भामतीव्याख्या
वेदान्तकल्पतरुः
 

तस्य च वक्ष्यमाणेन क्रमेण सन्दिग्धत्वात् प्रयोजनवत्वाच्च युक्ता जिज्ञासा, इत्याशयवान्सूत्रकारः तज्जिज्ञासामसूत्रयत् -

अथातो ब्रह्मजिज्ञासेति ।

जिज्ञासया सन्देहप्रयोजने सूचयति । तत्र साक्षादिच्छाव्याप्यत्वाद्ब्रह्मज्ञानं कण्ठोक्तं प्रयोजनम् । न च कर्मज्ञानात्पराचीनमनुष्ठानमिव ब्रह्मज्ञानात्पराचीनं किञ्चिदस्ति, येनैतदवान्तरप्रयोजनं भवेत् । किन्तु ब्रह्ममीमांसाख्यतर्केतिकर्तव्यतानुज्ञातविषयैर्वेदान्तैराहितं निर्विचिकित्सं ब्रह्मज्ञानमेव समस्तदुःखोपशमरूपमानन्दैकरसं परमं नः प्रयोजनम् । तमर्थमधिकृत्य हि प्रेक्षावन्तः प्रवर्तन्तेतराम् । तच्च प्राप्तमप्यनाद्यविद्यावशादप्राप्तमिवेति प्रेप्सितं भवति । यथा स्वग्रीवागतमपि ग्रैवेयकं कुतश्चिद्भ्रमान्नास्तीति मन्यमानः परेण प्रतिपादितमप्राप्तमिव प्राप्नोति । जिज्ञासा तु संशयस्य कार्यमिति स्वकारणं संशयं सूचयति । संशयश्च मीमांसारम्भं प्रयोजयति ।

तथा च शास्त्रे प्रेक्षावत्प्रवृत्तिहेतुसंशयप्रयोजनसूचनात्, युक्तमस्य सूत्रस्य शास्त्रादित्वमित्याह भगवान्भाष्यकारः -

वेदान्तमीमांसाशास्त्रस्य व्याचिख्यासितस्य

अस्माभिः,

इदमादिमं सूत्रम् ।

पूजितविचारवचनो मीमांसाशब्दः । परमपुरुषार्थहेतुभूतसूक्ष्मतमार्थनिर्णयफलता विचारस्य पूजितता । तस्या मीमांसायाः शास्त्रम् , सा ह्यनेन शिष्यते शिष्येभ्यो यथावत्प्रतिपाद्यत इति । सूत्रं च बह्वर्थसूचनात् भवति । यथाहुः - “लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च । सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः” ॥ इति ।

तदेवं सूत्रतात्पर्यं व्याख्याय तस्य प्रथमपदमथेति व्याचष्टे -

तत्राथशब्द आनन्तर्यार्थः परिगृह्यते ।

तेषु सूत्रपदेषु मध्ये योऽयमथशब्दः स आनन्तर्यार्थ इति योजना ।

नन्वाधिकारार्थोऽप्यथशब्दो दृश्यते, यथा ‘अथैष ज्योतिः’ इति वेदे । यथा वा लोके ‘अथ शब्दानुशासनम्’ , ‘अथ योगानुशासनम्’ इति । तत्किमत्राधिकारार्थो न गृह्यत इत्यत आह -

नाधिकारार्थः ।

कुतः,

ब्रह्मजिज्ञासाया अनधिकार्यत्वात् ।

जिज्ञासा तावदिह सूत्रे ब्रह्मणश्च तत्प्रज्ज्ञानाच्च शब्दतः प्रधानं प्रतीयते । न च यथा ‘दण्डी प्रैषानन्वाह’ इत्यत्राप्रधानमपि दण्डशब्दार्थो विवक्ष्यते, एवमिहापि ब्रह्मतज्ज्ञाने इति युक्तम्; ब्रह्ममीमांसाशास्त्रप्रवृत्त्यङ्गसंशयप्रयोजनसूचनार्थत्वेन जिज्ञासाया एव विवक्षितत्वात् । तदविवक्षायां तदसूचनेन काकदन्तपरीक्षायामिव ब्रह्ममीमांसायां, न प्रेक्षावन्तः प्रवर्तेरन् । न हि तदानीं ब्रह्म वा तज्ज्ञानं वाभिधेयप्रयोजने भवितुमर्हतः, अनध्यस्ताहंप्रत्ययविरोधेन वेदान्तानामेवंविधेऽर्थे प्रामाण्यानुपपत्तेः । कर्मप्रवृत्त्युपयोगितयोपचरितार्थानां वा जपोपयोगिनां वा ‘हुं फड्’ इत्येवमादीनामिवाविवक्षितार्थानामपि स्वाध्यायाध्ययनविध्यधीनग्रहणत्वस्य सम्भवात् । तस्मात्सन्देहप्रयोजनसूचनी जिज्ञासा इह पदतो वाक्यतश्च प्रधानं विवक्षितव्या । न च तस्या अधिकार्यत्वम् , अप्रस्तूयमानत्वात् , येन तत्समभिव्याहृतोऽथशब्दोऽधिकारार्थः स्यात् । जिज्ञासाविशेषणं तु ब्रह्मतज्ज्ञानमधिकार्यं भवेत् । न च तदप्यथशब्देन सम्बध्यते, प्राधान्याभावात् । न च जिज्ञासा मीमांसा, येन योगानुशासनवदधिक्रियेत, नान्तत्वं निपात्य ‘माङ्माने’ इत्यस्माद्वा ‘मानपूजायाम्’ इत्यस्माद्वा धातोः ‘मान्बध’ इत्यादिनानिच्छार्थे सनि व्युत्पादितस्य मीमांसाशब्दस्य पूजितविचारवचनत्वात् । ज्ञानेच्छावाचकत्वात्तु जिज्ञासापदस्य, प्रवर्तिका हि मीमांसायां जिज्ञासा स्यात् । न च प्रवर्त्यप्रवर्तकयोरैक्यम् , एकत्वे तद्भावानुपपत्तेः । न च स्वार्थपरत्वस्योपपत्तौ सत्यामन्यार्थपरत्वकल्पना युक्ता, अतिप्रसङ्गात् । तस्मात्सुष्ठूक्तम् “जिज्ञासाया अनधिकार्यत्वात्” इति ।

अथ मङ्गलार्थोऽथशब्दः कस्मान्न भवति । तथा च मङ्गलहेतुत्वात्प्रत्यहं ब्रह्मजिज्ञासा कर्तव्येति सूत्रार्थः सम्पद्यत इत्यत आह -

मङ्गलस्य च वाक्यार्थे समन्वयाभावात् ।

पदार्थ एव हि वाक्यार्थे समन्वीयते, स च वाच्यो वा लक्ष्यो वा । न चेह मङ्गलमथशब्दस्य वाच्यं वा लक्ष्यं वा, किं तु मृदङ्गशङ्खध्वनिवदथशब्दश्रवणमात्रकार्यम् । न च कार्यज्ञाप्ययोर्वाक्यार्थे समन्वयः शब्दव्यवहारे दृष्ट इत्यर्थः ।

तत्किमिदानीं मङ्गलार्थोऽथशब्दः तेषु तेषु न प्रयोक्तव्यः । तथा च “ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ” ॥ इति स्मृतिव्याकोप इत्यत आह -

अर्थान्तरप्रयुक्त एव ह्यथशब्दः श्रुत्या मङ्गलप्रयोजनो भवति ।

अर्थान्तरेष्वानन्तर्यादिषु प्रयुक्तोऽथशब्दः श्रुत्या श्रवणमात्रेण वेणुवीणाध्वनिवन्मङ्गलं कुर्वन् , मङ्गलप्रयोजनो भवति, अन्यार्थमानीयमानोदकुम्भदर्शनवत् । तेन न स्मृतिव्याकोपः । न चेहानन्तर्यार्थस्य सतो न श्रवणमात्रेण मङ्गलार्थतेत्यर्थः ।

स्यादेतत् । पूर्वप्रकृतापेक्षोऽथशब्दो भविष्यति विनैवानन्तर्यार्थत्वम् । तद्यथेममेवाथशब्दं प्रकृत्य विमृश्यते किमयमथशब्द आनन्तर्ये अथाधिकार इति । अत्र विमर्शवाक्येऽथशब्दः पूर्वप्रकृतमथशब्दमपेक्ष्य प्रथमपक्षोपन्यासपूर्वकं पक्षान्तरोपन्यासे । न चास्यानन्तर्यमर्थः, पूर्वप्रकृतस्य प्रथमपक्षोपन्यासेन व्यवायात् । न च प्रकृतानपेक्षा, तदनपेक्षस्य तद्विषयत्वाभावेनासमानविषयतया विकल्पानुपपत्तेः । न हि जातु भवति किं नित्य आत्मा, अथ अनित्या बुद्धिरिति । तस्मादानन्तर्यं विना पूर्वप्रकृतापेक्ष इहाथशब्दः कस्मान्न भवतीत्यत आह -

पूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकात् ।

अस्यार्थः - न वयमानन्तर्यार्थतां व्यसनितया रोचयामहे, किं तु ब्रह्मजिज्ञासाहेतुभूतपूर्वप्रकृतसिद्धये, सा च पूर्वप्रकृतार्थापेक्षत्वेऽप्यथशब्दस्य सिध्यतीति व्यर्थमानन्तर्यार्थत्वावधारणाग्रहोऽस्माकमिति । तदिदमुक्तम् ‘फलतः’ इति । परमार्थतस्तु कल्पान्तरोपन्यासे पूर्वप्रकृतापेक्षा । न चेह कल्पान्तरोपन्यास इति पारिशेष्यादानन्तर्यार्थ एवेति युक्तम् ।

