भेदपक्षं भेदाभेदपक्षं चावधारणतुशब्दाभ्यां क्रमेण निराकुर्वन्नेव सिद्धान्तमाह –
स एव तु स्यादिति ।
न तावज्जीवब्रह्मणोर्भेदोऽस्ति मानाभावात् । न चाभेदे परस्यैव संसारित्वं पराभावो वा स्यादिति वाच्यम् , चिदात्मनः परमार्थत एकत्वेऽपि बुद्ध्युपहितश्चिदात्मा जीवः बुद्धिकारणीभूताविद्योपहितश्चिदात्मा परमेश्वर इत्येवं भेदकल्पनया संसारित्वासंसारित्वव्यवस्थोपपादनसम्भवात् ; तथा च श्रुतिः - ‘कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः’ इति । एतेन नाहमीश्वर इति भेदप्रत्यक्षस्य सुखदुःखादिवैचित्र्यादेश्च जीवेश्वरभेदसाधकत्वं निरस्तम् औपाधिकभेदेनैवोक्तप्रत्यक्षाद्युपपत्त्या वास्तवभेदसाधने तत्प्रत्यक्षादेः सामर्थ्याभावात् । अत एव तयोर्वास्तवौ भेदाभेदाविति पक्षोऽपि निरस्तः, एकत्र वस्तुतो भेदाभेदयोर्विरुद्धत्वाच्च । तस्माद्वस्तुतो जीवः पराभिन्नः, ‘अन्योऽसौ’ इत्यत्र भेददृष्टेर्निन्दितत्वात् ‘एकमेवाद्वितीयम्’ ‘तत्त्वमसि’ इत्याद्यभेदश्रुतेश्चेति भावः ।
एवंवित्पर एव स्यादित्यत्र हेत्वन्तरमाह –
तद्भावस्य त्विति ।
तु-शब्दश्चार्थः सन्पञ्चम्या सम्बध्यते ।
विवृणोति –
तद्विज्ञानेनेति ।
परब्रह्मविज्ञानेनेत्यर्थः ।
ननु परस्यैवंविद्भिन्नत्वेऽपि ‘ब्रह्मविदाप्नोति परम् ‘ इत्यत्र विवक्षिता परभावापत्तिरेवंविदः किं न स्यादिति ; नेत्याह –
न हीति ।
अन्यस्य स्वरूपे स्थिते नष्टे वा अन्यात्मकत्वं न ह्युपपद्यत इत्यर्थः ।
अभेदपक्षेऽप्यनुपपत्तितौल्यमाशङ्कते –
नन्विति ।
यद्यपि ब्रह्मस्वरूपस्य सतो ब्रह्मविदस्तद्भावापत्तिर्मुख्या न सम्भवति, तथाप्यौपचारिकी सा सम्भवतीत्याह –
न, अविद्याकृतेति ।
अविद्याकृतो योऽयमतदात्मभावस्तदपोह एवार्थः पुरुषार्थः तत्स्वरूपत्वात्तद्भावापत्तेः न तद्भावानुपपत्तिरित्यर्थः ।
हेतुं विवृणोति –
या हीत्यादिना ।
उपदिश्यते ‘ब्रह्मविदाप्नोति परम्’ इत्यादिश्रुत्येति शेषः ।
अध्यारोपितस्येति ।
एतेन सङ्ग्रहवाक्यगतातदात्मभावशब्देन प्रत्यगात्मन्यभेदेनाध्यस्तोऽन्नमयादिरनात्मा विवक्षित इति सूचितम् । अन्नमयादेरविद्याकृतत्वविशेषणेन विद्यया अविद्यापोहद्वारा तत्कृतान्नमयादेरपोह इति सूचितम् , प्रत्यगात्मन्यध्यस्तस्य कार्यवर्गस्य साक्षाद्विद्यापोह्यत्वाभावात् ; तदुक्तं पञ्चपादिकायाम् - ‘यतो ज्ञानमज्ञानस्यैव निवर्तकम्’ इति ।
देवदत्तस्य ग्रामादिप्राप्तिवदत्र मुख्यां प्राप्तिं विहायामुख्यप्राप्त्यर्थकता फलवाक्यस्य केन हेतुनावगम्यत इति पृच्छति –
कथमिति ।
परप्राप्तिसाधनत्वेन ‘ब्रह्मविद्’ इति विद्यामात्रोपदेशात्सकार्याविद्यानिवृत्तिरेव परप्राप्तिरिति गम्यत इत्याह –
विद्यामात्रेति ।
नन्वप्राप्तप्राप्तिरपि विद्यामात्रफलं किं न स्यादिति ; नेत्याह –
विद्यायाश्चेति ।
च-शब्दः शङ्कानिरासार्थः अवधारणार्थो वा । लोके शुक्तितत्त्वादिगोचरविद्यायाः सकार्याविद्यानिवृत्तिरेव कार्यत्वेन दृष्टा, नाप्राप्तप्राप्तिरपीत्यर्थः ।
