ननु तर्हि तपआदिकमेव वक्तव्यं न त्वाख्यायिकापि ; तत्राह –
आख्यायिकेति ।
नन्वाख्यायिकया कथं स्तुतिलाभः ? तत्राह –
प्रियायेति ।
पिता प्रियाय पुत्राय प्रशस्तामेव विद्यामुपदिशेन्नान्यामिति रीत्या विद्यायाः प्रकर्षो लभ्यत इत्यर्थः । हे भगवन् ब्रह्माधीहि स्मर उपदिशेति यावदिति मन्त्रार्थः ।
अत्तारमिति ।
शरिरेऽन्नशब्दप्रयोगात्तदभ्यन्तरस्य प्राणस्यात्तृत्वमुपचारेणोक्तमिति मन्तव्यम् । यद्वा अन्नशब्देन विराडात्मकं शरीरं विवक्षितम् , तदभ्यन्तरः प्राणश्च सूत्रात्मरूपो हिरण्यगर्भो विवक्षित इति कृत्वा प्राणस्यात्तृत्वमुक्तमिति मन्तव्यम् ।
नन्वन्नप्राणयोरुक्तिः ‘अन्नं ब्रह्मेति व्यजानात्’ ‘प्राणो ब्रह्मेति व्यजानात्’ इति करिष्यमाणे विचार उपयुज्यते, रूपाद्युपलब्धिसाधनानां चक्षुरादीनामुक्तिः क्वोपयुज्यते ? तत्राह –
ब्रह्मोपलब्धौ द्वाराणीति ।
अत्र मनःशब्देन ‘मनो ब्रह्मेति व्यजानात्’ इत्यत्र वक्ष्यमाणमाधिदैविकं मनो गृह्यते । एतच्च ‘विज्ञानं ब्रह्मेति व्यजानात्’ इत्यत्र वक्ष्यमाणस्याधिदैविक विज्ञानस्याप्युपलक्षणम् । वागादीनां चक्षुरादीनां च यथायथं प्राणादिकोशेष्यवन्तर्भूतानां ब्रह्मोपलब्धिद्वारत्वं विवक्षितमिति न चक्षुरादिकथनवैयर्थ्यमिति भावः ।
उक्तानुवादपूर्वकम् ‘यतो वै’ इत्यादेस्तात्पर्यमाह –
उक्त्वा चेत्यादिना ।
निर्विशेषस्य ब्रह्मणो धर्मरूपं लक्षणं न सम्भवतीत्याक्षिपति –
किं तदिति ।
काल्पनिकं धर्मरूपं जगत्कारणत्वं तस्य लक्षणं विवक्षितम् अतो नासम्भव इति श्रुत्या परिहरति –
यत इति ।
प्रयन्तीत्यस्य विवरणमभिसंविशन्तीति ।
तत्राभीत्युपसर्गार्थमाभिमुख्यं विवृणोति –
तादात्म्यमेवेति ।
ब्रह्मणि लीयन्त इत्येव विवक्षितार्थः ।
अत्र ब्रह्मणो भूतलयाधारत्वश्रवणात्प्रकृतित्वरूपं कारणत्वं विवक्षितमित्याशयेनाह –
उत्पत्तीति ।
प्रकृतिरेव हि विकाराणामात्मा स्वरूपमिति स्थापितमारम्भणाधिकरणे, अतो यदात्मकतामित्युक्तम् । यद्यपि ब्रह्मादिस्तम्बपर्यन्तानां भूतानां स्वत उत्पत्त्यादयो न सन्ति, तथापि स्थूलसूक्ष्मोपाधिविशिष्टत्वाकारेण तेषामपि ते सन्तीति भावः । नन्वत्र महाभूतानामाकाशादीनां ग्रहणं कुतो न क्रियते प्राणिष्विवाकाशादिष्वपि भूतशब्दस्य प्रसिद्धत्वात् ? अत एव ‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते’ इत्यत्र भूतशब्देन महाभूतानां ग्रहणमाचार्यैरेव कृतम् , तथा जन्मादिसूत्रे द्विविधान्यपि भूतानि गृहीतानि ; तथा च कथमत्र प्राणिनामेव ग्रहणमिति चेत् , उच्यते - भूतशब्दस्योभयत्र रूढत्वेऽपि प्राणधारणकर्तृवाचिजीवन्तीत्युपपदानुसारेण प्राणिरूढेरेवोन्मेषो न महाभूतविषयरूढेरिति नात्राकाशादिग्रहणप्रसक्तिः ‘सर्वाणि ह वा इमानि भूतानि’ इत्यत्र च ‘अस्य लोकस्य का गतिः’ इति पृथिवीलोकादिकारणप्रश्नानुसारेण महाभूतरूढेरेवोन्मेषो न प्राणिरूढेः ; जन्मादिसूत्रे च जगत्कारणवाक्यानां सर्वेषामेवोदाहरणत्वाद्वाक्यान्तरानुसारेण द्विविधान्यपि भूतानि गृहीतानीति न किञ्चिदवद्यम् ।