भवत्वानन्तर्यार्थः, किमेवं सतीत्यत आह -

सति चानन्तर्यार्थत्व इति ।

न तावद्यस्य कस्यचिदत्रानन्तर्यमिति वक्तव्यम् , तस्याभिधानमन्तरेणापि प्राप्तत्वात् । अवश्यं हि पुरुषः किञ्चित्कृत्वा किञ्चित्करोति । न चानन्तर्यमात्रस्य दृष्टमदृष्टं वा प्रयोजनं पश्यामः । तस्मात्तस्यात्रानन्तर्यं वक्तव्यं यद्विना ब्रह्मजिज्ञासा न भवति, यस्मिन्सति तु भवन्ती भवत्येव ।

तदिदमुक्तम् -

यत्पूर्ववृत्तं नियमेनापेक्षत इति ।

स्यादेतत् । धर्मजिज्ञासाया इव ब्रह्मजिज्ञासाया अपि योग्यत्वात्स्वाध्यायाध्ययनानन्तर्यम् , धर्मवद्ब्रह्मणोऽप्याम्नायैकप्रमाणगम्यत्वात् । तस्य चागृहीतस्य स्वविषये विज्ञानाजननात् , ग्रहणस्य च स्वाध्यायोऽध्येतव्य इत्यध्ययनेनैव नियतत्वात् ।

तस्माद्वेदाध्ययनानन्तर्यमेव ब्रह्मजिज्ञासाया अप्यथशब्दार्थ इत्यत आह -

स्वाध्यायानन्तर्यं तु समानं,

धर्मब्रह्मजिज्ञासयोः । अत्र च स्वाध्यायेन विषयेण तद्विषयमध्ययनं लक्षयति । तथा च “अथातो धर्मजिज्ञासा”(जै.सू. १-१-१) इत्यनेनैव गतमिति नेदं सूत्रमारब्धव्यम् । धर्मशब्दस्य वेदार्थमात्रोपलक्षणतया धर्मवद्ब्रह्मणोऽपि वेदार्थत्वाविशेषेण वेदाध्ययनानन्तर्योपदेशसाम्यादित्यर्थः ।

चोदयति -

नन्विह कर्मावबोधानन्तर्यं विशेषः,

धर्मजिज्ञासातो ब्रह्मजिज्ञासायाः । अस्यार्थः - “विविदिषन्ति यज्ञेन” (बृ. उ. ४ । ४ । २२) इति तृतीयाश्रुत्या यज्ञादीनामङ्गत्वेन ब्रह्मज्ञाने विनियोगात् , ज्ञानस्यैव कर्मतयेच्छां प्रति प्राधान्यात् , प्रधानसम्बन्धाच्चाप्रधानानां पदार्थान्तराणाम् । तत्रापि च न वाक्यार्थज्ञानोत्पत्तावङ्गभावो यज्ञादीनाम् , वाक्यार्थज्ञानस्य वाक्यादेवोत्पत्तेः । न च वाक्यं सहकारितया कर्माण्यपेक्षत इति युक्तम् , अकृतकर्मणामपि विदितपदपदार्थसम्बन्धानां समधिगतशाब्दन्यायतत्त्वानां गुणप्रधानभूतपूर्वापरपदार्थाकाङ्क्षासंनिधियोग्यतानुसन्धानवतामप्रत्यूहं वाक्यार्थप्रत्ययोत्पत्तेः । अनुत्पत्तौ वा विधिनिषेधवाक्यार्थप्रत्ययाभावेन तदर्थानुष्ठानपरिवर्जनाभावप्रसङ्गः । तद्बोधतस्तु तदर्थानुष्ठानपरिवर्जने परस्पराश्रयः, तस्मिन् सति तदर्थानुष्ठानपरिवर्जनं ततश्च तद्बोध इति । न च वेदान्तवाक्यानामेव स्वार्थप्रत्यायने कर्मापेक्षा, न वाक्यान्तराणामिति साम्प्रतम् , विशेषहेतोरभावात् । ननु “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति वाक्यात्, त्वम्पदार्थस्य, कर्तृभोक्तृरूपस्य जीवात्मनो नित्यशुद्धबुद्धोदासीनस्वभावेन तत्पदार्थेन परमात्मनैक्यमशक्यं द्रागित्येव प्रतिपत्तुम् आपाततोऽशुद्धसत्त्वैर्योग्यताविरहविनिश्चयात् । यज्ञदानतपोऽनाशकतनूकृतान्तर्मलास्तु विशुद्धसत्त्वाः श्रद्दधानायोग्यतावगमपुरःसरं तादात्म्यमवगमिष्यन्तीति चेत् , तत्किमिदानीं प्रमाणकारणं योग्यतावधारणमप्रमाणात्कर्मणो वक्तुमध्यवसितोऽसि, प्रत्यक्षाद्यतिरिक्तं वा कर्मापि प्रमाणम् । वेदान्ताविरुद्धतन्मूलन्यायबलेन तु योग्यतावधारणे कृतं कर्मभिः । तस्मात् “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्यादेः श्रुतमयेन ज्ञानेन जीवात्मनः परमात्मभावं गृहीत्वा, तन्मूलया चोपपत्त्या व्यवस्थाप्य, तदुपासनायां भावनापराभिधानायां दीर्घकालनैरन्तर्यवत्यां ब्रह्मसाक्षात्कारफलायां यज्ञादीनामुपयोगः । यथाहुः - “स तु दीर्धकालनैरन्तर्यसत्कारासेवितो दृढभूमिः”(यो.सू.१-१४) इति ब्रह्मचर्यतपःश्रद्धायज्ञादयश्च सत्काराः । अत एव श्रुतिः - “तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः”(बृ. उ. ४ । ४ । २१) । इति । विज्ञाय तर्कोपकरणेन शब्देन प्रज्ञां भावनां कुर्वीतेत्यर्थः । अत्र च यज्ञादीनां श्रेयःपरिपन्थिकल्मषनिबर्हणद्वारेणोपयोग इति केचित् । पुरुषसंस्कारद्वारेणेत्यन्ये । यज्ञादिसंस्कृतो हि पुरुषः आदरनैरन्तर्यदीर्घकालैरासेवमानो ब्रह्मभावनामनाद्यविद्यावासनां समूलकाषं कषति, ततोऽस्य प्रत्यगात्मा सुप्रसन्नः केवलो विशदीभवति । अत एव स्मृतिः - “महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः” । (मनु. २ । २८) “यस्यैतेऽष्टाचत्वारिंशत्संस्काराः”(दत्तपुराण) इति च । अपरे तु ऋणत्रयापाकरणे ब्रह्मज्ञानोपयोगं कर्मणामाहुः । अस्ति हि स्मृतिः - “ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्” (मनु. ६। ३५) इति । अन्ये तु “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन”(बृ. उ. ४ । ४ । २२) इत्यादिश्रुतिभ्यस्तत्तत्फलाय चोदितानामपि कर्मणां संयोगपृथक्त्वेन ब्रह्मभावनां प्रत्यङ्गभावमाचक्षते, क्रत्वर्थस्येव खादिरत्वस्य वीर्यार्थताम् , ‘एकस्य तूभयार्थत्वे संयोगपृथक्त्वम्’ इति न्यायात् । अत्र च पारमर्षं सूत्रम् - “सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्” (ब्र . अ. ३. पा. ४ सू. २६) इति । यज्ञतपोदानादि सर्वम् , तदपेक्षा ब्रह्मभावनेत्यर्थः । तस्माद्यदि श्रुत्यादयः प्रमाणं यदि वा पारमर्षं सूत्रं सर्वथा यज्ञादिकर्मसमुच्चिता ब्रह्मोपासना विशेषणत्रयवती अनाद्यविद्यातद्वासनासमुच्छेदक्रमेण ब्रह्मसाक्षात्काराय मोक्षापरनाम्ने कल्पत इति तदर्थं कर्माण्यनुष्ठेयानि । न चैतानि दृष्टादृष्टसामवायिकारादुपकारहेतुभूतौपदेशिकातिदेशिकक्रमपर्यन्ताङ्गग्रामसहितपरस्परविभिन्नकर्मस्वरूपतदधिकारिभेदपरिज्ञानं विना शक्यान्यनुष्ठातुम् । न च धर्ममीमांसापरिशीलनं विना तत्परिज्ञानम् । तस्मात्साधूक्तम् ‘कर्मावबोधानन्तर्यं विशेषः’ इति कर्मावबोधेन हि कर्मानुष्ठानसाहित्यं भवति ब्रह्मोपासनाया इत्यर्थः ।

