तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
तन्नम इत्युपासीत । नम्यन्तेऽस्मै कामाः । तद्ब्रह्मेत्युपासीत । ब्रह्मवान् भवति । तद्ब्रह्मणः परिमर इत्युपासीत । पर्येणं म्रियन्ते द्विषन्तः सपत्नाः । परि येऽप्रिया भ्रातृव्याः । स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ॥ ४ ॥
तन्नम इत्युपासीत नमनं नमः नमनगुणवत् तदुपासीत । नम्यन्ते प्रह्वीभवन्ति अस्मै उपासित्रे कामाः काम्यन्त इति भोग्या विषया इत्यर्थः । तद्ब्रह्मेत्युपासीत । ब्रह्म परिबृढतममित्युपासीत । ब्रह्मवान् तद्गुणो भवति । तद्ब्रह्मणः परिमर इत्युपासीत ब्रह्मणः परिमरः परिम्रियन्तेऽस्मिन्पञ्च देवता विद्युद्वृष्टिश्चन्द्रमा आदित्योऽग्निरित्येताः । अतः वायुः परिमरः, श्रुत्यन्तरप्रसिद्धेः । स एवायं वायुराकाशेनानन्य इत्याकाशो ब्रह्मणः परिमरः ; तस्मादाकाशं वाय्वात्मानं ब्रह्मणः परिमर इत्युपासीत । एनम् एवंविदं प्रतिस्पर्धिनो द्विषन्तः ; अद्विषन्तोऽपि सपत्ना यतो भवन्ति, अतो विशेष्यन्ते द्विषन्तः सपत्ना इति । एनं द्विषन्तः सपत्नाः ते परिम्रियन्ते प्राणान् जहति । किं च, ये च अप्रिया अस्य भ्रातृव्या अद्विषन्तोऽपि ते च परिम्रियन्ते ॥

परिबृढतममिति ।

विराडात्मकमित्यर्थः ।

ब्रह्मवानिति ।

ब्रह्मणो विराजो यो गुणो भोगः तद्वान्भवतीत्यर्थः ।

परस्येति ।

परस्य मायोपाधिकस्य ब्रह्मणः स्वरूपतयोक्तं यदाकाशं तदाकाशं परिमरत्वगुणकमुपासीतेत्यर्थः ।

आकशस्य परिमरत्वगुणोपपादनाय प्रथमं वायोः परिमरत्वमाह –

परिमर इत्यादिना ।

श्रुत्यन्तरेति ।

वायुं प्रकृत्य ‘तमेताः पञ्च देवता अपियन्ति’ इत्यादिश्रुत्यन्तरप्रसिद्धेरित्यर्थः ।

इदानीमाकाशस्य परिमरत्वं साधयति –

स एवायमिति ।

वायुं प्रत्याकाशस्य कारणत्वाद्वाय्वनन्यत्वमित्यर्थः । तं वाय्वात्मानमाकाशं ब्रह्मणः स्वरूपभूतं परिमरत्वगुणकमुपासीतेत्यर्थः ।

सपत्ना द्विविधाः - द्विषन्तोऽद्विषन्तश्च ; ततः सपत्नानां द्विषन्त इति विशेषणमित्याह –

द्विषन्त इत्यादिना ।

अद्विषन्तोऽपि चेति ।

एनमद्विषन्तोऽपीत्यर्थः ॥