तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
स य एवंवित् । अस्माल्लोकात्प्रेत्य । एतमन्नमयमात्मानमुपसङ्क्रम्य । एतं प्राणमयमात्मानमुपसङ्क्रम्य । एतं मनोमयमात्मानमुपसङ्क्रम्य । एतं विज्ञानमयमात्मानमुपसङ्क्रम्य । एतमानन्दमयमात्मानमुपसङ्क्रम्य । इमांल्लोकान्कामान्नी कामरूप्यनुसञ्चरन् । एतत्साम गायन्नास्ते । हा३वु हा३वु हा३वु ॥ ५ ॥
अन्नमयादिक्रमेण आनन्दमयमात्मानमुपसङ्क्रम्य एतत्साम गायन्नास्ते । ‘सत्यं ज्ञानम्’ इत्यस्या ऋचः अर्थः व्याख्यातः विस्तरेण तद्विवरणभूतया आनन्दवल्ल्या । ‘सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता’ (तै. उ. २ । १ । १) इति तस्य फलवचनस्य अर्थविस्तारो नोक्तः । के ते ? किंविषया वा सर्वे कामाः ? कथं वा ब्रह्मणा सह समश्नुते ? - इत्येतद्वक्तव्यमितीदमिदानीमारभ्यते । तत्र पितापुत्राख्यायिकायां पूर्वविद्याशेषभूतायां तपः ब्रह्मविद्यासाधनमुक्तम् । प्राणादेराकाशान्तस्य च कार्यस्य अन्नान्नादत्वेन विनियोगश्च उक्तः ; ब्रह्मविषयोपासनानि च । ये च सर्वे कामाः प्रतिनियतानेकसाधनसाध्या आकाशादिकार्यभेदविषयाः, एते दर्शिताः । एकत्वे पुनः कामकामित्वानुपपत्तिः, भेदजातस्य सर्वस्य आत्मभूतत्वात् । तत्र कथं युगपद्ब्रह्मस्वरूपेण सर्वान्कामान् एवंवित्समश्नुत इति, उच्यते - सर्वात्मत्वोपपत्तेः । कथं सर्वात्मत्वोपपत्तिरिति, आह - पुरुषादित्यस्थात्मैकत्वविज्ञानेनापोह्योत्कर्षापकर्षावन्नमयादीन्आत्मनोऽविद्याकल्पितान् क्रमेण सङ्क्रम्य आनन्दमयान्तान् सत्यं ज्ञानमनन्तं ब्रह्म अदृश्यादिधर्मकं स्वाभाविकमानन्दमजममृतमभयमद्वैतं फलभूतमापन्नः इमँल्लोकान्भूरादीननुसञ्चरन्निति व्यवहितेन सम्बन्धः । कथमनुसञ्चरन् ? कामान्नी कामतोऽन्नमस्येति कामान्नी ; तथा कामतो रूपाण्यस्येति कामरूपी ; अनुसञ्चरन् सर्वात्मना इमान् लोकानात्मत्वेन अनुभवन् । किम् ? एतत्साम गायन्नास्ते । समत्वाद्ब्रह्मैव साम सर्वानन्यरूपं गायन् शब्दयन् आत्मैकत्वं प्रख्यापयन् लोकानुग्रहार्थं तद्विज्ञानफलं च अतीव कृतार्थत्वं गायन् आस्ते तिष्ठति । कथम् ? हा३वु हा३वु हा३वु । अहो इत्येतस्मिन्नर्थेऽत्यन्तविस्मयख्यापनार्थम् ॥

उपसङ्क्रम्येति ।

विद्यया कोशेष्वात्मत्वभ्रममपोह्येति यावत् ।

उपसङ्क्रम्येत्यस्य व्यवहितेन सम्बन्धमाह –

एतत्सामेति ।

'इमाँल्लोकान्’ इत्यादेः सङ्गतिकथनाय व्यवहितमनुवदति –

सत्यमित्यादिना ।

'सत्यं ज्ञानम् - - ‘ इति मन्त्रस्य पूर्वार्धार्थो विस्तरेण व्याख्यात इत्यर्थः ।

'स य एवं वित्’ इत्यादिना विदुषो वागाद्यगोचरब्रह्मानन्दप्राप्तेरुक्तत्वादर्थाद्ब्रह्मवल्ल्यामपि सर्वात्मकब्रह्मभावापत्तिप्रयुक्ता सर्वकामाप्तिः सङ्ग्रहेणोक्तैवेति मत्वाह –

विस्तरेणेति ।

इत्थं वृत्तमनूद्याकाङ्क्षापूर्वकम् ‘इमाँल्लोकान्’ इत्यादिकमवतारयति –

के त इत्यादिना ।

तत्र कामानां स्वरूपे आकाङ्क्षां दर्शयति –

के त इति ।

कामानां कारणे तां दर्शयति –

किंविषया इति ।

साहित्ये कामानामशने च तां दर्शयति –

कथं वेति ।

इत्याकाङ्क्षायां सत्यामेतद्विद्याफलं विस्तरेण वक्तव्यमित्याशयेनोत्तरं वाक्यजातं पठ्यत इत्यर्थः ।

एवमुत्तरग्रन्थस्य व्यवहितया आनन्दवल्ल्या सङ्गतिमुक्त्वा अव्यवहितभृगुवल्ल्यापि सङ्गतिं वक्तुम् ‘भृगुर्वै वारुणिः’ इत्यादौ वृत्तं कीर्तयति –