तदेतन्निराकरोति -

न ।

कुतः, कर्मावबोधात्

प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेः ।

इदमत्राकूतम् - ब्रह्मोपासनया भावनापराभिधानया कर्माण्यपेक्ष्यन्त इत्युक्तम् , तत्र ब्रूमः - क्व पुनरस्याः कर्मापेक्षा, किं कार्ये, यथाग्नेयादीनां परमापूर्वे चिरभाविफलानुकूले जनयितव्ये समिदाद्यपेक्षा । स्वरूपे वा, यथा तेषामेव द्विरवत्तपुरोडाशादिद्रव्याग्निदेवताद्यपेक्षा । न तावत्कार्ये, तस्य विकल्पासहत्वात् । तथा हि - ब्रह्मोपासनाया ब्रह्मस्वरूपसाक्षात्कारः कार्यमभ्युपेयः, स चोत्पाद्यो वा स्यात् , यथा संयवनस्य पिण्डः । विकार्यो वा, यथावघातस्य व्रीहयः । संस्कार्यो वा, यथा प्रोक्षणस्योलूखलादयः । प्राप्यो वा, यथा दोहनस्य पयः । न तावदुत्पाद्यः । न खलु घटादिसाक्षात्कार इव जडस्वभावेभ्यो घटादिभ्यो भिन्न इन्द्रियाद्याधेयो ब्रह्मसाक्षात्कारो भावनाधेयः सम्भवति, ब्रह्मणोऽपराधीनप्रकाशतया तत्साक्षात्कारस्य तत्स्वाभाव्येन नित्यतयोत्पाद्यत्वानुपपत्तेः, ततो भिन्नस्य वा भावनाधेयस्य साक्षात्कारस्य प्रतिभाप्रत्ययवत्संशयाक्रान्ततया प्रामाण्यायोगात् , तद्विधस्य तत्सामग्रीकस्यैव बहुलं व्यभिचारोपलब्धेः । न खल्वनुमानविबुद्धं वह्निं भावयतः शीतातुरस्य शिशिरभरमन्थरतरकायकाण्डस्य स्फुरज्ज्वालाजटिलानलसाक्षात्कारः प्रमाणान्तरेण संवाद्यते, विसंवादस्य बहुलमुपलम्भात् , तस्मात्प्रामाणिकसाक्षात्कारलक्षणकार्याभावान्नोपासनाया उत्पाद्ये कर्मापेक्षा । न च कूटस्थनित्यस्य सर्वव्यापिनो ब्रह्मण उपासनातो विकारसंस्कारप्राप्तयः सम्भवन्ति । स्यादेतत् । मा भूद्ब्रह्मसाक्षात्कार उत्पाद्यादिरूप उपासनायाः, संस्कार्यस्तु अनिर्वचनीया नाद्यविद्याद्वयपिधानापनयनेन भविष्यति, प्रतिसीरापिहिता नर्तकीव प्रतिसीरापनयद्वारा रङ्गव्यापृतेन । तत्र च कर्मणामुपयोगः । एतावांस्तु विशेषः - प्रतिसीरापनये पारिषदानां नर्तकीविषयः साक्षात्कारो भवति । इह तु अविद्यापिधानापनयमात्रमेव नापरमुत्पाद्यमस्ति, ब्रह्मसाक्षात्कारस्य ब्रह्मस्वभावस्य नित्यत्वेन अनुत्पाद्यत्वात् । अत्रोच्यते - का पुनरियं ब्रह्मोपासना । किं शाब्दज्ञानमात्रसन्ततिः, आहो निर्विचिकित्सशाब्दज्ञानसन्ततिः । यदि शाब्दज्ञानमात्रसन्ततिः, किमियमभ्यस्यमानाप्यविद्यां समुच्छेत्तुमर्हति । तत्त्वविनिश्चयस्तदभ्यासो वा सवासनं विपर्यासमुन्मूलयेत् , न संशयाभ्यासः, सामान्यमात्रदर्शनाभ्यासो वा । न हि स्थाणुर्वा पुरुषो वेति वा, आरोहपरिणाहवत् द्रव्यमिति वा शतशोऽपि ज्ञानमभ्यस्यमानं पुरुष एवेति निश्चयाय पर्याप्तम् , ऋते विशेषदर्शनात् । ननूक्तं श्रुतमयेन ज्ञानेन जीवात्मनः परमात्मभावं गृहीत्वा युक्तिमयेन च व्यवस्थाप्यत इति । तस्मान्निर्विचिकत्सशाब्दज्ञानसन्ततिरूपोपासना कर्मसहकारिण्यविद्याद्वयोच्छेदहेतुः । न चासावनुत्पादितब्रह्मानुभवा तदुच्छेदाय पर्याप्ता । साक्षात्काररूपो हि विपर्यासः साक्षात्काररूपेणैव तत्त्वज्ञानेनोच्छिद्यते, न तु परोक्षावभासेन, दिङ्मोहालातचक्रचलद्वृक्षमरुमरीचिसलिलादिविभ्रमेष्वपरोक्षावभासिषु अपरोक्षावभासिभिरेव दिगादितत्त्वप्रत्ययैर्निवृत्तिदर्शनात् । नो खल्वाप्तवचनलिङ्गादिनिश्चितदिगादितत्त्वानां दिङ्मोहादयो निवर्तन्ते । तस्मात्त्वम्पदार्थस्य तत्पदार्थत्वेन साक्षात्कार एषितव्यः । एतावता हि त्वम्पदार्थस्य दुःखिशोकित्वादिसाक्षात्कारनिवृत्तिः, नान्यथा । न चैष साक्षात्कारो मीमांसासहितस्यापि शब्दप्रमाणस्य फलम् , अपि तु प्रत्यक्षस्य, तस्यैव तत्फलत्वनियमात् । अन्यथा कुटजबीजादपि वटाङ्कुरोत्पत्तिप्रसङ्गात् । तस्मान्निर्विचिकित्सावाक्यार्थभावनापरिपाकसहितमन्तःकरणं त्वम्पदार्थस्यापरोक्षस्य तत्तदुपाध्याकारनिषेधेन तत्पदार्थतामनुभावयतीति युक्तम् । न चायमनुभवो ब्रह्मस्वभावो येन न जन्येत, अपि तु अन्तःकरणस्यैव वृत्तिभेदो ब्रह्मविषयः । न चैतावता ब्रह्मणो नापराधीनप्रकाशता । न हि शाब्दज्ञानप्रकाश्यं ब्रह्म स्वयं प्रकाशं न भवति । सर्वोपाधिरहितं हि स्वयञ्ज्योतिरिति गीयते, न तूपहितमपि । यथाह स्म भगवान् भाष्यकारः - “नायमेकान्तेनाविषयः” इति । न चान्तःकरणवृत्तावप्यस्य साक्षात्कारे सर्वोपाधिविनिर्मोकः, तस्यैव तदुपाधेर्विनश्यदवस्थस्य स्वपररूपोपाधिविरोधिनो विद्यमानत्वात् । अन्यथा चैतन्यच्छायापत्तिं विनान्तःकरणवृत्तेः स्वयमचेतनायाः स्वप्रकाशत्वानुपपत्तौ साक्षात्कारत्वायोगात् । न चानुमितभावितवह्निसाक्षात्कारवत् प्रतिभात्वेनास्याप्रामाण्यम् , तत्र वह्निस्वलक्षणस्य परोक्षत्वात् । इह तु ब्रह्मस्वरूपस्योपाधिकलुषितस्य जीवस्य प्रागप्यपरोक्षतेति । नहि शुद्धबुद्धत्वादयो वस्तुतस्ततोऽतिरिच्यन्ते । जीव एव तु तत्तदुपाधिरहितः शुद्धबुद्धत्वादिस्वभावो ब्रह्मेति गीयते । न च तत्तदुपाधिविरहोऽपि ततोऽतिरिच्यते । तस्मात्यथा गान्धर्वशास्त्रार्थज्ञानाभ्यासाहितसंस्कारसचिवश्रोत्रेन्द्रियेण षड्जादिस्वरग्राममूर्छनाभेदमध्यक्षमनुभवति, एवं वेदान्तार्थज्ञानाभ्यासाहितसंस्कारो जीवः स्वस्य ब्रह्मभावमन्तःकरणेनेति । अन्तःकरणवृत्तौ ब्रह्मसाक्षात्कारे जनयितव्ये अस्ति तदुपासनायाः कर्मापेक्षेति चेत् न, तस्याः कर्मानुष्ठानसहभावाभावेन तत्सहकारित्वानुपपत्तेः । न खलु “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्यादेर्वाक्यान्निर्विचिकित्सं शुद्धबुद्धोदासीनस्वभावमकर्तृत्वाद्युपेतमपेतब्राह्मणत्वादिजातिं देहाद्यतिरिक्तमेकमात्मानं प्रतिपद्यमानः कर्मस्वधिकारमवबोद्धुमर्हति । अनर्हश्च कथं कर्ता वाधिकृतो वा । यद्युच्येत निश्चितेऽपि तत्त्वे विपर्यासनिबन्धनो व्यवहारोऽनुवर्तमानो दृश्यते, यथा गुडस्य माधुर्यविनिश्चये अपि पित्तोपहतेन्द्रियाणां तिक्ततावभासानुवृत्तिः, आस्वाद्य थूत्कृत्य त्यागात् । तस्मादविद्यासंस्कारानुवृत्त्या कर्मानुष्ठानम् , तेन च विद्यासहकारिणा तत्समुच्छेद उपपत्स्यते । न च कर्माविद्यात्मकं कथमविद्यामुच्छिनत्ति, कर्मणो वा तदुच्छेदकस्य कुत उच्छेदः इति वाच्यम् , सजातीयस्वपरविरोधिनां भावानां बहुलमुपलब्धेः । यथा पयः पयोऽन्तरं जरयति, स्वयं च जीर्यति, यथा विषं विषान्तरं शमयति, स्वयं च शाम्यति, यथा वा कतकरजो रजोऽन्तराविले पाथसि प्रक्षिप्तं रजोऽन्तराणि भिन्दत्स्वयमपि भिद्यमानमनाविलं पाथः करोति । एवं कर्माविद्यात्मकमपि अविद्यान्तराण्यपगमयत्स्वयमप्यपगच्छतीति । अत्रोच्यते - सत्यम् , “सदेव सोम्येदमग्र आसीत्” (छा. उ. ६ । २ । १) इत्युपक्रमात् “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्यन्ताच्छब्दात् ब्रह्ममीमांसोपकरणादसकृदभ्यस्तात् , निर्विचिकित्सेऽनाद्यविद्योपादानदेहाद्यतिरिक्तप्रत्यगात्मतत्त्वावबोधे जातेऽपि अविद्यासंस्कारानुवृत्तानुवर्तन्ते सांसारिकाः प्रत्ययास्तद्व्यवहाराश्च, तथाविधानाप्ययं व्यवहारप्रत्ययान्मिथ्येति मन्यमानो विद्वान्न श्रद्धत्ते, पित्तोपहतेन्द्रिय इव गुडं थूत्कृत्य त्यजन्नपि तस्य तिक्तताम् । तथा चायं क्रियाकर्तृकरणेतिकर्तव्यताफलाप्रपञ्चमतात्त्विकं विनिश्चिन्वन् कथमधिकृतो नाम, विदुषो ह्यधिकारः, अन्यथा पशुशूद्रादीनामप्यधिकारो दुर्वारः स्यात् । क्रियाकर्त्रादिस्वरूपविभागं च विद्वस्यमान इह विद्वानभिमतः कर्मकाण्डे । अत एव भगवान् विद्वद्विषयत्वं शास्त्रस्य वर्णयाम्बभूव भाष्यकारः । तस्माद्यथा राजजातीयाभिमानकर्तृके राजसूये न विप्रवैश्यजातीयाभिमानिनोरधिकारः । एवं द्विजातिकर्तृक्रियाकरणादिविभागाभिमानिकर्तृके कर्मणि न तदनभिमानिनोऽधिकारः । न चानधिकृतेन समर्थेनापि कृतं वैदिकं कर्म फलाय कल्पते, वैश्यस्तोम इव ब्राह्मणराजन्याभ्याम् । तेन दृष्टार्थेषु कर्मसु शक्तः प्रवर्तमानः प्राप्नोतु फलम् , दृष्टत्वात् । अदृष्टार्थेषु तु शास्त्रैकसमधिगम्यं फलमनधिकारिणि न युज्यत इति नोपासनायाः कार्ये कर्मापेक्षा । स्यादेतत् । मनुष्याभिमानवदधिकारिके कर्मणि विहिते यथा तदभिमानरहितस्यानधिकारः, एवं निषेधविधयोऽपि मनुष्याधिकारा इति तदभिमानरहितस्तेष्वपि नाधिक्रियेत, पश्वादिवत् । तथा चायं निषिद्धमनुतिष्ठन्न प्रत्यवेयात् , तिर्यगादिवदिति भिन्नकर्मतापातः । मैवम् । न खल्वयं सर्वथा मनुष्याभिमानरहितः, किं त्वविद्यासंस्कारानुवृत्त्यास्य मात्रया तदभिमानोऽनुवर्तते । अनुवर्तमानं च मिथ्येति मन्यमानो न श्रद्धत्त इत्युक्तम् । किमतो यद्येवम् , एतदतो भवतिविधिषु श्राद्धोऽधिकारी नाश्राद्धः । ततश्च मनुष्याद्यभिमानं नश्रद्धधानो न विधिशास्त्रेष्वधिक्रियते । तथा च स्मृतिः - “अश्रद्धया हुतं दत्तम्”(भ.गी.१७-२८) इत्यादिका । निषेधशास्त्रं तु न श्रद्धामपेक्षते । अपि तु निषिध्यमानक्रियोन्मुखो नर इत्येव प्रवर्तते । तथा च सांसारिक इव शब्दावगतब्रह्मतत्त्वोऽपि निषेधमतिक्रम्य प्रवर्तमानः प्रत्यवैतीति न भिन्नकर्मदर्शनाभ्युपगमः । तस्मान्नोपासनायाः कार्ये कर्मापेक्षा । अत एव नोपासनोत्पत्तावपि, निर्विचिकित्सशाब्दज्ञानोत्पत्त्युत्तरकालमनधिकारः कर्मणीत्युक्तम् । तथा च श्रुतिः - “नकर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ।”(कैवल्योपनिषत्) तत्किमिदानीमनुपयोग एव सर्वथेह कर्मणाम् , तथा च “विविदिषन्ति यज्ञेन”(बृ. उ. ४ । ४ । २२) इत्याद्याः श्रुतयो विरुध्येरन् । न विरुध्यन्ते । आरादुपकारकत्वात्कर्मणां यज्ञादीनाम् । तथा हि - तमेतमात्मानं वेदानुवचनेन-नित्यस्वाध्यायेन, ब्राह्मणा विविदिषन्ति-वेदितुमिच्छन्ति, न तु विदन्ति । वस्तुतः प्रधानस्यापि वेदनस्य प्रकृत्यर्थतया शब्दतो गुणत्वात् , इच्छायाश्च प्रत्ययार्थतया प्राधान्यात् , प्रधानेन च कार्यसंप्रत्ययात् । नहि राजपुरुषमानयेत्युक्ते वस्तुतः प्रधानमपि राजा पुरुषविशेषणतया शब्दत उपसर्जन आनीयतेऽपि तु पुरुष एव, शब्दतस्तस्य प्राधान्यात् । एवं वेदानुवचनस्येव यज्ञस्यापीच्छासाधनतया विधानम् । एवं तपसोऽनाशकस्य । कामानशनमेव तपः, हितमितमेध्याशिनो हि ब्रह्मणि विविदिषा भवति, न तु सर्वथानश्नतो मरणात् । नापि चान्द्रायणादि तपःशीलस्य, धातुवैषम्यापत्तेः । एतानि च नित्यान्युपात्तदुरितनिबर्हणेन पुरुषं संस्कुर्वन्ति । तथा च श्रुतिः - “स ह वा आत्मयाजी यो वेद इदं मेऽनेनाङ्गं संस्क्रियत इदं मेऽनेनाङ्गमुपधीयते” (शत. ब्रा. ११ । २ । ६ । १३) इति । अनेनेति हि प्रकृतं यज्ञादि परामृशति । स्मृतिश्च - “यस्यैतेऽष्टाचत्वारिंशत्संस्काराः”(दत्तपुराण) इति । नित्यनैमित्तिकानुष्ठानप्रक्षीणकल्मषस्य च विशुद्धसत्त्वस्याविदुष एव उत्पन्नविविदिषस्य ज्ञानोत्त्पत्तिं दर्शयत्याथर्वणी श्रुतिः - “विशुद्धसत्त्वस्ततस्तु तं पश्यति निष्कलं ध्यायमानः”(मु. उ. ३ । १ । ८) इति । स्मृतिश्च - “ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः”(म. भा. शां. २०४ । ८) इत्यादिका । कॢप्तेनैव च नित्यानां कर्मणां नित्येहितेनोपात्तदुरितनिबर्हणद्वारेण पुरुषसंस्कारेण ज्ञानोत्पत्तावङ्गभावोपपत्तौ न संयोग पृथक्त्वेन साक्षादङ्गभावो युक्तः, कल्पनागौरवापत्तेः । तथा हि - नित्यकर्मणामनुष्ठानाद्धर्मोत्पादः, ततः पाप्मा निवर्तते, स हि अनित्याशुचिदुःखरूपे संसारे नित्यशुचिसुखख्यातिलक्षणेन विपर्यासेन चित्तसत्त्वं मलिनयति, ततः पापनिवृत्तौ प्रत्यक्षोपपत्तिप्रवृत्तिद्वारापावरणे सति प्रत्यक्षोपपत्तिभ्यां संसारस्य अनित्याशुचिदुःखरूपतामप्रत्यूहमवबुध्यते, ततोऽस्य अस्मिन्ननभिरतिसंज्ञं वैराग्यमुपजायते, ततस्तज्जिहासोपावर्तते, ततो हानोपायं पर्येषते, पर्येषमाणश्चात्मतत्त्वज्ञानमस्योपाय इत्युपश्रुत्य तज्जिज्ञासते, ततः श्रवणादिक्रमेण तज्ज्ञानातीत्यारादुपकारकत्वं तत्त्वज्ञानोत्पादं प्रति चित्तसत्त्वशुद्ध्या कर्मणां युक्तम् । इममेवार्थमनुवदति भगवद्गीता - “आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते”(भ. गी. ६ । ३) ॥ एवं चाननुष्ठितकर्मापि प्राग्भवीयकर्मवशाद्यो विशुद्धसत्त्वः संसारासारतादर्शनेन निष्पन्नवैराग्यः, कृतं तस्य कर्मानुष्ठानेन वैराग्योत्पादोपयोगिना, प्राग्भवीयकर्मानुष्ठानादेव तत्सिद्धेः, इममेव च पुरुषधौरेयभेदमधिकृत्य प्रववृते श्रुतिः - “यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत्”(जा. उ. ४) इति ।