अत्र विवक्षितं लक्षणमाह –
तदेतदिति ।
भूतकारणत्वमित्यर्थः । श्रुतौ तद्ब्रह्म तद्विजिज्ञासस्वेत्यर्थक्रमो बोध्यः ।
यद्वा, ननु ब्रह्म जिज्ञासवे कथं जगत्कारणं जिज्ञास्यत्वेनोपदिश्यते ? तत्राह श्रुतिः –
तद्ब्रह्मेति ।
अस्मिन्पक्षे यथाश्रुत एवार्थक्रमः ।
ननु विजिज्ञासस्वेति पित्रा न वक्तव्यम् , स्वरूपविशेषजिज्ञासायाः प्रागेव सिद्धत्वादित्याशङ्क्याह –
यदेवंलक्षणमिति ।
अन्नादेर्ब्रह्मोपलब्धिद्वारत्वमन्यत्रापि प्रसिद्धमित्याह –
श्रुत्यन्तरमिति ।
षष्ठ्यन्तप्राणादिशब्दोपात्तस्य कार्यकरणसङ्घातजातस्याधिष्ठानतया सत्तास्फूर्तिप्रदं द्वितीयान्तप्राणादिशब्दोपात्तं प्रत्यगात्मानं ये श्रुतिन्यायाभ्यां विदुः ते सृष्टेः पूर्वकालेऽपि स्थितं कूटस्थं ब्रह्म आत्मत्वेन निचिक्युर्जानीयुः नेतरे प्रत्यगात्मस्वरूपज्ञानरहिता इति श्रुत्यन्तरार्थः । योऽन्नादेरधिष्ठानतया सत्ताप्रकाशरूपः प्रत्यगात्मा स ब्रह्मैवेत्येवंप्रकारेण ब्रह्मोपलब्धिद्वारत्वं तत्रावगम्यत इति भावः । पितुरिति पञ्चमी । तस्माच्छ्रुत्वेति योजना ।
ननु पित्रा तपसा ब्रह्म विजिज्ञासस्वेत्यनुक्तत्वात्कथं तपसि ब्रह्मविज्ञानसाधनत्वं भृगुणा विनिश्चितम् ? न हि तन्निश्चयं विना तत्र प्रवृत्तिस्तस्य सम्भवतीति शङ्कते –
कुतः पुनरिति ।
परिहरति –
सावशेषोक्तेरिति ।
सावसेषोक्तेस्तपसि ब्रह्मविज्ञानसाधनत्वप्रतिपत्तिर्भृगोरभूदित्यर्थः ।
गुरूक्तार्थानुवादपूर्वुकं तदुक्तेः सावशेषत्वं साधयति –
अन्नादीत्यादिना ।
ब्रह्मणः प्रतिपत्तौ द्वारभूतमन्नादिकम् ‘अन्नं प्राणम्’ इत्यादिनोक्तवानित्यर्थः ।
सावशेषं हि तदिति ।
यद्भूतजन्मादिकारणं तद्ब्रह्म, तत्प्रतिपत्तौ चान्नादि द्वारमित्येतादृशमुपदेशनं सावशेषमिति ।
अत्र हि-शब्दोक्तं हेतुमाह –
साक्षादिति ।
त्वं ब्रह्मेत्यपरोक्षतया ब्रह्मणो निर्देशाभावादित्यर्थः ।
नन्वेतावता कथं गुरूक्तेः सावशेषत्वं सिध्यति ? तत्राह –
अन्यथा हीति ।
सावशेषत्वाभावे हीत्यर्थः ।
स्वरूपेणैवेति ।
प्रत्यक्त्वेनैवेत्यर्थः । वस्तुतः प्रत्यगात्मस्वरूपत्वाद्ब्रह्मण इति भावः ।
भृगोर्वास्तवस्वरूपज्ञाने ताटस्थ्यं वारयति –
जिज्ञासव इति ।
गुरोर्वास्तवस्वरूपबोधने उपेक्षां वारयति –
स्वपुत्रायेति ।
निर्देशस्वरूपमेव दर्शयति –
इदमित्थंरूपमिति ।
इदं त्वया पृष्टं ब्रह्म इत्थंरूपं तव देहे बुद्ध्यादिसाक्षितयोपलभ्यमानचैतन्यरूपमिति निर्देष्टव्यमिति योजना ।
ननु तथैव पित्रा निर्दिष्टं ब्रह्म ; नेत्याह –
न चैवमिति ।
अनुपलम्भादिति भावः ।
ननु तर्हि कीदृशं ब्रह्मोक्तवानिति पृच्छति –
किं तर्हीति ।
परोक्षतयैव ब्रह्मोक्तवानित्याह –
सावशेषमेवेति ।
