पुत्रेणेति ।
पुत्रजन्मना पितृऋणमोक्षद्वारेण या पितुरमृतत्वप्राप्तिः सा अत्रामृतपदेन विवक्षितेत्यर्थः ।
उपस्थनिमित्तमिति ।
यस्मादेतत्सर्वमुपस्थहेतुकं तस्मादनेनैव रूपेण ब्रह्म तत्र स्थितमित्युपास्यमित्यर्थः । इदमुपासनम् ‘विमुक्तिरिति पायौ’ इत्यत्रैव द्रष्टव्यम् । आध्यात्मिकत्वात् ।
सर्वं हीति ।
हि यस्मात्सर्वमाकाशे प्रतिष्ठितं तस्माद्यत्सर्वमाकाशे वर्तते तत्सर्वरूपेणाकाशे ब्रह्मैव प्रतिष्ठितमित्युपास्यमित्यर्थः ।
'तत्प्रतिष्ठा...’ इत्यत्र ब्रह्माभिन्नमाकाशमुपास्यं केवलस्याकाशस्योपास्यत्वायोगादित्याशयेन तस्य ब्रह्माभिन्नत्वमाह –
तच्चेति ।
सर्वाश्रयत्वेन प्रकृतमित्यर्थः ।
तस्मात्तदिति ।
व्यापकत्वनिर्लेपत्वनिरवयवत्वसूक्ष्मत्वसर्वाश्रयत्वादिरूपलक्षणसाम्येनाकाशस्य ब्रह्माभिन्नत्वसम्भवात्तद्ब्रह्मभूतमाकाशमित्यर्थः ।
प्रतिष्ठावानिति ।
अन्नपानादिभिः स्थितिमानित्यर्थः ।
ननु ‘क्षेम इति वाचि’ इत्यादौ फलाश्रवणात्कथं तदुपासनेषु प्रवृत्तिरित्याशङ्क्याह –
यद्यत्रेति ।
यत्र वागादौ यत्फलं कार्यं क्षेमादिकं श्रुतं तद्रूपेण ब्रह्मैवोपास्यमित्युक्तमित्यर्थः ।
ततः किम् ? अत आह –
तदुपासनादिति ।
क्षेमादिगुणेन ब्रह्मोपासनात्क्षेमादिमानेव भवत्यौचित्यादिति द्रष्टव्यमित्यर्थः ।
अत्रार्थे श्रुतिमप्याह –
श्रुत्यन्तराच्चेति ।
तदेवेति ।
तदनुरूपमेव फलं भवतीत्यर्थः । ‘तन्महः’ इत्यादौ तत्पदं ब्रह्मपरम् ; तथा च वार्त्तिकम् - ‘तद्ब्रह्म मह इत्येवमुपासीत ततः फलम्’ इत्यादि ॥