तदिदमुक्तम् - कर्मावबोधात् -

प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेरिति ।

अत एव न ब्रह्मचारिण ऋणानि सन्ति, येन तदपाकरणार्थं कर्मानुतिष्ठेत् । एतदनुरोधाच्च “जायमानो वै ब्राह्मणस्त्रिभिरृणवा जायते” इति गृहस्थः सम्पद्यमान इति व्याख्येयम् । अन्यथा “यदि वेतरथा ब्रह्मचर्यादेव ”(जा. उ. ४) इति श्रुतिर्विरुध्येत । गृहस्थस्यापि च ऋणापाकरणं सत्त्वशुद्ध्यर्थमेव । जरामर्यवादो भस्मान्ततावादोऽन्त्येष्टयश्च कर्मजडानविदुषः प्रति, न त्वात्मतत्त्वपण्डितान् । तस्मात्तस्यानन्तर्यमथशब्दार्थः, यद्विना ब्रह्मजिज्ञासा न भवति यस्मिंस्तु सति भवन्ती भवत्येव । न चेत्थं कर्मावबोधः तस्मान्न कर्मावबोधानन्तर्यमथशब्दार्थ इति सर्वमवदातम् ।

स्यादेतत् । मा भूदग्निहोत्रयवागूपाकवदार्थः क्रमः, श्रौतस्तु भविष्यति, “गृही भूत्वा वनी भवेत्वनी भूत्वा प्रव्रजेत्”(जा. उ. ४) इति जाबालश्रुतिर्गार्हस्थ्येन हि यज्ञाद्यनुष्ठानं सूचयति । स्मरन्ति च “अधीत्य विधिवद्वेदान्पुत्रांश्चोत्पाद्य धर्मतः । इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥”(मनु. ६। ३६) निन्दन्ति च - “अनधीत्य द्विजो वेदाननुत्पाद्य तथात्मजान् । अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन्व्रजत्यधः ॥”(मनु. ६। ३७) इत्यत आह -

यथा च हृदयाद्यवदानानामानन्तर्यनियमः ।

कुतः, “हृदयस्याग्रेऽवद्यति अथ जिह्वाया अथ वक्षसः”(आ.श्रौ.सू. ७-२४) इत्यथाग्रशब्दाभ्यां क्रमस्य विवक्षितत्वात् । न तथेह क्रम नियमो विवक्षितः, श्रुत्या तयैवानियमप्रदर्शनात् , “यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा”(जा. उ. ४) इति । एतावता हि वैराग्यमुपलक्षयति । अत एव “यदहरेव विरजेत्तदहरेव प्रव्रजेत्”(जा. उ. ४) इति श्रुतिः । निन्दावचनं च अविशुद्धसत्त्वपुरुषाभिप्रायम् । अविशुद्धसत्त्वो हि मोक्षमिच्छन्नालस्यात्तदुपायेऽप्रवर्तमानो गृहस्थधर्ममपि नित्यनैमित्तिकमनाचरन्प्रतिक्षणमुपचीयमानपाप्माधो गच्छतीत्यर्थः ।