ननु सर्वमस्येदं दृष्टं भवति ‘य एवं वेद’ इत्यादाविव ‘ब्रह्मविद्’ इत्यत्रापि विदेर्विद्यावृत्तिरूपोपास्तिवाचित्वाद्विद्यामात्रोपदेशोऽसिद्ध इति ; नेत्याह –
तच्चेहेति ।
विदेरुक्तोपास्तिपरत्वे लक्षणाप्रसङ्गाद्विद्यामात्रमेव तदर्थ इति नासिद्धिशङ्का, उदाहृतश्रुतौ च ‘यां देवतामुपास्से’ इत्युपक्रमानुसारादिलिङ्गबलाल्लक्षणा न दुष्यतीति विशेष इति भावः ।
ननु ‘ब्रह्मविदाप्नोति परम्’ इत्युपदेशस्य ‘मार्गविदाप्नोति ग्रामम्’ इत्युपदेशतुल्यत्वाद्यथा तत्र मार्गविदः क्रियाद्वारा ग्रामप्राप्तिः अवाप्यो ग्रामश्च मार्गविदो गन्तुः सकाशादन्यः, तथात्रापि ब्रह्मविद्यावतो विद्यावृत्तिलक्षणोपास्तिद्वारा परप्राप्तिः प्राप्तव्यं परं च ब्रह्मविदः सकाशादन्यत्स्यात् ; तथा चाविद्यानिवृत्तिरूपापरप्राप्तिरनुपपन्ना, उपास्तेरविद्यानिवर्तकत्वाभावादिति शङ्कते –
मार्गेति ।
शङ्कामेव विवृणोति –
तदात्मत्व इति ।
अविद्यानिवृत्तिमात्ररूपे परात्मभाव इत्यर्थः ।
'ब्रह्मविदाप्नोति’ इत्यत्र ब्रह्मविद्या ‘अहं ब्रह्म’ इत्याकारा विवक्षिता, गुहानिहितत्ववचनेन प्रवेशवाक्येन च तथा निर्णीतत्वात् ; अत एव प्राप्यं परं ब्रह्मापि ब्रह्मविदो न भिन्नम् ; तथा चोपदेशवैषम्यान्नायं दृष्टान्तो युक्त इत्याह –
नेति ।
तत्र हीति ।
यः प्राप्तव्यो ग्रामः तद्विषयं ज्ञानं न ह्युपदिश्यते ‘त्वं ग्रामोऽसि’ इत्यनुक्तेरित्यर्थः ।
न तथेहेति ।
प्राप्तव्यं यत्परं ब्रह्म तद्विषयमेव ज्ञानम् ‘ब्रह्मवित् - - ‘ इत्युपदिश्यते, न तद्व्यतिरेकेण तदावृत्तिलक्षणस्य साधनान्तरस्य तद्विज्ञानस्य वात्रोपदेशोऽस्ति, ‘वेद’ इत्यस्य साधनान्तरादिपरत्वे लक्षणाप्रसङ्गादिति भावः ।
ननु ‘ब्रह्मविदाप्नोति परम्’ इत्यत्र विद्यामात्रश्रवणेऽपि न तन्मात्रं परप्राप्तिसाधनत्वेनोपदिश्यते, किं तु संहितोपनिषद्युक्तैः कर्मज्ञानैः समुच्चितमेव ब्रह्मविज्ञानम् , अतो विद्यामात्रोपदेशोऽसिद्ध इति पुनः शङ्कते –
उक्तकर्मादीति ।
अविद्यानिवृत्तिमात्रे मोक्षे ब्रह्मविज्ञानव्यतिरिक्तसाधनापेक्षाभावात्समुच्चयवादिना ब्रह्मभावलक्षणोऽन्यो वा मोक्षो ज्ञानकर्मसमुच्चयजन्यो वाच्यः, तत्र चानित्यत्वप्रसङ्गदोषः प्रागेवोक्त इत्याह –
न नित्यत्वादिति ।
'ब्रह्मविदाप्नोति’ इत्यत्र समुच्चयोपदेशो न विवक्षित इति प्रतिज्ञार्थः ।
प्रत्युक्तत्वादिति ।
समुच्चयपक्षस्येति शेषः । एवम् ‘तद्भावस्य तु विवक्षितत्वात्’ इत्यादिना एवंवित्पर एव स्यादित्यत्र परप्राप्तिवचनं प्रमाणमित्युपपादितम् ।
तत्रैव हेत्वन्तरमाह –
श्रुतिश्चेति ।
कार्यस्थस्येति ।
देहादिसङ्घातलक्षणे कार्ये साक्षित्वेन स्थितस्य प्रत्यगात्मनो ब्रह्मस्वरूपत्वं दर्शयतीत्यर्थः ।
एवंवित्पर एवेत्यत्र हेत्वन्तरमाह –
अभयेति ।
अभयप्रतिष्ठावचनोपपत्तिमेव प्रपञ्चयति –
यदि हीति ।
