तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
तन्नम इत्युपासीत । नम्यन्तेऽस्मै कामाः । तद्ब्रह्मेत्युपासीत । ब्रह्मवान् भवति । तद्ब्रह्मणः परिमर इत्युपासीत । पर्येणं म्रियन्ते द्विषन्तः सपत्नाः । परि येऽप्रिया भ्रातृव्याः । स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ॥ ४ ॥
‘प्राणो वा अन्नं शरीरमन्नादम्’ इत्यारभ्य आकाशान्तस्य कार्यस्यैव अन्नान्नादत्वमुक्तम् । उक्तं नाम - किं तेन ? तेनैतत्सिद्धं भवति - कार्यविषय एव भोज्यभोक्तृत्वकृतः संसारः, न त्वात्मनीति । आत्मनि तु भ्रान्त्या उपचर्यते । नन्वात्मापि परमात्मनः कार्यम् , ततो युक्तः तस्य संसार इति ; न, असंसारिण एव प्रवेशश्रुतेः । ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । १) इत्याकाशादिकारणस्य हि असंसारिण एव परमात्मनः कार्येष्वनुप्रवेशः श्रूयते । तस्मात्कार्यानुप्रविष्टो जीव आत्मा पर एव असंसारी ; सृष्ट्वा अनुप्राविशदिति समानकर्तृत्वोपपत्तेश्च । सर्गप्रवेशक्रिययोश्चैकश्चेत्कर्ता, ततः क्त्वाप्रत्ययो युक्तः । प्रविष्टस्य तु भावान्तरापत्तिरिति चेत् , न ; प्रवेशस्यान्यार्थत्वेन प्रत्याख्यातत्वात् । ‘अनेन जीवेन आत्मना’ (छा. उ. ६ । ३ । २)इति विशेषश्रुतेः धर्मान्तरेणानुप्रवेश इति चेत् , न ; ‘तत् त्वमसि’ (छा. उ. ६। ८। १६) इति पुनः तद्भावोक्तेः। भावान्तरापन्नस्यैव तदपोहार्था संपत् इति चेत् - न; ‘तत् सत्यम्’ ‘स आत्मा’ ‘तत् त्वमसि’ (छा. उ. ६ । ८ । १६) इति सामानाधिकरण्यात् । दृष्टं जीवस्य संसारित्वमिति चेत् , न ; उपलब्धुरनुपलभ्यत्वात् । संसारधर्मविशिष्ट आत्मोपलभ्यत इति चेत् , न ; धर्माणां धर्मिणोऽव्यतिरेकात् कर्मत्वानुपपत्तेः । उष्णप्रकाशयोर्दाह्यप्रकाश्यत्वानुपपत्तिवत् त्रासादिदर्शनाद्दुःखित्वाद्यनुमीयत इति चेत् , न ; त्रासादेर्दुःखस्य च उपलभ्यमानत्वात् नोपलब्धृधर्मत्वम् । कापिलकाणादादितर्कशास्त्रविरोध इति चेत् , न ; तेषां मूलाभावे वेदविरोधे च भ्रान्तत्वोपपत्तेः । श्रुत्युपपत्तिभ्यां च सिद्धम् आत्मनोऽसंसारित्वम् , एकत्वाच्च । कथमेकत्वमिति, उच्यते - स यश्चायं पुरुषे यश्चासावादित्ये स एकः इत्येवमादि पूर्ववत्सर्वम् ॥

प्राणशरीरादेरन्नान्नादत्वनिरूपणस्य विवक्षितं तात्पर्यं कथयितुं व्यवहितं तदनुवदति –

प्राणो वा अन्नमित्यादिना ।

‘आपो वा अन्नम् , ज्योतिरन्नादम्’ इत्यत्र आपः शरीरारम्भिका विवक्षिताः, ज्योतिश्च जाठरं शरीरारम्भकं वा विवक्षितम् । एवं पृथिव्याकाशावपि शरीरारम्भकावेव विवक्षितौ, प्राणरीरसमभिव्याहारेणाबादीनामाध्यात्मिकत्वावगमात् ; ततश्च शरीरप्राणादीनां प्रत्यगात्मोपाधिभूतानामेव ‘प्राणो वा अन्नम्’ इत्यादिना भोगसाधनत्वरूपमन्नत्वं भोक्तृत्वरूपमन्नादत्वं चोक्तमित्यर्थः ।

उक्तं नाम, किं तेनेति ।

उक्तमस्तु नाम, तेनोक्तेन किं तव प्रयोजनं सिध्यति यदर्थं तदिहानूदितमित्यर्थः ।

तदुक्तिसिद्धं प्रयोजनं कथयति –

तेनैतदिति ।

भोक्तृभोग्यभावादिरूपः सर्वोऽपि संसारः कार्यात्मकोपाधिधर्म एव नात्मधर्म इत्यात्मनो नित्यमुक्तत्वं सिध्यतीत्यर्थः ।