स्यादेतत् । मा भूच्छ्रौत आर्थो वा क्रमः, पाठस्थानमुख्यप्रवृत्तिप्रमाणकस्तु कस्मान्न भवतीत्यत आह -

शेषशेषित्वे प्रमाणाभावात् ।

शेषाणां समिदादीनां शेषिणां चाग्नेयादीनामेकफलवदुपकारोपनिबद्धानामेकफलावच्छिन्नानामेकप्रयोगवचनोपगृहीतानाम् एकाधिकारिकर्तृकाणामेकपौर्णमास्यमावास्याकालसम्बद्धानां युगपदनुष्ठानाशक्तेः, सामर्थ्यात्क्रमप्राप्तौ, तद्विशेषापेक्षायां पाठादयस्तद्भेदनियमाय प्रभवन्ति । यत्र तु न शेषशेषिभावः नाप्येकाधिकारावच्छेदः यथा सौर्यार्यम्णप्राजापत्यादीनाम् , तत्र क्रमभेदापेक्षाभावान्न पाठादिः क्रमविशेषनियमे प्रमाणम् , अवर्जनीयतया तस्य तत्रावगतत्वात् । न चेह धर्मब्रह्मजिज्ञासयोः शेषशेषिभावे श्रुत्यादीनामन्यतमं प्रमाणमस्तीति ।

स्यादेतत् । शेषशेषिभावाभावेऽपि क्रमनियमो दृष्टः, यथा गोदोहनस्य पुरुषार्थस्य दर्शपौर्णमासिकैरङ्गैः सह, यथा वा “दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेत”दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेत। (तै.सं. २.५.६.१) इति दर्शपौर्णमाससोमयोरशेषशेषिणोरित्यत आह -

अधिकृताधिकारे वा प्रमाणाभावात् ।

इति योजना । स्वर्गकामस्य हि दर्शपौर्णमासाधिकृतस्य पशुकामस्य सतो दर्शपौर्णमासक्रत्वर्थाप्प्रणयनाश्रिते गोदोहने अधिकारः । नो खलु गोदोहनद्रव्यमव्याप्रियमाणं साक्षात्पशून् भावयितुमर्हति । न च व्यापारान्तराविष्टं श्रूयते, यतस्तदङ्गक्रममतिपतेत् अप्प्रणयनाश्रितं तु प्रतीयते, ‘चमसेनापः प्रणयेद्गोदोहनेनपशुकामस्य’ इति समभिव्याहारात् , योग्यत्वाच्चास्यापां प्रणयनं प्रति । तस्मात्क्रत्वर्थाप्प्रणयनाश्रितत्वाद्गोदोहनस्य तत्क्रमेण पुरुषार्थमपि गोदोहनं क्रमवदिति सिद्धम् । श्रुतिनिराकरणेनैव इष्टिसोमक्रमवदपि क्रमोऽपास्तो वेदितव्यः ।

शेषशेषित्वाधिकृताधिकाराभावेऽपि क्रमो विवक्ष्येत यद्येकफलावच्छेदो भवेत् । यथाग्नेयादीनां, षण्णामेकस्वर्गफलावच्छिन्नानाम् यदि वा जिज्ञास्यब्रह्मणोऽशो धर्मः स्यात् , यथा चतुर्लक्षणीव्युत्पाद्यं ब्रह्म केनचित्केनचिदंशेनैकैकेन लक्षणेन व्युत्पाद्यते, तत्र चतुर्णां लक्षणानां जिज्ञास्याभेदेन परस्परसम्बन्धे सति क्रमो विवक्षितः, तथेहाप्येकजिज्ञास्यतया धर्मब्रह्मजिज्ञासयोः क्रमो विवक्ष्येत न चैतदुभयमप्यस्तीत्याह -

फलजिज्ञास्यभेदाच्च ।

फलभेदं विभजते -

अभ्युदयफलं धर्मज्ञानमिति ।

जिज्ञासाया वस्तुतो ज्ञानतन्त्रत्वाज्ज्ञानफलं जिज्ञासाफलमिति भावः ।

न केवलं स्वरूपतः फलभेदः, तदुत्पादनप्रकारभेदादपि तद्भेद इत्याह -

तच्चानुष्ठानापेक्षम् ।

ब्रह्मज्ञानं च नानुष्ठानान्तरापेक्षम् ।

शाब्दज्ञानाभ्यासान्नानुष्ठानान्तरमपेक्षते, नित्यनैमित्तिककर्मानुष्ठानसहभावस्यापास्तत्वादिति भावः ।

जिज्ञास्यभेदमात्यन्तिकमाह -

भव्यश्च धर्म इति ।

भविता भव्यः, कर्तरि कृत्यः । भविता च भावकव्यापारनिर्वर्त्यतया तत्तन्त्र इति ततः प्राग्ज्ञानकाले नास्तीत्यर्थः । भूतं सत्यम् । सदेकान्ततः न कदाचिदसदित्यर्थः ।

न केवलं स्वरूपतो जिज्ञास्ययोर्भेदः, ज्ञापकप्रमाणप्रवृत्तिभेदादपि भेद इत्याह -

चोदनाप्रवृत्तिभेदाच्च ।

चोदनेति वैदिकं शब्दमाह, विशेषेण सामान्यस्य लक्षणात् ।

प्रवृत्तिभेदं विभजते -

या हि चोदना धर्मस्येति ।

आज्ञादीनां पुरुषाभिप्रायभेदानामसम्भवात् अपौरुषेये वेदे चोदनोपदेशः । अत एवोक्तम् - “तस्य ज्ञानमुपदेशः” (जै. सू. १ । १ । ५) इति । सा च स्वसाध्ये पुरुषव्यापारे भावनायां, तद्विषये च यागादौ, स हि भावनाविषयः, तदधीननिरूपणत्वात् विषयाधीनप्रयत्नस्य भावनायाः । ‘षिञ् बन्धने’ इत्यस्य धातोर्विषयपदव्युत्पत्तेः । भावनायास्तद्द्वारेण च यागादेरपेक्षितोपायतामवगमयन्ती तत्रेच्छोपहारमुखेन पुरुषं नियुञ्जानैव यागादिधर्ममवबोधयति नान्यथा । ब्रह्मचोदना तु पुरुषमवबोधयत्येव केवलं न तु प्रवर्तयन्त्यवबोधयति । कुतः, अवबोधस्य प्रवृत्तिरहितस्य चोदनाजन्यत्वात् ।

ननु ‘आत्मा ज्ञातव्यः’ इत्येतद्विधिपरैर्वेदान्तैः तदेकवाक्यतयावबोधे प्रवर्तयद्भिरेव पुरुषो ब्रह्मावबोध्यत इति समानत्वं धर्मचोदनाभिर्ब्रह्मचोदनानामित्यत आह -

न पुरुषोऽवबोधे नियुज्यते ।

अयमभिसन्धिः - न तावद्ब्रह्मसाक्षात्कारे पुरुषो नियोक्तव्यः, तस्य ब्रह्मस्वाभाव्येन नित्यत्वात् , अकार्यत्वात् । नाप्युपासनायाम् , तस्या अपि ज्ञानप्रकर्षे हेतुभावस्यान्वयव्यतिरेकसिद्धतया प्राप्तत्वेनाविधेयत्वात् । नापि शाब्दबोधे, तस्याप्यधीतवेदस्य पुरुषस्य विदितपदतदर्थस्य समधिगतशाब्दन्यायतत्त्वस्याप्रत्यूहमुत्पत्तेः ।

अत्रैव दृष्टान्तमाह -

यथाक्षार्थेति ।

दार्ष्टान्तिके योजयति -

तद्वदिति ।

अपि चात्मज्ञानविधिपरेषु वेदान्तेषु नात्मतत्त्वविनिश्चयः शाब्दः स्यात् । न हि तदात्मतत्त्वपरास्ते, किन्तु तज्ज्ञानविधिपराः, यत्पराश्च ते त एव तेषामर्थाः । न च बोधस्य बोध्यनिष्ठत्वादपेक्षितत्वात् , अन्यपरेभ्योऽपि बोध्यतत्त्वविनिश्चयः, समारोपेणापि तदुपपत्तेः । तस्मान्न बोधविधिपरा वेदान्ता इति सिद्धम् ।

प्रकृतमुपसंहरति -

तस्मात्किमपि वक्तव्यमिति ।

यस्मिन्नसति ब्रह्मजिज्ञासा न भवति सति तु भवन्ती भवत्येवेत्यर्थः ।

तदाह -

उच्यते - नित्यानित्यवस्तुविवेक इत्यादि ।

नित्यः प्रत्यगात्मा, अनित्या देहेन्द्रियविषयादयः । तद्विषयश्चेद्विवेको निश्चयः, कृतमस्य ब्रह्मजिज्ञासया, ज्ञातत्वाद्ब्रह्मणः । अथ विवेको ज्ञानमात्रम् , न निश्चयः, तथा सति एष विपर्यासादन्यः संशयः स्यात् , तथा च न वैराग्यं भावयेत् , अभावयन्कथं ब्रह्मजिज्ञासाहेतुः, तस्मादेवं व्याख्येयम् । नित्यानित्ययोर्वसतीति नित्यानित्यवस्तु तद्धर्मः, नित्यानित्ययोर्धर्मिणोस्तद्धर्माणां च विवेको नित्यानित्यवस्तुविवेकः । एतदुक्तं भवति - मा भूदिदम् तदृतं नित्यम् , इदं तदनृतमनित्यमिति धर्मिविशेषयोर्विवेकः, धर्मिमात्रयोर्नित्यानित्ययोस्तद्धर्मयोश्च विवेकं निश्चिनोत्येव । नित्यत्वं सत्यत्वं तद्यस्यास्ति तन्नित्यं सत्यम् , तथा चास्थागोचरः । अनित्यत्वमसत्यत्वं तद्यस्यास्ति तदनित्यमनृतम् , तथा चानास्थागोचरः । तदेतेष्वनुभूयमानेषु युष्मदस्मत्प्रत्ययगोचरेषु विषयविषयिषु यदृतं नित्यं सुखं व्यवस्थास्यते तदास्थागोचरो भविष्यति, यत्त्वनित्यमनृतं भविष्यति तापत्रयपरीतं तत्त्यक्ष्यत इति । सोऽयं नित्यानित्यवस्तुविवेकः प्राग्भवीयादैहिकाद्वा वैदिकात्कर्मणो विशुद्धसत्त्वस्य भवत्यनुभवोपपत्तिभ्याम् । न खलु सत्यं नाम न किञ्चिदस्तीति वाच्यम् । तदभावे तदधिष्ठानस्यानृतस्याप्यनुपपत्तेः, शून्यवादिनामपि शून्यताया एव सत्यत्वात् ।