यदा एवंवित्स्वस्माद्भिन्नमीश्वरं न पश्यति ततस्तदा सकलजगद्भयहेतोः परमेश्वरस्य स्वस्मादन्यस्याभावाद्विदुषोऽभयं प्रतिष्ठां विदन्त इति फलवचनमुपपन्नं स्यादिति योजना । विदुषः सकाशात्परमेश्वरस्यान्यत्वे तस्मादस्य भयावश्यम्भावादभयप्रतिष्ठावचनोपपत्तये तयोरनन्यत्वं निश्चीयत इति निष्कर्षः ।
नन्वीश्वरस्यानन्यत्वेऽपि राजादेरन्यस्य सत्त्वात्कथमभयसिद्धिरित्याशङ्क्य जीवपरान्यत्ववद्राजादिजगदप्यसदेवेत्याह –
अन्यस्य चेति ।
राजादिप्रपञ्चस्याप्यन्यत्वेन प्रतीयमानस्योक्तवक्ष्यमाणश्रुतिन्यायैरविद्याकृतत्वे सिद्धे सति विदुषो विद्यया सर्वं जगदवस्त्वेवेति दर्शनमुपपद्यते, तथा च न जगतोऽपि विदुषो भयप्रसक्तिरित्यर्थः । एतदुक्तं भवति – श्रुत्यादिप्रमाणजनितया तत्वदृष्ट्या द्वैतस्याग्रहणादसत्त्वमिति ।
अस्मिन्नर्थे दृष्टान्तमाह –
तद्धीति ।
दृष्टान्तवैषम्यमाशङ्कते –
नैवमिति ।
यथा तिमिराख्यदोषरहितचक्षुष्मता द्वितीयश्चन्द्रो न गृह्यते एवं द्वैतं विदुषा न गृह्यत इति न, किं तु गृह्यत एव, अन्यथा विदुषः शास्त्रार्थोपदेशादौ प्रवृत्त्यभावप्रसङ्गादित्यर्थः ।
व्यवहारकाले विदुषा तद्ग्रहणेऽपि समाध्यवस्थायामग्रहणादविद्वत्साधारण्येन सुषुप्तावग्रहणाच्च न वैषम्यमित्याशयेन परिहरति –
न, सुषुप्तेति ।
सुषुप्तादौ द्वैताग्रहणं द्वैतासत्त्वप्रयुक्तं न भवतीति शङ्कते –
सुषुप्त इति ।
यथा इषुकार इष्वासक्तमनस्तया इषुव्यतिरिक्तं विद्यमानमपि न पश्यति, एवं विद्यमानमेव द्वैतं सुषुप्तौ समाधौ च न पश्यतीत्यर्थः ।
दृष्टान्तवैषम्येण निराकरोति –
न, सर्वाग्रहणादिति ।
इषुकारस्य हि सर्वाग्रहणं नास्ति इषुग्रहणस्यैव सत्त्वात् , सुषुप्त्यादौ तु न कस्यापि विशेषस्य ग्रहणमस्ति, अतो द्वितीयचन्द्रस्येव द्वैतस्य कदाचिदग्रहणादसत्त्वमेव वक्तव्यमित्यर्थः ।
ननु द्वैतस्य सुषुप्तादौ चेदनुपलम्भादसत्त्वं तर्हि जाग्रदादावुपलम्भात्सत्त्वमेव किं न स्यादिति शङ्कते –
जाग्रदिति ।
उपलभ्यमानत्वमात्रं न सत्त्वप्रयोजकम् , तथा सति शुक्तिरूप्यद्वितीयचन्द्रादेरपि सत्त्वप्रसङ्गात् , किं तु बाधायोग्यत्वादिकमन्यदेव सत्त्वप्रयोजकम् , तच्च द्वैतस्य नास्ति ‘नेह नानास्ति किञ्चन’ इत्यादौ सहस्रशो बाधदर्शनादित्यभिप्रेत्य द्वैतस्य शुक्तिरूप्यादेरिवान्वयव्यतिरेकाभ्यामविद्याकार्यत्वं दर्शयति –
न, अविद्याकृतत्वादिति ।
सङ्ग्रहं विवृणोति –
यदन्यग्रहणमिति ।
यदन्यत्वेन गृह्यमाणं जगदित्यर्थः ।
अन्वयमाह –
अविद्याभाव इति ।
मुक्तावविद्याया अभावे जगतोऽभावादिति व्यतिरेको बहिरेव द्रष्टव्यः । न चात्र मानाभावः शङ्कनीयः, ‘सत्किञ्चिदवशिष्यते’ इत्यादेर्मुक्तिप्रतिपादकशास्त्रस्य मानत्वात् ।
नन्वविद्यायां सत्यां गृह्यमाणं द्वैतं यद्यसत्तर्हि सुषुप्ते स्वयमेव प्रकाशमानमद्वैतमपि परमार्थं न स्यात् , तदाप्यविद्यायाः सत्त्वादिति मत्वा शङ्कते –
सुषुप्तेऽग्रहणमपीति ।
न विद्यते ग्रहणं स्वेनान्येन वा यस्य तदग्रहणम् , स्वयञ्ज्योतिःस्वभावमद्वैतमिति यावत् ।
अविद्याकालीनस्याप्यद्वैतस्य न कल्पितत्वम् अन्यानपेक्षस्वभावत्वादिति परिहरति –
नेति ।
