'आनन्दो ब्रह्मेति व्यजानात्’ इत्यादि व्याख्यातुमुपक्रमते –
एवं तपसेत्यादिना ।
विशुद्धात्मेति ।
विशुद्धान्तःकरण इत्यर्थः । अत्र विशुद्धिरन्नप्राणादिषु ब्रह्मलक्षणस्य साकल्येन दर्शनविरोधिदोषदर्शनरूपा विवक्षिता प्रकृतत्वादिति बोध्यम् । शनैः शनैरन्तरनुप्रविश्येति । आध्यात्मिककोशानामिवाधिदैविकानामन्नप्राणादिकोशानामप्युत्तरोत्तरस्य पूर्वपूर्वापेक्षया क्रमेणान्तरत्वं निश्चित्येत्यर्थः ।
आन्तरतममिति ।
सर्वान्तरतममित्यर्थः । स्थूलसूक्ष्मकारणात्मकस्य सर्वस्य दृश्यजातस्य विचारेणैव मिथ्यात्वं तदधिष्ठानभूतस्य प्रत्यगानन्दस्य सर्वान्तरत्वं सर्वकारणत्वं च निश्चित्य तदेवानन्दरूपं ब्रह्माहमिति साक्षात्कृतवानित्यर्थः ।
भृगोस्तपसैव ज्ञानमुत्पन्नमिति वदन्त्याः श्रुतेस्तात्पर्यमाह –
तस्मादिति ।
तपसैव ज्ञानोदयदर्शनादित्यर्थः । समाधानपदं विचारपरमिति प्रागुक्तमत्राप्यनुसन्धेयम् ।
प्रकरणार्थ इति ।
तपसा भृगोर्ज्ञानमुत्पन्नमिति यथाश्रुतार्थे प्रयोजनाभावेन प्रकरणस्य तत्र तात्पर्यायोगादिति भावः । श्रुतौ आनन्दं प्रयन्त्यभिसंविशन्तीति, तस्माद्युक्तमानन्दस्येदं लक्षणमित्याभिप्रायः ।
'सैषा भार्गवी’ इत्यादिवचनं न पितुर्न वा पुत्रस्येत्यसङ्गतिमाशङ्क्याह –
अधुनेति ।
आख्यायिकातोऽपसृत्येति ।
कथारूपत्वं परित्यज्येत्यर्थः । सा पूर्ववल्ल्यां प्रकृता । एषा अस्यां वल्ल्यां संनिहिता । विदिता प्राप्ता ।
व्योमस्वरूपमाह –
हृदयाकाश इति ।
हृदयाकाशाख्ये परमे व्योम्नि या गुहा बुद्धिः तस्यां य आनन्दः तस्य कारणत्वादद्वैतत्वम् ; तस्मिन्प्रतिष्ठितेत्यर्थः ।
ननु कस्मादारभ्य प्रवृत्ताया विद्यायाः प्रत्यगानन्दे परिसमाप्तिरुच्यते ? तत्राह –
अन्नमयादिति ।
'अन्नं ब्रह्म’ इत्यारभ्य पूर्वपूर्वप्रहाणेनोपरि प्रवृत्तेत्यर्थः । तथा चान्नमयादिकोशजातादान्तरतममानन्दरूपमद्वितीयं वस्तु ब्रह्मेत्ययमर्थ आख्यायिकायां निष्पन्न इत्यनया श्रुत्या दर्शितं भवतीति भावः ।
'य एवं वेद’ इत्यादेरर्थमाह –
य एवमन्योऽपीत्यादिना ।
अनेनैव क्रमेणेति ।
अन्नादिषु ब्रह्मलक्षणयोजनारूपेणैव प्रकारेणेत्यर्थः ।
अनुप्रविश्येति ।
अन्नादिषु ब्रह्मत्वबुद्धिपरित्यागपूर्वकं सर्वान्तरमानन्दं कारणत्वेन सम्भाव्य तमानन्दं ब्रह्मभूतमात्मत्वेन यो वेदेत्यर्थः ।
विदुषो ब्रह्मानन्दे प्रतिष्ठारूपफलकीर्तने तत्क्रतुन्यायं सूचयति –
विद्याप्रतिष्ठानादिति ।
विद्याया ब्रह्मानन्दे प्रतिष्ठितत्वात्तादृशमानन्दं विद्वानपि तत्र प्रतितिष्ठतीति युक्तमित्यर्थः विवक्षितमर्थं दर्शयति –
ब्रह्मैवेति ।
नन्वश्रुतं प्रभूतत्वविशेषणं कथं निक्षिप्यते ? तत्राह –
अन्यथेति ।
प्रभूतत्वविशेषणं विना अन्नसामान्यमात्रेणैवान्नवत्त्वे विवक्षिते सति सर्वोऽपि जन्तुः शरीरस्थित्याक्षिप्तेनान्नेनान्नवानेवेति कृत्वा विद्याबलाद्विदुषोऽन्ने विशेषो न स्यात् , अतः प्रभूतत्वविशेषणमावश्यकमित्यर्थः ।
ननु सर्वोऽपि जन्तुरन्नमत्त्येव ; तत्राह –
दीप्ताग्निरिति ।
अन्नवत्त्वं दीप्ताग्नित्वं विना व्यर्थमिति भावः । ननु कृतकृत्यस्य ब्रह्मविदो नेदं फलं भवितुमर्हति, न वा ब्रह्मविद इदं फलं नियमेन दृश्यते, न वा चित्रायागफलन्यायेनास्मिञ्जन्मन्यनुपलभ्यमानस्यामुष्मिकत्वं कल्पयितुं शक्यते तस्य पुनर्जन्माभावात् , तस्मादसङ्गतमिदं फलवचनमिति चेत् ; उच्यते - यथा भूमविद्यायाम् ‘स एकधा भवति’ इत्यादिना सगुणविद्याफलं भूमविद्याफलत्वेन सङ्कीर्त्यते भूमविद्यास्तुत्यर्थम् , तथा वक्ष्यमाणान्नान्नादत्वोपासनफलं प्रकृतब्रह्मविद्याफलत्वेन सङ्कीर्त्यते तत्स्तुत्यर्थमित्यदोषः । एतच्च व्रतोपदेशस्यान्नस्तुत्यर्थत्ववर्णनेन भाष्ये वर्णितप्रायमेवेति मन्तव्यम् ॥