अथास्य पुरुषधौरेयस्यानुभवोपपत्तिभ्यामेवं सुनिपुणं निरूपयतः आ च सत्यलोकात् आचावीचेः “जायस्व म्रियस्व” (छा. उ. ५ । १० । ८) इति विपरिवर्तमानं, क्षणमुहूर्तयामाहोरात्रार्धमासमासर्त्वयनवत्सरयुगचतुर्युगमन्वन्तरप्रलयमहाप्रलयमहासर्गावान्तरसर्गसंसारसागरोर्मिभिरनिशम् उह्यमानं, तापत्रयपरीतमात्मानं च जीवलोकं चावलोक्य अस्मिन्संसारमण्डले अनित्याशुचिदुःखात्मकं प्रसङ्ख्यानमुपावर्तते; ततोऽस्यैतादृशान्नित्यानित्यवस्तुविवेकलक्षणात्प्रसङ्ख्यानात् -

इहामुत्रार्थभोगविरागः ।

भवति । अर्थ्यते प्रार्थ्यत इत्यर्थः । फलमिति यावत् । तस्मिन्विरागोऽनामानाभोगात्मिकोपेक्षाबुद्धिः ।

ततः शमदमादिसाधनसम्पत् ।

रागादिकषायमदिरामत्तं हि मनस्तेषु तेषु विषयेषूच्चावचमिन्द्रियाणि प्रवर्तयत् , विविधाश्च प्रवृत्तीः पुण्यापुण्यफला भावयत् , पुरुषमतिघोरे विविधदुःखज्वालाजटिले संसारहुतभुजि जुहोति । प्रसङ्ख्यानाभ्यासलब्धवैराग्यपरिपाकभग्नरागादिकषायमदिरामदं तु मनः पुरुषेणावजीयते वशीक्रियते, सोऽयमस्य वैराग्यहेतुको मनोविजयः शम इति वशीकारसंज्ञ इति चाख्यायते । विजितं च मनस्तत्त्वविषयविनियोगयोग्यतां नीयते, सेयमस्य योग्यता दमः । यथा दान्तोऽयं वृषभयुवा हलशकटादिवहनयोग्यः कृत इति गम्यते । आदिग्रहणेन च विषयतितिक्षातदुपरमतत्त्वश्रद्धाः सङ्गृह्यन्ते । अत एव श्रुतिः - “तस्माच्छान्तो दान्त उपरतस्तितिक्षुः श्रद्धावित्तो भूत्वात्मन्येवात्मानं पश्यन् , सर्वमात्मनि पश्यति” (बृ. उ. ४-४-२३) इति । तदेतस्य शमदमादिरूपस्य साधनस्य सम्पत् , प्रकर्षः, शमदमादिसाधनसम्पत् ।

ततोऽस्य संसारबन्धनान्मुमुक्षा भवतीत्याह -

मुमुक्षुत्वं च ।

तस्य च नित्यशुद्धबुद्धमुक्तसत्यस्वभावब्रह्मज्ञानं मोक्षस्य कारणमित्युपश्रुत्य तज्जिज्ञासा भवति धर्मजिज्ञासायाः प्रागूर्ध्वं च, तस्मात्तेषामेवानन्तर्यं न धर्मजिज्ञासाया इत्याह -

तेषु हीति ।

न केवलं जिज्ञासामात्रम् , अपि तु ज्ञानमपीत्याह -

ज्ञातुं च ।

उपसंहरति -

तस्मादिति ।

क्रमप्राप्तमतःशब्दं व्याचष्टे -

अतःशब्दो हेत्वर्थः ।

तमेवातःशब्दस्य हेतुरूपमर्थमाह -

यस्माद्वेद एवेति ।

अत्रैवं परिचोद्यते - सत्यं यथोक्तसाधनसम्पत्त्यनन्तरं ब्रह्मजिज्ञासा भवति । सैव त्वनुपपन्ना, इहामुत्रफलभोगविरागस्यानुपपत्तेः । अनुकूलवेदनीयं हि फलम् , इष्टलक्षणत्वात्फलस्य । न चानुरागहेतावस्य वैराग्यं भवितुमर्हति । दुःखानुषङ्गदर्शनात्सुखेऽपि वैराग्यमिति चेत् , हन्त भोः सुखानुषङ्गाद्दुःखेऽप्यनुरागो न कस्माद्भवति । तस्मात्सुख उपादीयमाने दुःखपरिहारे प्रयतितव्यम् । अवर्जनीयतया दुःखमागतमपि परिहृत्य सुखमात्रं भोक्ष्यते । तद्यथामत्स्यार्थी सशल्कान्सकण्टकान्मत्स्यानुपादत्ते, स यावदादेयं तावदादाय विनिवर्तते । यथा वा धान्यार्थी सपलालानि धान्यान्याहरति, स यावदादेयं तावदुपादाय निवर्तते, तस्माद्दुःखभयान्नानुकूलवेदनीयमैहिकं वामुष्मिकं वा सुखं परित्यक्तुमुचितम् । न हि मृगाः सन्तीति शालयो नोप्यन्ते, भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते । अपि च दृष्टं सुखं चन्दनवनितादिसङ्गजन्म क्षयितालक्षणेन दुःखेनाघ्रातत्वादतिभीरुणा त्यज्येतापि, न त्वामुष्मिकं स्वर्गादि, तस्याविनाशित्वात् । श्रूयते हि - “अपाम सोमममृता अभूम” (ऋक् संं. ६ - ४ - ११) इति । तथा च “अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति”(श.ब्रा.२.६.३.१) । न च कृतकत्वहेतुकं विनाशित्वानुमानमत्र सम्भवति, नरशिरःकपालशौचानुमानवत् आगमबाधितविषयत्वात् । तस्माद्यथोक्तसाधनसम्पत्त्यभावान्न ब्रह्मजिज्ञासेति प्राप्तम् ।

एवं प्राप्ते आह भगवान्सूत्रकारः -

अत इति ।

तस्यार्थं व्याचष्टे भाष्यकारः -

यस्माद्वेद एवेति ।

अयमभिसन्धिः - सत्यं मृगभिक्षुकादयः शक्याः परिहर्तुं पाचककृषीवलादिभिः, दुःखं त्वनेकविधानेककारणसम्पातजमशक्यपरिहारम् , अन्ततः साधनापारतन्त्र्यक्षयितलक्षणयोर्दुःखयोः समस्तकृतकसुखाविनाभावनियमात् । न हि मधुविषसम्पृक्तमन्नं विषं परित्यज्य समधु शक्यं शिल्पिवरेणापि भोक्तुम् । क्षयितानुमानोपोद्बलितं च “तद्यथेह कर्मजितः”(छा.उ. ८.१.६) इत्यादि वचनं क्षयिताप्रतिपादकम् “अपाम सोमम्”(ऋक् संं. ६ - ४ - ११) इत्यादिकं वचनं मुख्यासम्भवे जघन्यवृत्तितामापादयति । यथाहुः - पौराणिकाः “आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते”(वि. पु. २ । ८ । ९७) इति । अत्र च ब्रह्मपदेन तत्प्रमाणं वेद उपस्थापितः । स च योग्यत्वात् “तद्यथेह कर्मचितः”(छा.उ. ८.१.६) इत्यादिरतः इति सर्वनाम्ना परामृश्य, हेतुपञ्चम्या निर्दिश्यते ।

स्यादेतत् । यथा स्वर्गादेः कृतकस्य सुखस्य दुःखानुषङ्गस्तथा ब्रह्मणोऽपीत्यत आह -

तथा ब्रह्मविज्ञानादपीति ।

तेनायमर्थः - अतः स्वर्गादीनां क्षयिताप्रतिपादकात् , ब्रह्मज्ञानस्य च परमपुरुषार्थताप्रतिपादकात् आगमात् , यथोक्तसाधनसम्पत् ततश्च ब्रह्म जिज्ञासेति सिद्धम् ।

ब्रह्मजिज्ञासापदव्याख्यानमाह -

ब्रह्मण इति ।

षष्ठीसमासप्रदर्शनेन प्राचां वृत्तिकृतां ब्रह्मणे जिज्ञासा ब्रह्मजिज्ञासेति चतुर्थीसमासः परास्तो वेदितव्यः । “तादर्थ्यसमासे प्रकृतिविकृतिग्रहणं कर्तव्यम्” इति कात्यायनीयवचनेन यूपदार्वादिष्वेव प्रकृतिविकारभावे चतुर्थीसमासनियमात् , अप्रकृतिविकारभूते इत्येवमादौ तन्निषेधात् , “अश्वघासादयः षष्ठीसमासा भविष्यन्ति” इत्यश्वघासादिषु षष्ठीसमासप्रतिविधानात् । षष्ठीसमासेऽपि च ब्रह्मणो वास्तवप्राधान्योपपत्तेरिति ।