सङ्गृहीतमर्थं दृष्टान्तपूर्वकं विवृणोति –
द्रव्यस्य हीत्यादिना ।
लोके प्रसिद्धस्य मृदादिद्रव्यस्य अविक्रिया यत्कुलालादिकारकैरविकृतं मृत्स्वरूपमस्ति तत्तस्य तत्त्वम् अनृतविलक्षणं स्वरूपम् उक्तकारकानपेक्षत्वात् , तस्यैव मृदादिद्रव्यस्य या विक्रिया घटादिविकारावस्था सा तस्य अतत्त्वम् अनृतं रूपमित्यर्थः ।
ननु मृद्वस्तुनः कारकापेक्षमपि विकाररूपं वास्तवं किं न स्यादिति चेत् ; नेत्याह –
न हीति ।
कारकापेक्षं विकारजातं वस्तुनो मृदादेस्तत्त्वं वास्तवं रूपं न भवति कादाचित्कत्वाच्छुक्तिरूप्यादिवदित्यर्थः । ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ‘ इति श्रुतिप्रसिद्धिसङ्ग्रहार्थो हि-शब्दः ।
एवं जगत्कारणस्य ब्रह्मणः परानपेक्षस्वभावत्वान्मृदादिद्रव्यस्येव सत्यत्वमभिप्रेत्य मृदादिविकारस्येव ब्रह्मविकारस्य जगतोऽनृतत्वमाह –
सत इति ।
ननु सतः सत्सामान्यरूपस्य ब्रह्मणो विशेषो नाम कः यस्य कारकापेक्षत्वेन मिथ्यात्वमुच्यते ? तत्राह –
विशेषश्च विक्रियेति ।
विक्रिया विकारात्मकं जगदित्यर्थः ।
अयमेव मिथ्याभूतो विशेषः प्रत्यक्षादिना गृह्यते, न केवलं परमार्थसत्यमद्वैतमित्याशयेनाह –
जाग्रदिति ।
ग्रहणपदं गृह्यमाणार्थकम् ।
एवं द्रव्यस्य हीत्यादिना प्रपञ्चितमर्थं सङ्क्षिप्याह –
यद्धि यस्येति ।
अन्याभाव इति ।
यद्यपि मृदादेः कारकापेक्षं घटादिरूपं कारकाभावेऽपि तिष्ठति तथापि शुक्त्यादेरज्ञानादिसापेक्षं रजतादिरूपं तदभावे न तिष्ठति, तथा सद्रूपस्य ब्रह्मणोऽपि मूलाविद्यादिसापेक्षं जगद्रूपं तदभावे न तिष्ठतीति प्रायिकाभिप्रायेण तदुक्तिः । विवक्षितार्थस्तु – यद्धि यस्य कादाचित्कं रूपं न तत्तस्य तत्त्वं यथा शुक्त्यादे रूप्यादि, यथा वा मृदादेर्घटादि ; यद्धि यस्याव्यभिचारिरूपं तत्तस्य वास्तवं रूपम् , परं तु मृदादिस्वरूपमापेक्षिकसत्यम् , ब्रह्म तु पारमार्थिकसत्यं कदापि व्यभिचाराभावादिति । इममेव विभागमभिप्रेत्य परमार्थसत्यस्य ब्रह्मणो लौकिकसत्यं मृदादिश्रुतौ दृष्टान्तत्वेनोपादीयते । एतेनानाद्यज्ञानादेरपि मिथ्यात्वं व्याख्यातम् , अज्ञानादेरपि चैतन्ये कादाचित्कत्वात् । न च हेत्वसिद्धिः, अज्ञानतत्सम्बन्धजीवत्वादीनां विद्यया निवृत्तिश्रवणादित्यन्यत्र विस्तरः ।
उपसंहरति –
तस्मादिति ।
यथा जाग्रत्स्वप्नयोरनुभूयमानो विशेषः कादाचित्कत्वादविद्याकृतः तथा सुषुप्ते सुषुप्त्यादिसाधकत्वेन प्रकाशमानं सदद्वयं वस्तु नाविद्याकृतम् अन्यानपेक्षस्वभावत्वादित्यर्थः ।
एवं स्वमते भयहेतोरन्यस्य परस्याभावादभयं प्रतिष्ठां विन्दत इत्युपपाद्य एवंवित्परस्मादन्य इति पक्षे तदसम्भवमिदानीमाह –
येषामित्यादिना ।
येषां मते परमार्थत एव जीवादन्यः परो जगच्चान्यत् , तेषां मते विदुषो भयनिवृत्तिर्न स्याद्भयहेतोरन्यस्येश्वरस्य सत्त्वादित्यर्थः ।
ननु परमार्थतोऽन्यस्यापि सत ईश्वरस्य विद्यया नाशसम्भवात्स्यादेव भयनिवृत्तिरिति ; नेत्याह –
सतश्चेति ।
च-शब्दः शङ्कानिरासार्थः । आत्महानं स्वरूपनाशः ।