ननु यदि संसारस्य कार्यनिष्ठत्वं श्रुत्यभिमतं तदा जीवात्मापि शरीरप्राणादिवत्कार्यविशेष एवेति तस्य स्वाभाविकः संसारो न भ्रान्तिसिद्ध इति शङ्कते –

नन्वात्मापीति ।

आत्मा कार्यं विभक्तत्वादाकाशादिवदित्यर्थः ।

आगमबाधितमनुमानमित्याशयेन निराकरोति –

नेति ।

असंसारिणः परस्यैव जीवरूपेण प्रवेशश्रवणात्परजीवयोरेकत्वमवगम्यते, ततो नात्मनः कार्यत्वमित्यर्थः ।

सङ्ग्रहं विवृणोति –

तत्सृष्ट्वेत्यादिना ।

न केवलमसंसारिणो जीवरूपेण प्रवेशश्रवणाल्लिङ्गात्परेतरात्मनोरेकत्वनिश्चयः, किं तु क्त्वाश्रुतिबलादपीत्याह –

सृष्ट्वेति ।

स्रष्टा तावत्परमात्मेति निर्विवादम् ; प्रविष्टस्य च ‘पश्यञ्शृण्वन्मन्वानः’ इत्यादौ संसारित्वश्रवणात्प्रवेशे जीवः कर्ता सिद्धः ; तथा च क्त्वाश्रुत्या तयोरेकत्वं निश्चीयते, इतरथा कर्त्रैक्याभावेन क्त्वाश्रुतिविरोधप्रसङ्गादित्यर्थः ।

यदुक्तमसंसारिण एव प्रवेशश्रवणात्परेतरात्मनोरेकत्वमिति, तत्र शङ्कते –

प्रविष्टस्येति ।

प्रविष्टस्य बुद्ध्यादिकार्येषूपादानतया सृष्टिसमय एव सिद्धस्य परस्य जीवरूपभावान्तरात्मना परिणतिरेव प्रवेशो विवक्षितः, अतो न प्रवेशलिङ्गात्तयोरेकत्वसिद्धिरित्यर्थः ।

अस्य चोद्यस्य प्रागेव निरासपूर्वकं प्रवेशपदस्यार्थान्तरपरत्वेन व्याख्यातत्वान्नैवमिति परिहरति –

न, प्रवेशस्येति ।

ननु जीवरूपेण परिणामं विनैव परस्य बुद्धिसम्बन्धात्संसारित्वेन भानमेव प्रवेशपदार्थ इति पूर्वव्याख्यानमयुक्तमिति शङ्कते –

अनेनेति ।

धर्मान्तरेणेति ।

जीवरूपविकारान्तरात्मनैव प्रवेशो न त्वविकृतस्यैव परस्य, अन्यथा जीवेनेति विशेषणवैयर्थ्यापत्तेरित्यर्थः ।

यदि जीवेनेति विशेषणबलाज्जीवस्य ब्रह्मविकारत्वं तत्राभिप्रेतं स्यात्तदा वाक्यशेषविरोधः प्रसज्येतेति दूषयति –

न, तत्त्वमसीतीति ।

जीवस्याकाशादिवद्विकारत्वे तस्य ब्रह्मैक्योपदेशविरोध इत्यर्थः ।

अभेदोपदेशस्यान्यथासिद्धिमाशङ्कते –

भावान्तरेति ।

जीवलक्षणं भावान्तरं विकारान्तरमापन्नस्यैव सतः परस्य संसारित्वप्राप्तौ तदपोहार्था जीवपरयोरभेदध्यानलक्षणा सम्पत् ‘तत्त्वमसि’ इत्युपदिश्यते, न पुनर्जीवस्य ब्रह्मविकारत्वविरुद्धम् ऐक्यमुपदिश्यते, अतो न वाक्यशेषविरोध इत्यर्थः ।

'तत्त्वमसि’ इति वाक्यस्य सम्पदुपासनापरत्वे मानाभावाज्जीवस्य विकारत्वे नाशापत्त्या ‘न जीवो म्रियते’ इति वाक्यशेषविरोधाद्वास्तवस्य संसारस्य सम्पदापोहासम्भवाच्च ‘तत्त्वमसि’ इत्यैक्योपदेश एव ‘सोऽयं देवदत्तः’ इतिवदिति परिहरति –

न, तत्सत्यमिति ।

ननु जीवस्य ब्रह्मत्वं संसारित्वानुभवविरुद्धम् , अतो जीवस्य विकारत्वाभावेऽपि ब्रह्मभिन्नत्वात्सम्पत्परमेव ‘तत्त्वमसि’ इति वाक्यमित्याशयेन शङ्कते –