स्यादेतत् । ब्रह्मणो जिज्ञासेत्युक्ते तत्रानेकार्थत्वाद्ब्रह्मशब्दस्य संशयः, कस्य ब्रह्मणो जिज्ञासेति । अस्ति ब्रह्मशब्दो विप्रत्वजातौ, यथाब्रह्महत्येति । अस्ति च वेदे, यथाब्रह्मोज्झमिति । अस्ति च परमात्मनि, यथा “ब्रह्म वेद ब्रह्मैव भवति” (मु. उ. ३ । २ । ९) इति, तमिमं संशयमपाकरोति -

ब्रह्म च वक्ष्यमाणलक्षणमिति ।

यतो ब्रह्मजिज्ञासां प्रतिज्ञाय तज्ज्ञापनाय परमात्मलक्षणं प्रणयति ततोऽवगच्छामः परमात्मजिज्ञासैवेयं न विप्रत्वजात्यादिजिज्ञासेत्यर्थः । षष्ठीसमासपरिग्रहेऽपि नेयं कर्मषष्ठी, किं तु शेषलक्षणा, सम्बन्धमात्रं च शेष इति ब्रह्मणो जिज्ञासेत्युक्ते ब्रह्मसम्बन्धिनी जिज्ञासेत्युक्तं भवति । तथा च ब्रह्मस्वरूपप्रमाणयुक्तिसाधनप्रयोजनजिज्ञासाः सर्वा ब्रह्मजिज्ञासार्था ब्रह्मजिज्ञासयावरुद्धा भवन्ति । साक्षात्पारम्पर्येण च ब्रह्मसम्बन्धात् ।

कर्मषष्ठ्यां तु ब्रह्मशब्दार्थः कर्म, स च स्वरूपमेवेति तत्प्रमाणादयो नावरुध्येरन् , तथा चाप्रतिज्ञातार्थचिन्ता प्रमाणादिषु भवेदिति ये मन्यन्ते तान्प्रत्याह -

ब्रह्मण इति । कर्मणि इति ।

अत्र हेतुमाह -

जिज्ञास्येति ।

इच्छायाः प्रतिपत्त्यनुबन्धो ज्ञानम् , ज्ञानस्य च ज्ञेयं ब्रह्म । न खलु ज्ञानं ज्ञेयं विना निरूप्यते, न च जिज्ञासा ज्ञानं विनेति प्रतिपत्त्यनुबन्धत्वात्प्रथमं जिज्ञासा कर्मैवापेक्षते, न तु सम्बन्धिमात्रम्; तदन्तरेणापि सति कर्मणि तन्निरूपणात् । न हि चन्द्रमसमादित्यं चोपलभ्य कस्यायमिति सम्बन्ध्यन्वेषणा भवति । भवति तु ज्ञानमित्युक्ते विषयान्वेषणा किंविषयमिति । तस्मात्प्रथममपेक्षितत्वात्कर्मतयैव ब्रह्म सम्बध्यते, न सम्बन्धितामात्रेण, तस्य जघन्यत्वात् । तथा च कर्मणि षष्ठीत्यर्थः ।

ननु सत्यं न जिज्ञास्यमन्तरेण जिज्ञासा निरूप्यते, जिज्ञास्यान्तरं त्वस्या भविष्यति, ब्रह्म तु शेषतया सम्भन्त्स्यत इत्यत आह -

जिज्ञास्यान्तरेति ।

निगूढाभिप्रायश्चोदयति -

ननु शेषषष्ठीपरिग्रहेऽपीति ।

सामान्यसम्बन्धस्य विशेषसम्बन्धाविरोधकत्वेन कर्मताया अविघातेन जिज्ञासानिरूपणोपपत्तेरित्यर्थः ।

निगूढाभिप्राय एव दूषयति -

एवमपि प्रत्यक्षं ब्रह्मण इति ।

वाच्यस्य कर्मत्वस्य जिज्ञासया प्रथममपेक्षितस्य प्रथमसम्बन्धार्हस्य चान्वयपरित्यागेन पश्चात्कथञ्चिदपेक्षितस्य सम्बन्धिमात्रस्य सम्बन्धो, जघन्यः प्रथमः, प्रथमश्च जघन्य इति सुव्याहृतं न्यायतत्त्वम् । प्रत्यक्षपरोक्षाताभिधानं च प्राथम्याप्राथम्यस्फुटत्वाभिप्रायम् ।

चोदकः स्वाभिप्रायमुद्घाटयति -

न व्यर्थः, ब्रह्माश्रिताशेषेति ।

व्याख्यातमेतदधस्तात् ।

समाधाता स्वाभिसन्धिमुद्घाटयति -

न प्रधानपरिग्रह इति ।

वास्तवं प्राधान्यम् ब्रह्मणः । शेषं सनिदर्शनमतिरोहितार्थम् , श्रुत्यनुगमश्चातिरोहितः ।

तदेवमभिमतं समासं व्यवस्थाप्य जिज्ञासापदार्थमाह -

ज्ञातुमिति ।

स्यादेतत् । न ज्ञानमिच्छाविषयः । सुखदुःखावाप्तिपरिहारौ वा तदुपायो वा तद्द्वारेणेच्छागोचरः । न चैवं ब्रह्मविज्ञानम् । न खल्वेतदनुकूलमिति वा प्रतिकूलनिवृत्तिरिति वानुभूयते । नापि तयोरुपायः, तस्मिन्सत्यपि सुखभेदस्यादर्शनात् । अनुवर्तमानस्य च दुःखस्यानिवृत्तेः । तस्मान्न सूत्रकारवचनमात्रादिषिकर्मता ज्ञानस्येत्यत आह -

अवगतिपर्यन्तमिति ।

न केवलं ज्ञानमिष्यते किन्त्ववगतिं साक्षात्कारं कुर्वदवगतिपर्यन्तं सन्वाच्याया इच्छायाः कर्म । कस्मात् । फलविषयत्वादिच्छायाः, तदुपायं फलपर्यन्तं गोचरयतीच्छेति शेषः ।

ननु भवत्ववगतिपर्यन्तं ज्ञानम् , किमेतावतापीष्टं भवति । नह्यनपेक्षणीयविषयमवगतिपर्यन्तमपि ज्ञानमिष्यत इत्यत आह -

ज्ञानेन हि प्रमाणेनावगन्तुमिष्टं ब्रह्म ।

भवतु ब्रह्मविषयावगतिः, एवमपि कथमिष्टेत्यत आह -

ब्रह्मावगतिर्हि पुरुषार्थः ।

किमभ्युदयः, न, किं तु निःश्रेयसं विगलितनिखिलदुःखानुषङ्गपरमानन्दघनब्रह्मावगतिर्ब्रह्मणः स्वभाव इति सैव निःश्रेयसं पुरुषार्थ इति ।

स्यादेतत् । न ब्रह्मावगतिः पुरुषार्थः । पुरुषव्यापारव्याप्यो हि पुरुषार्थः । न चास्या ब्रह्मस्वभावभूताया उत्पत्तिविकारसंस्कारप्राप्तयः सम्भवन्ति, तथा सत्यनित्यत्वेन तत्स्वाभाव्यानुपपत्तेः । न चोत्पत्त्याद्यभावे व्यापारव्याप्यता । तस्मान्न ब्रह्मावगतिः पुरुषार्थ इत्यत आह -

निःशेषसंसारबीजाविद्याद्यनर्थनिबर्हणात् ।

सत्यम् , ब्रह्मावगतौ ब्रह्मस्वभावे नोत्पत्त्यादयः सम्भवन्ति, तथाप्यनिर्वचनीयानाद्यविद्यावशाद्ब्रह्मस्वभावोऽपराधीनप्रकाशोऽपि प्रतिभानपि न प्रतिभातीव पराधीनप्रकाश इव देहेन्द्रियादिभ्यो भिन्नोऽप्यभिन्न इव भासत इति संसारबीजाविद्याद्यनर्थनिबर्हणात्प्रागप्राप्त इव तस्मिन्सति प्राप्त इव भवतीति पुरुषेणार्थ्यमानत्वात्पुरुषार्थ इति युक्तम् । अविद्यादीत्यादिग्रहणेन तत्संस्कारोऽवरुध्यते । अविद्यादिनिवृत्तिस्तूपासनाकार्यादन्तःकरणवृत्तिभेदात्साक्षात्कारादिति द्रष्टव्यम् ।

उपसंहरति -

तस्माद्ब्रह्म जिज्ञासितव्यम् ।

उक्तलक्षणेन मुमुक्षुणा । न खलु तज्ज्ञानं विना सवासनविविधदुःखनिदानमविद्योच्छिद्यते । न च तदुच्छेदमन्तरेण विगलितनिखिलदुःखानुषङ्गानन्दघनब्रह्मात्मतासाक्षात्काराविर्भावो जीवस्य । तस्मादानन्दघनब्रह्मात्मतामिच्छता तदुपायो ज्ञानमेषितव्यम् । तच्च न केवलेभ्यो वेदान्तेभ्योऽपि तु ब्रह्ममीमांसोपकरणेभ्य इति इच्छामुखेन ब्रह्ममीमांसायां प्रवर्त्यते, न तु वेदान्तेषु तदर्थविवक्षायां वा । तत्र फलवदर्थावबोधपरतां स्वाध्यायाध्ययनविधेः सूत्रयता “अथातो धर्मजिज्ञासा”(जै. सू. १ । १ । १) इत्यनेनैव प्रवर्तितत्वात् , धर्मग्रहणस्य च वेदार्थोपलक्षणत्वेनाधर्मवद्ब्रह्मणोऽप्युपलक्षणत्वात् । यद्यपि च धर्ममीमांसावत् वेदार्थमीमांसया ब्रह्ममीमांसाप्याक्षेप्तुं शक्या, तथापि प्राच्या मीमांसया न तद्व्युत्पाद्यते, नापि ब्रह्ममीमांसाया अध्ययनमात्रानन्तर्यमिति ब्रह्ममीमांसारम्भाय नित्यानित्यविवेकाद्यानन्तर्यप्रदर्शनाय चेदं सूत्रमारम्भणीयमित्यपौनरुक्त्यम् ।

