उपसङ्क्रम्येति ।
विद्यया कोशेष्वात्मत्वभ्रममपोह्येति यावत् ।
उपसङ्क्रम्येत्यस्य व्यवहितेन सम्बन्धमाह –
एतत्सामेति ।
'इमाँल्लोकान्’ इत्यादेः सङ्गतिकथनाय व्यवहितमनुवदति –
सत्यमित्यादिना ।
'सत्यं ज्ञानम् - - ‘ इति मन्त्रस्य पूर्वार्धार्थो विस्तरेण व्याख्यात इत्यर्थः ।
'स य एवं वित्’ इत्यादिना विदुषो वागाद्यगोचरब्रह्मानन्दप्राप्तेरुक्तत्वादर्थाद्ब्रह्मवल्ल्यामपि सर्वात्मकब्रह्मभावापत्तिप्रयुक्ता सर्वकामाप्तिः सङ्ग्रहेणोक्तैवेति मत्वाह –
विस्तरेणेति ।
इत्थं वृत्तमनूद्याकाङ्क्षापूर्वकम् ‘इमाँल्लोकान्’ इत्यादिकमवतारयति –
के त इत्यादिना ।
तत्र कामानां स्वरूपे आकाङ्क्षां दर्शयति –
के त इति ।
कामानां कारणे तां दर्शयति –
किंविषया इति ।
साहित्ये कामानामशने च तां दर्शयति –
कथं वेति ।
इत्याकाङ्क्षायां सत्यामेतद्विद्याफलं विस्तरेण वक्तव्यमित्याशयेनोत्तरं वाक्यजातं पठ्यत इत्यर्थः ।
एवमुत्तरग्रन्थस्य व्यवहितया आनन्दवल्ल्या सङ्गतिमुक्त्वा अव्यवहितभृगुवल्ल्यापि सङ्गतिं वक्तुम् ‘भृगुर्वै वारुणिः’ इत्यादौ वृत्तं कीर्तयति –
तत्रेत्यादिना ।
अन्नान्नादत्वेनेति ।
अन्नान्नादभावेनोपासने उपयोगश्चोक्त इत्यर्थः ।
'क्षेम इति वाचि’ इत्यादावुक्तमनुवदति –
ब्रह्मविषयेति ।
तेषूपासनेषु विवक्षितान्फलविशेषानपि कामशब्देनानुवदति –
ये चेति ।
प्रतिनियता इति ।
तत्तदुपासनभेदेन व्यवस्थिता इत्यर्थः ।
तेषां मुक्तिवैलक्षण्यं सूचयति –
अनेकेति ।
नानाविधोपायसाध्या इत्यर्थः ।
अत एव तेषामविद्याकालिकत्वमाह –
आकाशादीति ।
आकाशादयो ये अविद्यायाः कर्यभेदास्तद्विषयास्तत्साध्या एव ते अविद्यावस्थायां दर्शिताः, न तु विद्यावस्थायाम् , विद्यावस्थायां त्वत्रापि वल्ल्याम् ‘स एकः, स य एवंवित् ‘ इत्यादौ पूर्वोक्तमेव ‘सोऽश्नुते सर्वान्कामान्सह’ इति फलं तात्पर्यतो दर्शितमिति भावः ।
इत्थमस्यामपि वल्ल्यां वृत्तानुवादेन फलवचनानुवृत्तिं सूचयित्वा तत्रानुपपत्तिमुद्भावयति –
एकत्वे पुनरिति ।
स्वस्य ब्रह्मणा एकत्वे साक्षात्कृते सति कामयितव्यस्याकाशादिभेदजातस्य तत्साध्यकामजातस्य च सर्वस्यात्मव्यतिरेकेणाभावात्पूर्वावस्थायामिव पुनः कामान्प्रति कामित्वानुपपत्तेरित्यर्थः ।
एवमेकत्वे कामित्वानुपपत्तौ सत्यां फलितमाह –
तत्र कथमिति ।
एकत्वं कामित्वानुपपत्तिर्विद्यावस्था वा तत्र-शब्दार्थः । अविद्यालेशवशेन प्रपञ्चाभासमनुभवन्विद्वान् ‘सर्वस्यात्माहम्’ इति मन्यमानोऽणिमाद्यैश्वर्यभुजां योगिनां यत्कामान्नित्वं कामरूपित्वं चास्ति तन्ममैवेति पश्यन्युगपत्सर्वान्विषयानन्दानश्नुत इत्युपचर्यते । विवक्षितं तु विद्याफलं सर्वात्मकब्रह्मभावमात्रम् । अत एव श्रुत्यन्तरम् - ‘ब्रह्मैव भवति’ इति ।
अतो न फलवचने त्वदुक्तानुपपत्तिर्दोष इत्युत्तरग्रन्थतात्पर्येण समाधत्ते –
उच्यत इति ।
तत्राहेति ।
श्रुतिरिति शेषः ।
पूर्वग्रन्थेऽपि विदुषः सार्वात्म्यमर्थसिद्धमिति दर्शयन् ‘स यश्चायम्’ इत्यादौ वृत्तं कीर्तयति –
पुरुषेत्यादिना ।
पुरुषस्थस्य जीवात्मन आदित्यस्थस्य परमात्मनश्चोत्कर्षापकर्षौ तत्प्रयोजकोपाधी च निरस्यैकत्वविज्ञानेनाविद्याकल्पितानन्नमयादीनानन्दमयान्ताननात्मनः क्रमेणोपसङ्क्रम्य सत्यज्ञानादिलक्षणं फलभूतमद्वैतमापन्नः सर्वात्मा सन्निति योजना ।
अद्वैतस्य ब्रह्मणः फलभूतत्वसिद्धये सुखरूपत्वमाह –
आनन्दमिति ।
तस्य तदर्थमेवानर्थास्पृष्टत्वमाह –
अजममृतमभयमिति ।
तस्य परमार्थत्वमाह –
स्वाभाविकमिति ।
तदर्थं निर्विशेषत्वमाह –
अदृश्यादीति ।
सविशेषस्य दृश्यत्वनियमेन मिथ्यात्वादिति भावः ।
तस्य विकारत्वजडत्वपरिच्छेदान्व्यावर्तयति –
सत्यं ज्ञानमनन्तमिति ।
ननु विदुषः सर्वलोकसञ्चारो न नियत इत्याशङ्क्याह –
आत्मत्वेनानुभवन्निति ।
एतत्प्रकृतं ब्रह्म समत्वात्साम ।
समत्वमेवाह –
सर्वानन्यत्वरूपमिति ।
सर्व्यापिस्वरूपभूतमित्यर्थः ।
स्वनुभवसिद्धस्यात्मैकत्वस्य तज्ज्ञानफलस्य कृतार्थत्वस्य च ख्यापनं निष्फलमित्याशङ्क्याह –
लोकानुग्रहार्थमिति ।
आत्मैकत्वज्ञानं विना न संसारदावानलशान्तिः, अतो यत्नतस्तत्सम्पादनीयं सर्वैरिति ज्ञापनं लोकानुग्रहः ।
गानप्रकारमेव प्रश्नपूर्वकमाह –
कथमित्यादिना ।
हावुशब्दो विस्मयार्थः अभ्यासस्तु तत्रातिशयार्थ इति मत्वाह –
अत्यन्तेति ॥