तत्रेत्यादिना ।

अन्नान्नादत्वेनेति ।

अन्नान्नादभावेनोपासने उपयोगश्चोक्त इत्यर्थः ।

'क्षेम इति वाचि’ इत्यादावुक्तमनुवदति –

ब्रह्मविषयेति ।

तेषूपासनेषु विवक्षितान्फलविशेषानपि कामशब्देनानुवदति –

ये चेति ।

प्रतिनियता इति ।

तत्तदुपासनभेदेन व्यवस्थिता इत्यर्थः ।

तेषां मुक्तिवैलक्षण्यं सूचयति –

अनेकेति ।

नानाविधोपायसाध्या इत्यर्थः ।

अत एव तेषामविद्याकालिकत्वमाह –

आकाशादीति ।

आकाशादयो ये अविद्यायाः कर्यभेदास्तद्विषयास्तत्साध्या एव ते अविद्यावस्थायां दर्शिताः, न तु विद्यावस्थायाम् , विद्यावस्थायां त्वत्रापि वल्ल्याम् ‘स एकः, स य एवंवित् ‘ इत्यादौ पूर्वोक्तमेव ‘सोऽश्नुते सर्वान्कामान्सह’ इति फलं तात्पर्यतो दर्शितमिति भावः ।

इत्थमस्यामपि वल्ल्यां वृत्तानुवादेन फलवचनानुवृत्तिं सूचयित्वा तत्रानुपपत्तिमुद्भावयति –

एकत्वे पुनरिति ।

स्वस्य ब्रह्मणा एकत्वे साक्षात्कृते सति कामयितव्यस्याकाशादिभेदजातस्य तत्साध्यकामजातस्य च सर्वस्यात्मव्यतिरेकेणाभावात्पूर्वावस्थायामिव पुनः कामान्प्रति कामित्वानुपपत्तेरित्यर्थः ।

एवमेकत्वे कामित्वानुपपत्तौ सत्यां फलितमाह –

तत्र कथमिति ।

एकत्वं कामित्वानुपपत्तिर्विद्यावस्था वा तत्र-शब्दार्थः । अविद्यालेशवशेन प्रपञ्चाभासमनुभवन्विद्वान् ‘सर्वस्यात्माहम्’ इति मन्यमानोऽणिमाद्यैश्वर्यभुजां योगिनां यत्कामान्नित्वं कामरूपित्वं चास्ति तन्ममैवेति पश्यन्युगपत्सर्वान्विषयानन्दानश्नुत इत्युपचर्यते । विवक्षितं तु विद्याफलं सर्वात्मकब्रह्मभावमात्रम् । अत एव श्रुत्यन्तरम् - ‘ब्रह्मैव भवति’ इति ।

अतो न फलवचने त्वदुक्तानुपपत्तिर्दोष इत्युत्तरग्रन्थतात्पर्येण समाधत्ते –

उच्यत इति ।

तत्राहेति ।

श्रुतिरिति शेषः ।

पूर्वग्रन्थेऽपि विदुषः सार्वात्म्यमर्थसिद्धमिति दर्शयन् ‘स यश्चायम्’ इत्यादौ वृत्तं कीर्तयति –

पुरुषेत्यादिना ।

पुरुषस्थस्य जीवात्मन आदित्यस्थस्य परमात्मनश्चोत्कर्षापकर्षौ तत्प्रयोजकोपाधी च निरस्यैकत्वविज्ञानेनाविद्याकल्पितानन्नमयादीनानन्दमयान्ताननात्मनः क्रमेणोपसङ्क्रम्य सत्यज्ञानादिलक्षणं फलभूतमद्वैतमापन्नः सर्वात्मा सन्निति योजना ।

अद्वैतस्य ब्रह्मणः फलभूतत्वसिद्धये सुखरूपत्वमाह –

आनन्दमिति ।

तस्य तदर्थमेवानर्थास्पृष्टत्वमाह –

अजममृतमभयमिति ।

तस्य परमार्थत्वमाह –

स्वाभाविकमिति ।

तदर्थं निर्विशेषत्वमाह –

अदृश्यादीति ।

सविशेषस्य दृश्यत्वनियमेन मिथ्यात्वादिति भावः ।

तस्य विकारत्वजडत्वपरिच्छेदान्व्यावर्तयति –

सत्यं ज्ञानमनन्तमिति ।

ननु विदुषः सर्वलोकसञ्चारो न नियत इत्याशङ्क्याह –

आत्मत्वेनानुभवन्निति ।

एतत्प्रकृतं ब्रह्म समत्वात्साम ।

समत्वमेवाह –

सर्वानन्यत्वरूपमिति ।

सर्व्यापिस्वरूपभूतमित्यर्थः ।

स्वनुभवसिद्धस्यात्मैकत्वस्य तज्ज्ञानफलस्य कृतार्थत्वस्य च ख्यापनं निष्फलमित्याशङ्क्याह –

लोकानुग्रहार्थमिति ।

आत्मैकत्वज्ञानं विना न संसारदावानलशान्तिः, अतो यत्नतस्तत्सम्पादनीयं सर्वैरिति ज्ञापनं लोकानुग्रहः ।

गानप्रकारमेव प्रश्नपूर्वकमाह –

कथमित्यादिना ।

हावुशब्दो विस्मयार्थः अभ्यासस्तु तत्रातिशयार्थ इति मत्वाह –

अत्यन्तेति ॥