहार्यं दोषं श्रुत्वा मध्यस्थश्चिन्तामाक्षिपति –
यद्युभयथेति ।
जीवस्य परस्मादन्यत्वेऽनन्यत्वे चेत्यर्थः ।
नन्वभेदपक्षे प्राप्तो दोषो वक्ष्यमाणरीत्या परिहर्तुं शक्यत इति वदन्तं चिन्तारम्भवादिनं प्रति मध्यस्थ एवाह –
अथान्यतरस्मिन्निति ।
परापरयोर्वास्तवौ भेदाभेदाविति पक्षान्तरं निर्दुष्टं मन्यमानस्य भास्करादेरभिप्रायमनूद्य तस्मिन्नपि पक्षे चिन्तावैयर्थ्यमाह –
तृतीये वेति ।
अदुष्ट इति च्छेदः ।
सिद्धान्ती चिन्तावैयर्थ्यं निराकरोति –
न, तन्निर्धारणेनेति ।
तेषां पक्षाणामन्यतमस्यादुष्टत्वनिर्धारणेनेत्यर्थः । चिन्तां विना निर्धारणासम्भवादिति भावः ।
सङ्ग्रहवाक्यं तटस्थोक्तानुवादपूर्वकं विवृणोति –
सत्यमित्यादिना ।
न शक्य इत्यत्र यदिशब्दोऽध्याहर्तव्यः ।
पुनरपि मध्यस्थश्चिन्तावैयर्थ्यमाह –
सत्यमर्थवतीति ।
न तु निर्णेष्यसीति ।
त्वया निर्णेतुमशक्यमित्यभिसन्धिः ।
अभिसन्धिमानेव तटस्थं निराकरोति –
किमिति ।
निर्णयस्याशक्यत्वमसिद्धमित्यारम्भवादिनोऽपि गूढोऽभिसन्धिः ।
यथाश्रुतमुपालम्भं तटस्थः परिहरति –
नेति ।
वेदवचनं न भवतीत्यर्थः ।
आरम्भवादी न तु निर्णेष्यसीत्यत्र हेतुं पृच्छति –
कथं तर्हीति ।
यदि न वेदवचनं तर्हि कथं न निर्णेष्यसीति वदसीत्यर्थः ।
निर्णयस्याशक्यत्वे स्वाभिसंहिते हेतुमाह –
बह्विति ।
अद्वैतस्यैव वेदार्थत्वात्तत्साधनपरस्त्वमेक एव, भेदवादिनः पुनरसङ्ख्याताः, ततश्च कथं तेषु जीवत्सु तव निर्णयसिद्धिरित्यर्थः ।
'शतमप्यन्धानां न पश्यति’ इति न्यायमाश्रित्यारम्भवादी परिहरति –
एतदेवेति ।
एकयोगिनमिति ।
एकत्ववादिनमित्यर्थः । अनेकयोगिनो नानात्ववादिनो बहवः प्रतिपक्षा यस्य स तथा, तमित्यर्थः । त्वदीयं यदेकत्ववादीत्यादिवचनमेतदेव मम स्वस्त्ययनं निर्णयसामर्थ्यसूचकमित्यर्थः । नानात्ववादिनां बहुत्वेऽपि न तेषां प्राबल्यशङ्का, नानात्वस्य मानशून्यतायास्तत्र तत्रोक्तत्वाद्वक्ष्यमाणत्वाच्चेति भावः ।
तेषां दौर्बल्याभिप्राये स्थिते फलितमाह –
अत इति ।
एवमात्मैकत्वस्य वादिविप्रतिपत्त्या सन्दिग्धत्वात्तन्निर्णयस्य मुक्तिफलकत्वाच्च विषयप्रयोजनवतीमात्मतत्त्वगोचरां चिन्तामारभते –
आरभे च चिन्तामिति ॥