तत्र दृष्टान्तमाह –
न चासत आत्मलाभ इति ।
यथा शशशृङ्गादेरसत आत्मलाभशब्दितोत्पत्तिर्न सम्भवति तथैवेश्वरस्य परमार्थसतो नाशो नोपपद्यत इत्यर्थः । न च परमार्थस्यापि पटादेर्नाशो दृष्ट इति वाच्यम् , पटादौ परमार्थत्वासम्प्रतिपत्तेः भिन्नेश्वरवादिभिरीश्वरनाशेन विदुषो भयनिवृत्त्यनभ्युपगमाच्चेति भावः ।
नन्वीश्वरस्य प्राणिकर्मसापेक्षस्यैवास्माभिर्भयहेतुत्वमुपेयते न सत्तामात्रेण, विदुषस्तु कर्माभावादभयं भविष्यतीति शङ्कते –
सापेक्षस्येति ।
निराकरोति –
न तस्यापीति ।
ईश्वरं प्रति सहायभूतस्य धर्मादेरपि त्वया परमार्थसत्यत्वाभ्युपगमादीश्वरस्येवात्महानं न सम्भवति ; तथा चास्मिन्नपि पक्षे विदुषो भयानिवृत्तिदोषस्य तुल्यत्वान्नायं परिहारो युक्त इत्यर्थः ।
सङ्ग्रहं विवृणोति –
यद्धर्मादीति ।
नित्यमनित्यं वा यदन्यद्धर्मादिलक्षणं निमित्तमपेक्ष्यान्यद्ब्रह्म भयकारणं स्यात्तस्यापि तथाभूतस्येश्वरवत्परमार्थभूतस्य धर्मादेरात्मनाशाभावादित्यर्थः ।
निमित्तपदव्याख्यानम् –
सहायभूतमिति ।
नित्यमिति साङ्ख्यमताभिप्रायम् , तन्मते धर्मादेः प्रकृतिपरिणामस्य प्रकृत्यात्मना नित्यत्वाभ्युपगमात् ।
परमार्थसतोऽपि धर्मादेरात्महानोपगमे बाधकमाह –
आत्महाने वेति ।
यथा शशशृङ्गादेरसतः सत्त्वापत्तावसत्स्वभाववैपरीत्यं तथा सतः परमार्थस्यापि नाशेनासत्त्वापत्तौ सत्स्वभाववैपरीत्यमापद्येत ; एवं सदसतोरितरेतरतापत्तावुपगम्यमानायामात्माकाशादावपि त्वत्पक्षे आश्वासो न स्यात् , आत्माकाशादेरप्यसत्त्वप्रसङ्ग इत्यर्थः ; तस्मादीश्वरस्य तत्सहायभूतधर्मादेश्च नाशासम्भवादभयवचनं भिन्नेश्वरवादे न सम्भवतीति स्थितम् ।
स्वमते तु नोक्तदोष इत्याह –
एकत्वपक्ष इति ।
निमित्तमविद्या, तया सहैव जीवेश्वरविभागादिलक्षणस्य संसारस्य भ्रान्तिसिद्धत्वाद्विद्यया तन्निवृत्तौ सत्यामभयं विदुषः सम्भवतीति स्वमते भयनिवृत्त्यनुपपत्तिदोषो नास्तीत्यर्थः ।
ननु जीवपरयोरेकत्वपक्षेऽपि पूर्वमसतः संसारस्याविद्यादिकारणवशात्सत्त्वापत्तिर्विद्यया चासत्त्वापत्तिरिति स्वभाववैपरीत्यप्रसङ्गदोषस्तुल्य इत्याशङ्क्याह –
तैमिरिकदृष्टस्य हीति ।
दोषवता पुरुषेण दृष्टस्य द्वितीयचन्द्रादेरनिर्वचनीयत्वाद्वस्तुत उत्पत्तिर्विनाशो वा नास्ति, हि प्रसिद्धमित्यर्थः । अयं भावः – चन्द्रद्वित्वादिवदनिर्वचनीयस्य स्थूलसूक्ष्मात्मनानादिकालमारभ्यानुवर्तमानस्य संसारस्याविद्यादिकारणबलेन सर्गादावात्मलाभोपगमेऽपि नासतः सत्त्वापत्तिः असत उत्पत्त्यनुपगमादुत्पन्नस्यापि संसारस्यात्मवत्सत्त्वानुपगमाच्च ; अत एव विद्याबलात्संसारस्यासत्त्वापत्तावपि न सतोऽसत्त्वापत्तिरूपस्वभाववैपरीत्यं संसारस्य सत्त्वानभ्युपगमादेवेति ।
ननु संसारकारणभूताया अविद्याया आत्मधर्मत्वमेवाभ्युपगन्तव्यं धर्म्यन्तरानुपलम्भात् , तथा तन्निवर्तिकाया विद्याया अपि तत्सामानाधिकरण्यलाभायात्मधर्मत्वमेवोपेयमित्यविद्यादिधर्मवता पुरुषेण निर्धर्मकस्य परस्याभिन्नत्वमिति पक्षः कथं सम्भाव्यत इति मन्वानः शङ्कते –
