तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
अन्नं न निन्द्यात् । तद्व्रतम् । प्राणो वा अन्नम् । शरीरमन्नादम् । प्राणे शरीरं प्रतिष्ठितम् । शरीरे प्राणः प्रतिष्ठितः । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति । प्रजया पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥ १ ॥
किं च, अन्नेन द्वारभूतेन ब्रह्म विज्ञातं यस्मात् , तस्मात् गुरुमिव अन्नं न निन्द्यात् ; तत् अस्य एवं ब्रह्मविदो व्रतम् उपदिश्यते । व्रतोपदेशो अन्नस्तुतये, स्तुतिभाक्त्वं च अन्नस्य ब्रह्मोपलब्ध्युपायत्वात् । प्राणो वा अन्नम् , शरीरान्तर्भावात्प्राणस्य । यत् यस्यान्तः प्रतिष्ठितं भवति, तत्तस्यान्नं भवतीति । शरीरे च प्राणः प्रतिष्ठितः, तस्मात् प्राणोऽन्नं शरीरमन्नादम् । तथा शरीरमप्यन्नं प्राणोऽन्नादः । कस्मात् प्राणे शरीरं प्रतिष्ठितम् ? तन्निमित्तत्वाच्छरीरस्थितेः । तस्मात् तदेतत् उभयं शरीरं प्राणश्च अन्नमन्नादश्च । येनान्योन्यस्मिन्प्रतिष्ठितं तेनान्नम् ; येनान्योन्यस्य प्रतिष्ठा तेनान्नादः । तस्मात् प्राणः शरीरं च उभयमन्नमन्नादं च । स य एवम् एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति अन्नान्नादात्मनैव । किं च, अन्नवानन्नादो भवतीत्यादि पूर्ववत् ॥

न निन्द्यादिति ।

अपकृष्टमन्नं प्राप्तं न निन्द्यादित्यर्थः, ‘यदृच्छया चोपपन्नमद्याच्छ्रेष्ठमुतावरम्’ इति स्मृतिदर्शनात् ।

ननु ब्रह्मविदः कर्तव्याभावात्कथं तस्यानुष्ठेयतया व्रतमुपदिश्यते ? तत्राह –

व्रतोपदेश इति ।

ननु विदुषा निरसनीयस्यान्नस्य कथं स्तुत्यर्थत्वम् ? तत्राह –

स्तुतिभाक्त्वं चेति ।

शरीरमनआदिरूपेण परिणतिद्वारा अन्नस्य विद्यासाधनत्वादित्यर्थः ।

प्रसङ्गात्काम्यान्युपासनान्याह –

प्राणो वा इत्यादिना ।

तेषां सकामानां प्रजादिफलसम्पादकत्वेऽपि निष्कामनयानुष्ठितानां चित्तैकाग्र्यद्वारा विद्यासाधनत्वाद्विद्याप्रकरणे सङ्गतिरिति वा मन्तव्यम् ।

ननु प्राणस्य कथमन्नत्वमित्याशङ्क्य प्रसिद्धान्नसादृश्यादित्याशयेनाह –

शरीरेऽन्तर्भावादिति ।

एतदेवविवृणोति –

यद्यस्येति ।

तत्तस्यान्नमितीह विवक्षितमित्यर्थः ।

‘प्राणो वा अन्नम्’ इत्यत्र हेतुप्रतिपादकत्वेन ‘शरीरे प्राणः प्रतिष्ठितः’ इति वाक्यमाकृष्य योजयति -

शरीरे चेति ।

तस्मादिति ।

प्राणस्य शरीरे प्रतिष्ठितत्वादित्यर्थः ।

'प्राणे शरीरं प्रतिष्ठितम्’ इति वाक्यसङ्गत्यर्थं श्रुतावपेक्षितं पूरयति –

तथेति ।

प्राणे शरीरस्यान्तर्भावाभावेऽपि प्राणाधीनास्थितिकत्वमात्रेणान्नत्वविवक्षेति भावः ।

'प्राणो वा अन्नम्’ इत्यादेः फलितार्थकथनपरम् ‘तदेतदन्नम्’ इति वाक्यं व्याचष्टे –

तत्तस्मादिति ।

उभयमिति ।

प्रकृतत्वाविशेषादिति भावः ।

श्रुतावपेक्षितं पूरयति –

अन्नादं चेति ।

यत उभयमप्यन्नमन्नादं च तस्मादन्नमन्ने प्रतिष्ठितम् अन्नादश्चान्नादे प्रतिष्ठित इति पर्यवसितार्थ इति भावः ।

उभयोरप्यन्नत्वे अन्नादत्वे च श्रुत्युक्तं नियामकं विशदयति –

येनेति ।

फलितं स्वयमुपसंहरति –

तस्मादिति ।

उभयोरन्नान्नादत्वगोचरमुपासनं विधत्ते –

स य इति ।

अन्नान्नादात्मनैवेति ।

शरीरप्राणात्मनैवेत्यर्थः । प्रतितिष्ठति, चिरं जीवतीति यावत् ॥