इत्थं सावशेषोक्तेरिति हेतुं प्रसाध्य तेन तपसि ब्रह्मज्ञानसाधनत्वप्रतिपत्तिप्रकारमाह –
अत इति ।
सावशेषोक्तेरित्यर्थः ।
साधनान्तरमिति ।
स्वस्मिन्विधिवदुपसदनादिलक्षणं यत्साधनमस्ति तदपेक्षयान्यत्साधनमित्यर्थः । ननु परोक्षतया ब्रह्मोपदेशस्य वस्तुतः सावशेषत्वेऽपि तस्य तत्सावशेषत्वं शिष्येण कथं ज्ञातम् , प्रत्यगात्मैव ब्रह्मेति ज्ञानं विना तदुपदेशस्य सावशेषत्वज्ञानासम्भवादिति चेत् ; नैवम् , ब्रह्मवित्सभायां तदीयव्यवहारादिना सामान्यतो जीवो ब्रह्मेति ज्ञात्वा तदैक्यापरोक्ष्याय गुरूपसदनसम्भवेन परोक्षोपदेशस्य सावशेषत्वज्ञानसम्भवात् ।
ननु ब्रह्मात्मैक्यसाक्षात्कारं प्रति चित्तगतप्रतिबन्धनिवृत्तिद्वारा तत्सम्पादनसमर्थं साधनान्तरं ममापेक्षते पिता नूनं निश्चय इत्यनेन प्रकारेण स्वस्यानुष्ठेयं सामान्यतः साधनान्तरं निश्चितमित्यस्तु, तच्च साधनान्तरं तप एव पितुराशयस्थमिति कथं निश्चितमितयाशङ्क्य योग्यताविशेषादित्याह –
तपोविशेषेति ।
तपोरूपसाधनविशेषेत्यर्थः ।
सर्वेति ।
सर्वेषां ज्ञानसाधनानां मध्ये तपसो ज्ञानं प्रत्यतिशयितसाधनत्वेन ब्रह्मविद्व्यवहारे प्रसिद्धत्वादित्यर्थः ।
सङ्ग्रहवाक्यं विवृणोति –
सर्वेषां हीति ।
साध्यपदं ज्ञानपरम् , तस्य नियतत्वमैकान्तिकफलत्वं ; तेन नियतसाध्येन सह साधनतया सम्बद्धानामित्यर्थः ।
तस्मादिति ।
सावशेषोक्त्यादिलिङ्गादित्यर्थः ।
तपसः स्वरूपं दर्शयति –
तच्चेति ।
समाधानमिति ।
उदाहरिष्यमाणस्मृतिगतस्यैकाग्र्यपदस्य व्याख्यानं समाधानमिति । तत्र बाह्यकरणानां समाधानं विषयेभ्यो व्यावृत्तत्वरूपं विवक्षितम् , अन्तःकरणस्य समाधानं तत्त्वे स्थापनमिति विभागः । स्मृतौ तपसः परमत्वविवरणमुत्तरार्धम् । तपः सर्वधर्माणां मध्ये वस्तुगत्या ज्यायो भवति ; स च तपोरूपो धर्मः पर इति विद्वद्भिरप्युच्यत इति तदर्थः । परमार्थतस्तु श्रुतौ स्मृतौ च तपःपदं भाष्यगतसमाधानपदं च तत्त्वचिन्तापरम् , न समाधिपरम् , ‘तप आलोचने’ इति स्मरणात् महावाक्यार्थज्ञानं प्रति त्वम्पदार्थशोधनरूपस्यालोचनस्यैव साधकतमत्वाच्च, अत्र गुरूपदिष्टस्य ब्रह्मलक्षणस्यापि क्रमेण कोशेभ्यः सकाशादात्मतत्त्वस्य विवेचन एवोपयोगाच्च ब्रह्म जिज्ञासोर्भृगोर्जिज्ञासिते ब्रह्मणि विचारं विना जिज्ञासानिवर्तकनिर्णयायोगाच्च । अत एव ‘तद्विजिज्ञासस्व’ इति श्रुतिमूलके जिज्ञासासूत्रे ब्रह्म जिज्ञासोर्विचार एव कर्तव्यत्वेनोपदिष्टः । अत एव चात्र भाष्यवार्तिके प्रथमं यथाश्रुतभाष्यादिकमनुरुध्य पश्चात्तपःशब्दो विचारपरत्वेनोपपत्तिपूर्वकं योजितः । तथा च वार्त्तिकम् - ‘अन्वयव्यतिरेकादिचिन्तनं वा तपो भवेत् । अहं ब्रह्मेति वाक्यार्थबोधायालमिदं यतः’ इति । सूतसंहितायां परमेश्वरेणाप्युक्तम् - ‘कोऽहं मुक्तिः कथं केन संसारं प्रतिपन्नवान् । इत्यालोचनमर्थज्ञास्तपः संशन्ति पण्डिताः’ इति ॥