विद्याविद्ययोरिति ।
किं तयोरात्मधर्मत्वं काल्पनिकं विवक्षितं वास्तवं वा ? आद्ये न परापरयोरेकत्वानुपपत्तिरिति मत्वा द्वितीयं निराकरोति –
न, प्रत्यक्षत्वादिति ।
प्रत्यक्षत्वं साक्षिप्रत्यक्षविषयत्वम् , दृश्यत्वमिति यावत् । तथा च विद्याविद्ययोर्दृश्यत्वाद्दृग्रूपात्मधर्मत्वं तयोर्वस्तुतो न सम्भवतीत्यर्थः ।
तयोः स्वरूपकथनपूर्वकं हेतुं साधयति –
विवेकेति ।
सर्वदृश्यविविक्तात्मतत्त्वगोचरा तत्त्वमस्यादिश्रुतिजनिता वृत्तिर्विवेकः तन्निवर्त्या मूलाविद्या अविवेकः ।
ननु दृश्ययोरपि तयोर्द्रष्टृधर्मत्वं किं न स्यादित्याशङ्क्य अन्यत्रादर्शनादित्याह –
न हीति ।
विद्याविद्ययोः प्रत्यक्षत उपलभ्यमानत्वं प्रपञ्चयति –
अविद्या चेत्यादिना ।
चकारोऽवधारणार्थः । किमात्मतत्त्वं जानासीति गुरुणा पृष्टेन शिष्येण आत्मतत्त्वविषये मूढ एवाहं मम स्वरूपभूतं विज्ञानमविविक्तं विविच्य न ज्ञातमित्येवं स्वानुभवेन सिद्धा मूलाविद्या निरूप्यते, तथा विद्योपदेशे प्रवृत्तेन गुरुणा प्रथमं स्वकीया विद्यानुभूयते, पश्चादनुभवसिद्धां तां शिष्येभ्य उपदिशति, शिष्याश्च तां गृहीत्वा उपपत्तिरभिरवधारयन्तीत्यर्थः । विद्याविद्ययोर्दृश्यत्वे नास्ति विवादावसर इत्याशयः ।
तयोरात्मधर्मत्वनिराकरणमुपसंहरति –
तस्मादिति ।
आत्मधर्मत्वासम्भवान्मूढोऽहं विद्वानहमित्यनुभवानुसारेण नामरूपान्तर्भूतान्तःकरणस्यैव विद्याविद्ये धर्मत्वेनावशिष्येते । तदुक्तं प्रागेवान्तःकरणस्थाविति । ननु वृत्तिरूपाया विद्याया अन्तःकरणधर्मत्वेऽपि नाविद्यायास्तद्धर्मत्वम् अविद्याकार्यस्यान्तःकरणस्याविद्याश्रयत्वायोगादिति चेत् ; नायं दोषः, अविद्यायाश्चैतन्याश्रितत्वेऽपि प्रतीतितः कामादिपरिणाम्यन्तःकरणधर्मत्ववर्णनस्यात्र विवक्षितत्वाद् , जीवचैतन्यस्याविद्यावत्त्वेऽपि वस्तुतस्तद्राहित्यान्न ब्रह्मैक्यानुपपत्तिरित्यावेदितमधस्तादिति सङ्क्षेपः ।
ननु विद्याविद्ययोर्नामरूपान्तर्गतान्तःकरणधर्मत्वेऽपि नामरूपयोरेवात्मधर्मत्वमस्तु ; नेत्याह –
नामरूपे चेति ।
नामरूपे चिदात्मनः कल्पितधर्मावेव न वास्तवधर्मौ, चिदात्मनि तयोः शतशो निषेधोपलम्भात् तयोरर्थान्तरत्वाच्चेति भावः । नामरूपे आत्मधर्मौ न भवत इत्यक्षरार्थः ।
तयोश्चिदात्मनः सकाशादर्थान्तरत्वे श्रुतिमाह –
नामरूपयोरिति ।
ते नामरूपे यदन्तरा यस्माद्भिन्ने तन्नामरूपनिर्वहित्राकाशं ब्रह्मेत्यर्थः ।
नामरूपशब्दितस्य प्रपञ्चस्यात्मनि कल्पितधर्मत्वं सदृष्टान्तमाह –
ते च पुनरिति ।
उदयास्तमयवर्जिते सवितरि यथा तौ कल्प्येते तथेत्यर्थः । एवं बहुप्रपञ्चेनैवंवित्पर एवेति साधितम् ।
तत्र पूर्वोक्तामनुपपत्तिमुद्भाव्य निराकरोति –
अभेद इत्यादिना ।
नेति ।
न तावदानन्दमयः परमात्मा तस्य कार्यात्मतायाः प्रागेवोक्तत्वात् ; नापि तत्प्राप्तिः सङ्क्रमणं प्राप्तेः सङ्क्रमणार्थताया निरसिष्यमाणत्वात् , किं तु ब्रह्मात्मैकत्वविज्ञानमात्रकृता भ्रमनिवृत्तिरत्र सङ्क्रमणम् , अतो नोक्तानुपपत्तिरित्यर्थः ।