दृष्टमिति ।

आत्मनः संसारोपलब्धृत्वान्न संसारधर्मकत्वमुपलभ्यमानस्य नीलपीतादेरुपलब्धृधर्मत्वादर्शनादित्यर्थः ।

संसारस्य रूपादिवैलक्षण्यं शङ्कते –

संसारधर्मेति ।

'अहं सुखदुःखादिमान्’ इति संसारस्यात्मधर्मत्वमनुभूयते ; स चानुभवो बाधकाभावात्प्रमैव ; ‘गौरोऽहम्’ ‘नीलोऽहम्’ इत्याद्यनुभवस्तु जीवस्य देहव्यतिरिक्तत्वसाधकश्रुतियुक्तिबाधितः ; अतो न रूपादितुल्यत्वं संसारस्येत्यर्थः ।

आत्मनि संसारस्याप्यसङ्गत्वादिश्रुतिबाधितत्वस्य समानत्वान्नात्मनः संसारित्वं परमार्थम् , अतो नाभेदश्रुत्यनुपपत्तिरित्याशयेन परिहरति –

नेति ।

किं चात्मधर्मत्वेनाभिमतस्य सुखदुःखादेरात्मना सहाभेदो भेदो वा ? आद्ये न संसारस्यात्मधर्मतयोपलभ्यमानता सिध्यतीत्याह –

धर्माणामिति ।

अव्यतिरेकादिति ।

अव्यतिरेकाभ्युपगमादित्यर्थः । अभेदपक्षे धर्माणामुपलब्धिकर्तृकोटिप्रविष्टत्वादुपलब्धिकर्मत्वानुपपत्तिरित्यर्थः । भेदपक्षे न संसारस्यात्मधर्मत्वं सिध्यति । तयोः सम्बन्धानिरुपणात् समवायस्य सूत्रकारेणैव निरस्तत्वादित्यन्यत्र विस्तरः ।

अभेदे कर्तृकर्मभावानुपपत्तिरित्यत्र दृष्टान्तमाह –

उष्णेति ।

'तत्त्वमसि’ इत्यभेदोपदेशस्यात्मनि संसारित्वग्राहकप्रत्यक्षविरोधं परिहृत्य तत्र तद्ग्राहकानुमानविरोधमाशङ्क्य परिहरति –

त्रासादिदर्शनादित्यादिना ।

त्रासादेस्तदनुमेयदुःखादेश्च दृश्यत्वेन वस्तुतो द्रष्टृधर्मत्वासम्भवस्य प्रागेवोक्तत्वादित्याशयेनाह –

न, त्रासादेरिति ।

'तत्त्वमसि’ इत्यभेदोपदेशस्य शास्त्रान्तरविरोधमाशङ्क्य निराकरोति –

कापिलेत्यादिना ।

कापिलादिशास्त्रे हि प्रतिशरीरं वस्तुत आत्मभेदः, तेषां च परमार्थ एव ब्रह्मभेदः, संसारित्वं च तेषां वास्तवमित्यादिप्रक्रिया दृश्यते ; ततो निष्प्रपञ्चब्रह्मात्मैक्यं प्रतिपादयत आगमस्य तर्कशास्त्रविरोधादप्रामाण्यं स्यादिति शङ्कार्थः ।

कापिलादितर्कशास्त्राणां मूलप्रमाणशून्यत्वस्य तर्कपादे प्रतिष्ठापितत्वात्पौरुषेयाणां तेषां वेदवत्स्वतःप्रमाण्यायोगाच्चेत्याशयेनाह –

मूलाभाव इति ।

श्रुतिविरोधे स्मृत्यप्रामाण्यस्य पूर्वतन्त्रे व्यवस्थापितत्वाच्च न तद्विरोधाच्छ्रुत्यप्रामाण्यप्रसङ्ग इत्याशयेनाह –

वेदविरोधे चेति ।

भ्रान्तत्वमप्रामाण्यम् ।

उपपादितमर्थमुपसंहरति –

श्रुत्युपपत्तिभ्यां चेति ।

एवमविकृतस्यैव ब्रह्मणो जीवभावेन प्रवेशादिश्रुत्या दृश्यत्वाद्युपपत्त्या च निश्चितमसंसारित्वमात्मन इत्यर्थः ।

एकत्वाच्चेति ।

आत्मनः परेणैकत्वाच्चासंसारित्वं परस्यासंसारित्वादित्यर्थः ।

एकत्वे मानं पृच्छति –

कथमिति ।

उत्तरश्रुतिरेव मानमित्याशयेनाह –

उच्यत इति ॥