तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
सत्यं ज्ञानमनन्तं ब्रह्म आकाशादिकार्यमन्नमयान्तं सृष्ट्वा तदेवानुप्रविष्टं विशेषवदिवोपलभ्यमानं यस्मात् , तस्मात् सर्वकार्यविलक्षणम् अदृश्यादिधर्मकमेव आनन्दं तदेवाहमिति विजानीयात् , अनुप्रवेशस्य तदर्थत्वात् ; तस्यैवं विजानतः शुभाशुभे कर्मणी जन्मान्तरारम्भके न भवतः इत्येवमानन्दवल्ल्यां विवक्षितोऽर्थः । परिसमाप्ता च ब्रह्मविद्या । अतः परं ब्रह्मविद्यासाधनं तपो वक्तव्यम् ; अन्नादिविषयाणि च उपासनान्यनुक्तानीत्यतः इदमारभ्यते -

वृत्तानुवादपूर्वकमुत्तरवल्लीमवतारयति –

सत्यं ज्ञानमित्यादिना ।

अनुप्रविष्टशब्देन विवक्षितमर्थमाह –

विशेषवदिवेति ।

सांसारिकधर्मजातं विशेषः ; तस्यावास्तवत्वज्ञापनार्थ इवकारः । तथा च श्रुतिः - ‘ध्यायतीव लेलायतीव’ इति ।

प्रवेशवाक्येन ब्रह्मणो जीवभावोक्तेस्तात्पर्यमाह –

यस्मादिति ।

यस्माद्ब्रह्मैव संसारित्वेनोपुलभ्यत इत्युक्तं तस्मादहं यथोक्तं ब्रह्मैवेति विजानीयादिति तात्पर्यतः प्रदर्शितं भवति । जीवभावेनानुप्रवेशकथनस्य अहं ब्रह्मेति ज्ञानैकप्रयोजनकत्वादित्यर्थः । न हि ब्रह्मैव संसारित्वं प्राप्तमिति ज्ञानात्किञ्चित्प्रयोजनं लभ्यते । प्रतीयमानसंसारित्वनिरसनपूर्वकमहं ब्रह्मेति ज्ञानविवक्षायां तु मुक्तिः प्रयोजनं लभ्यत इति जीवस्य ब्रह्मत्वज्ञान एव प्रवेशवाक्यस्य तात्पर्यम् । एतेनाभेदबोधकवाक्याभावादत्राहं ब्रह्मास्मीति ज्ञानमविवक्षितमिति शङ्कापि निरस्ता वेदितव्या, तात्पर्यतो गुहानिहितवाक्यस्य प्रवेशवाक्यस्य चाभेदज्ञानपरत्वात् ।

अभेदज्ञानफलमप्युक्तमनुवदति –

तस्यैवमिति ।

'इत्युपनिषत्’ इत्युपसंहारवाक्यार्थमप्यनुवदति –

परिसमाप्ता च ब्रह्मविद्येति ।

नन्वेवं वक्तव्यानवशेषणादुत्तरवल्ली व्यर्था ; नेत्याह –

अतः परमिति ।

विद्योक्त्यनन्तरमित्यर्थः । न च कोशपञ्चकविवेचनरूपस्य वक्ष्यमाणस्य तपसोऽपि प्रागभिहितत्वात्पुनस्तदुक्तिर्व्यर्थेति वाच्यम् , तस्यैव तपसो ब्रह्मलक्षणमुखेन कर्तव्यत्वरूपविशेषकथनपूर्वकम् उत्तरवल्ल्याः प्रपञ्चार्थत्वेन पौनरुक्त्याभावात् ।

इतश्च न पौनरुक्त्यमित्याशयेनाह –

अन्नादीति ।