सङ्ग्रहं विवृणोति –
न, जलूकावदित्यादिना ।
सङ्क्रमणस्य प्राप्तिरूपत्वनिराकरणार्थमाशङ्कामुद्भावयति –
नन्विति ।
'आनन्दमयमात्मानमुपसङ्क्रमति’ इत्युपसङ्क्रमणं श्रूयते ; तच्चान्नमय इवानन्दमयेऽपि मुख्यमेव किं न स्यादिति शङ्कार्थः ।
दृष्टान्तासिद्ध्या निराकरोति –
नेति ।
सङ्ग्रहं विवृणोति –
न मुख्यमेवेत्यादिना ।
आनन्दमयपर्याये सङ्क्रमणं मुख्यं न भवत्येवेति प्रतिज्ञार्थः ।
न हीति ।
बाह्यात्पुत्रभार्यादिलक्षणादस्मादपरोक्षाल्लोकाद्भोगोपायभूतात्प्रेत्य अन्नमयमुपसङ्क्रामतस्तत्त्वविदो जलूकावदन्नमये सङ्क्रमणं न हि दृश्यत इत्यर्थः । यथा एकतृणस्थाया जलूकायास्तृणान्तरप्राप्तिरूपं सङ्क्रमणं दृश्यते, नैवमेवंविदः शरीरस्थस्यान्नमयसङ्क्रमणं दृश्यत इति यावत् । अतो नानन्दमयेऽपि सङ्क्रमणं प्राप्तिरिति भावः ।
ब्रह्मविदः शरीरस्थत्वादेव प्रकारान्तरेण सङ्क्रमणमपि निरस्तमित्याशयेनाह –
अन्यथा वेति ।
नीडे पक्षिप्रवेशवद्वान्नमये सङ्क्रमणं न दृश्यत इत्यर्थः ।
नन्वेवंवित्परयोरभेदेऽपि तस्य प्रवेशादिरूपं परं प्रति सङ्क्रमणं सम्भवति, मनोमयविज्ञानमययोरात्मसङ्क्रमणस्य तथाविधस्य दृष्टत्वादिति मन्वानः शङ्कते –
मनोमयस्येति ।
संशयात्मकवृत्तिमदन्तःकरणं मनोमयः निश्चयात्मकवृत्तिमदन्तःकरणं विज्ञानमय इति विभागः ।
दृष्टान्तासिद्ध्या निराकरोति –
नेति ।
तत्र संशयनिश्चयरूपयोर्वृत्त्योरेव बहिर्विषयदेशे चक्षुरादिद्वारा निर्गमनं पुनः स्वाश्रयं प्रत्यागमनरूपं सङ्क्रमणं च दृश्यते, न तु साक्षान्मनोमयविज्ञानमययोर्बहिर्निर्गमनं स्वात्मनां प्रत्यागमनरूपं च सङ्क्रमणं दृश्यते, न च सम्भवति, स्वात्मनि स्वस्यैव प्रवेशादिक्रियाया विरुद्धत्वादित्यर्थः ।
मनोमयो मनोमयमेवोपसङ्क्रामति विज्ञानमयो विज्ञानमयमेवोपसङ्क्रामतीत्यर्थकल्पनं प्रक्रमविरुद्धं चेत्याह –
अन्य इति ।
एवंविदित्यर्थः ।
एवं दृष्टान्तं निरस्य दार्ष्टान्तिकं निराकरोति –
तथेति ।
आनन्दमय एव सन्नेवंविदानन्दमयं स्वात्मानमुपसङ्क्रामति प्राप्नोति प्रविशतीति वा नोपपद्यते, स्वात्मनि क्रियाविरोधात्प्रक्रमविरोधाच्चेत्यर्थः ।
सङ्क्रमणस्य प्राप्त्यादिरूपत्वनिराकरणमुपसंहरति –
तस्मादिति ।
ननु स्वात्मनि क्रियाविरोधादानन्दमयसङ्क्रमणमानन्दमयकर्तृकं न भवति चेत् , तर्हि अन्नमयाद्यन्यतमकर्तृकमस्तु ; नेत्याह –
नापीति ।
'आनन्दमयमात्मानमुपसङ्क्रामति’ इत्यत्रान्नमयाद्यन्यतमस्य कर्तृत्वेनाश्रवणादिति भावः ।
फलितमाह –
पारिशेष्यादिति ।
प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गाच्छिष्यमाणे संप्रत्ययः परिशेषः, परिशेष एव पारिशेष्यम् , तस्मादित्यर्थः । एतदुक्तं भवति - आनन्दमयसङ्क्रमणे तावदहमनुभवगोचरः कर्तेति निर्विवादम् ; तच्च कर्तृत्वमन्नमयादिष्वपि प्रसक्तम् अन्नमयादीनामप्यहमनुभवगोचरत्वात् ; तत्प्रतिषेधे सत्यहमनुभवगोचरादन्यत्र स्तम्भादिषु तत्कर्तृत्वाप्रसक्तेः शिष्यमाणे चिदात्मन्येवंवित्त्वेन प्रकृते बुद्ध्युपाधिसम्बन्धादानन्दमयसङ्क्रमणकर्तृत्वमस्तीति प्रमारूपः संप्रत्ययो भवति ; तादृशसंप्रत्ययरूपात्परिशेषात्कोशपञ्चकव्यतिरिक्तकर्तृकमानन्दमयसङ्क्रमणमित्युपपद्यते ; एवमन्नमयादिसङ्क्रमणेऽप्येवंविदेव कर्ता, तस्यैव सर्वत्र सङ्क्रमणे कर्तृत्वेन प्रकृतत्वादिति ।
ज्ञानमात्रं चेति ।
तत्त्वज्ञानमात्रकृतं भ्रान्तिनाशरूपमेव सङ्क्रमणमिति चोपपद्यत इत्यर्थः ।
ननु सङ्क्रमशब्दस्य भ्रमनाशे प्रसिद्ध्यभावात्कथमुपपत्तिरित्याशङ्क्याह –
ज्ञानमात्रे चेति ।
ज्ञानमात्रकृते विभ्रमनाशे सङ्क्रमशब्द उपचर्यते न मुख्यस्तत्र, अतो न प्रसिद्ध्यपेक्षेति भावः ।
एतदेव विशदयति –
आनन्दमयेत्यादिना ।
वस्तुतः सर्वान्तरस्य ब्रह्मणो जगत्सृष्ट्वानुप्रविष्टत्वेन श्रुतस्य बुद्धितादात्म्याद्योऽयमन्नमयादिष्वात्मत्वभ्रमो मूलाविद्याकृतः, स मुमुक्षोः कोशविवेकक्रमेणात्मतत्त्वसाक्षात्कारोत्पत्त्या समूलो विनश्यति ।
ततः किम् ? अत आह –
तदेतस्मिन्निति ।
एतदुक्तं भवति - तत्तत्कोशगोचरविभ्रमनाशस्तत्र तत्र सङ्क्रमो विवक्षित इति ।
एवमुपचारे नियामिकां मुख्यार्थानुपपत्तिमुक्तां स्मारयति –
न ह्यञ्जसेति ।
सर्वगतस्येति ।
पूर्णत्वेनात्मानं मन्यमानस्य विदुष इत्यर्थः ।
वस्त्वन्तरेति ।
अत्रोपसङ्क्रमणकर्मत्वेन श्रुतानामन्नमयादीनामप्राप्तग्रामादीनामिवात्यन्तभिन्नत्व - विप्रकृष्टत्वाद्यभावाच्चेत्यर्थः ।
नन्वत्यन्तभेदविप्रकर्षाद्यभावेऽपि मुख्यप्राप्यता किं न स्यादित्याशङ्क्याह –
न च स्वात्मन एवेति ।
न हि रज्जोः स्वाध्यस्तसर्पसङ्क्रमणं मुख्यं दृष्टमित्यर्थः ।
यद्वा विदुषः स्वव्यतिरिक्तवस्त्वभावाच्च न विद्वत्कर्तृकं सङ्क्रमणं मुख्यं सम्भवतीत्याह –
वस्त्वन्तरेति ।
स्वात्मकर्मकमेव तर्हि मुख्यसङ्क्रमणमस्तु ; नेत्याह –
न च स्वात्मन एवेति ।
तत्रोदाहरणमाह –
न हीति ।
इत्थमेवंवित्परयोरभेदसाधनेन सङ्क्रमणमौपचारिकमिति व्याख्याय प्रकरणस्य महातात्पर्यमुपसंहारव्याजेनाह –
तस्मादिति ।
आनन्दमीमांसासङ्ग्रहार्थमादिग्रहणम् । संव्यवहारविषयत्वयोग्यं यदज्ञातं ब्रह्म, तस्मिन्ब्रह्मणि सर्गादिकं लोकभ्रान्तिसिद्धमुपदिश्यते शुद्धब्रह्मप्रतिपत्त्यर्थमेव, न तु श्रुत्या तात्पर्येण प्रतिपाद्यते, सर्गादेर्मायामात्रत्वादित्यर्थः ।
'यतो वाचः ...’ इति मन्त्रो विद्याफलविषय इत्याह –
तमेतमिति ।
एवं विदित्वा क्रमेण कोशानुपसङ्क्रम्येति योजना । यद्यपि कोशानामुपसङ्क्रमणं नाम भ्रमनिवृत्तिरूपो बाध इत्युक्तम् , स च बाधस्तत्त्वज्ञानबलेन युगपदेव सम्भवति रज्जुतत्त्वज्ञानबलेनेव तत्राध्यस्तसर्पधारादीनाम् ; तथापि तत्त्वप्रतिपत्त्युपायभूते कोशविवेचने क्रमस्य प्रागुक्तत्वात्तत्फलप्राप्तावपि स एव क्रमोऽनूदितः श्रुत्येति मन्तव्यम् ।
न केवलं विद्याफलविषय एवायं मन्त्रः, किं तु कृत्स्नवल्ल्यर्थोपसंहारपरश्चेति तात्पर्यान्तरमाह –
सर्वस्यैवेति ॥