स्यादेतत् । एतेन सूत्रेण ब्रह्मज्ञानं प्रत्युपायता मीमांसायाः प्रतिपाद्यत इत्युक्तं तदयुक्तम् , विकल्पासहत्वात् , इति चोदयति -

तत्पुनर्ब्रह्मेति ।

वेदान्तेभ्योऽपौरुषेयतया स्वतःसिद्धप्रमाणभावेभ्यः प्रसिद्धमप्रसिद्धं वा स्यात् । यदि प्रसिद्धम् , वेदान्तवाक्यसमुत्थेन निश्चयज्ञानेन विषयीकृतम् , ततो न जिज्ञासितव्यम् , निष्पादितक्रिये कर्मणि अविशेषाधायिनः । साधनस्य साधनन्यायातिपातात् । अथाप्रसिद्धं वेदान्तेभ्यस्तर्हि न तद्वेदान्ताः प्रतिपादयन्तीति सर्वथाऽप्रसिद्धं नैव शक्यं जिज्ञासितुम् । अनुभूते हि प्रिये भवतीच्छा न तु सर्वथाननुभूतपूर्वे । न चेष्यमाणमपि शक्यं ज्ञातुं, प्रमाणाभावात् । शब्दो हि तस्य प्रमाणं वक्तव्यः । यथा वक्ष्यति - “शास्त्रयोनित्वात्”(ब्र.सू. १-१-३) इति । स चेत्तन्नावबोधयति, कुतस्तस्य तत्र प्रामाण्यम् । न च प्रमाणान्तरं ब्रह्मणि प्रक्रमते । तस्मात्प्रसिद्धस्य ज्ञातुं शक्यस्याप्यजिज्ञासनात् , अप्रसिद्धस्येच्छाया अविषयत्वात् , अशक्यज्ञानत्वाच्च न ब्रह्म जिज्ञास्यमित्याक्षेपः ।

परिहरति -

उच्यते - अस्ति तावद्ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावम् ।

अयमर्थः - प्रागपि ब्रह्ममीमांसाया पूर्वमधीतवेदस्य निगमनिरुक्तव्याकरणादिपरिशीलनविदितपदतदर्थसम्बन्धस्य “सदेव सोम्येदमग्र आसीत्” (छा. उ. ६ । २ । १) इत्युपक्रमात् , “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्यन्तात्सन्दर्भात् नित्यत्वाद्युपेतब्रह्मस्वरूपावगमस्तावदापाततो विचाराद्विनाप्यस्ति । अत्र च ब्रह्मेत्यादिनावगम्येन तद्विषयमवगमं लक्षयति, तदस्तित्वस्य सति विमर्शे विचारात्प्रागनिश्चयात् । नित्येति क्षयितालक्षणं दुःखमुपक्षिपति । शुद्धेति देहाद्युपाधिकमपि दुःखमपाकरोति । बुद्धेत्यपराधीनप्रकाशमानन्दात्मानं दर्शयति, आनन्दप्रकाशयोरभेदात् ।

स्यादेतत् । मुक्तौ सत्यामस्यैते शुद्धत्वादयः प्रथन्ते, ततस्तु प्राक् देहाद्यभेदेन तद्धर्मजन्मजरामरणादिदुःखयोगादित्यत उक्तम् -

मुक्तेति ।

सदैव मुक्तः सदैव केवलोऽनाद्यविद्यावशात् भ्रान्त्या तथावभासत इत्यर्थः ।

तदेवमनौपाधिकं ब्रह्मणो रूपं दर्शयित्वाविद्योपाधिकं रूपमाह -

सर्वज्ञं सर्वशक्तिसमन्वितम् ।

तदनेन जगत्कारणत्वमस्य दर्शितम् , शक्तिज्ञानभावाभावानुविधानात्कारणत्वभावाभावयोः ।

कुतः पुनरेवंभूतब्रह्मस्वरूपावगतिरित्यत आह -

ब्रह्मशब्दस्य हीति ।

न केवलं “सदेव सोम्येदम्” (छा. उ. ६ । २ । १) इत्यादीनां वाक्यानां पौर्वापर्यालोचनया इत्थम्भूतब्रह्मावगतिः । अपि तु ब्रह्मपदमपि निर्वचनसामर्थ्यादिममेवार्थं स्वहस्तयति ।

निर्वचनमाह -

बृहतेर्धातोरर्थानुगमात् ।

वृद्धिकर्मा हि बृहतिरतिशायने वर्तते । तच्चेदमतिशायनमनवच्छिन्नं पदान्तरावगमितं नित्यशुद्धबुद्धत्वाद्यस्याभ्यनुजानातीत्यर्थः ।

तदेवं तत्पदार्थस्य शुद्धत्वादेः प्रसिद्धिमभिधाय त्वम्पदार्थस्याप्याह -

सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिः ।

सर्वस्यपांसुलपादकस्य हालिकस्यापि ब्रह्मास्तित्वप्रसिद्धिः, कुतः, आत्मत्वात् ।

एतदेव स्फुटयति -

सर्वो हीति ।

प्रतीतिमेव अप्रतीतिनिराकरणेन द्रढयति -

न नेति ।

न न प्रत्येत्यहमस्मीति, किन्तु प्रत्येत्येवेति योजना ।

नन्वहमस्मीति च ज्ञास्यति मा च ज्ञासीदात्मानमित्यत आह -

यदीति ।

अहमस्मीति न प्रतीयात् ।

अहङ्कारास्पदं हि जीवात्मानं चेन्न प्रतीयात् , अहमिति न प्रतीयादित्यर्थः ।

ननु प्रत्येतु सर्वो जन आत्मानमहङ्कारास्पदम् , ब्रह्मणि तु किमायातमित्यत आह -

आत्मा च ब्रह्म ।

तदस्त्वमा सामानाधिकरण्यात् । तस्मात्तत्पदार्थस्य शुद्धबुद्धत्वादेः शब्दतः, त्वम्पदार्थस्य च जीवात्मनः प्रत्यक्षतः प्रसिद्धेः, पदार्थज्ञानपूर्वकत्वाच्च वाक्यार्थज्ञानस्य, त्वम्पदार्थस्य ब्रह्मभावावगमः “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति वाक्यादुपपद्यत इति भावः ।

आक्षेप्ता प्रथमकल्पाश्रयं दोषमाह -

यदि तर्हि लोक इति ।

अध्यापकाध्येतृपरम्परा लोकः । तत्र “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति वाक्याद्यदि ब्रह्मात्मत्वेन प्रसिद्धमस्ति । आत्मा ब्रह्मत्वेनेति वक्तव्ये ब्रह्मात्मत्वेनेत्यभेदविवक्षया गमयितव्यम् ।

परिहरति -

न ।

कुतः,

तद्विशेषं प्रति विप्रतिपत्तेः ।

तदनेन विप्रतिपत्तिः साधकबाधकप्रमाणाभावे सति संशयबीजमुक्तम् । ततश्च संशयाज्जिज्ञासोपपद्यत इति भावः । विवादाधिकरणं धर्मी सर्वतन्त्रसिद्धान्तसिद्धोऽभ्युपेयः । अन्यथा अनाश्रया भिन्नाश्रया वा विप्रतिपत्तयो न स्युः । विरुद्धा हि प्रतिपत्तयो विप्रतिपत्तयः । न चानाश्रयाः प्रतिपत्तयो भवन्ति, अनालम्बनत्वापत्तेः । न च भिन्नाश्रया विरुद्धाः । नह्यनित्या बुद्धिः, नित्य आत्मेति प्रतिपत्तिविप्रतिपत्ती । तस्मात्तत्पदार्थस्य शुद्धबुद्धत्वादेर्वेदान्तेभ्यः प्रतीतिः, त्वम्पदार्थस्य च जीवात्मनो लोकतः सिद्धिः सर्वतन्त्रसिद्धान्तः । तदाभासत्वानाभासत्वतत्तद्विशेषेषु परमत्र विप्रतिपत्तयः । तस्मात्सामान्यतः प्रसिद्धे धर्मिणि विशेषतो विप्रतिपत्तौ युक्तस्तद्विशेषेषु संशयः ।

तत्र त्वम्पदार्थे तावद्विप्रतिपत्तीर्दर्शयति -

देहमात्रमित्यादिना, भोक्तैव केवलं न कर्त्ता इत्यन्तेन ।

अत्र देहेन्द्रियमनःक्षणिकविज्ञानचैतन्यपक्षे न तत्पदार्थनित्यत्वादयः त्वम्पदार्थेन सम्बध्यन्ते, योग्यताविरहात् । शून्यपक्षेऽपि सर्वोपाख्यानरहितमपदार्थः कथं तत्त्वमोर्गोचरः । कर्तृभोक्तृस्वभावस्यापि परिणामितया तत्पदार्थनित्यत्वाद्यसङ्गतिरेव । अकर्तृत्वेऽपि भोक्तृत्वपक्षे परिणामितया नित्यत्वाद्यसङ्गतिः । अभोक्तृत्वेऽपि नानात्वेनावच्छिन्नत्वादनित्यत्वादिप्रसक्तावद्वैतहानाच्च तत्पदार्थासङ्गतिस्तदवस्थैव । त्वम्पदार्थविप्रतिपत्त्या च तत्पदार्थेऽपि विप्रतिपत्तिर्दर्शिता । वेदाप्रामाण्यवादिनो हि लौकायतिकादयस्तत्पदार्थप्रत्ययं मिथ्येति मन्यन्ते । वेदप्रामाण्यवादिनोऽप्यौपचारिकं तत्पदार्थमविवक्षितं वा मन्यन्त इति ।

तदेवं त्वम्पदार्थविप्रतिपत्तिद्वारा तत्पदार्थे विप्रतिपत्तिं सूचयित्वा साक्षात्तत्पदार्थे विप्रतिपत्तिमाह -

अस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति केचित् ।

तदिति जीवात्मानं परामृशति । न केवलं शरीरादिभ्यः, जीवात्मभ्योऽपि व्यतिरिक्तः । स च सर्वस्यैव जगत ईष्टे ।

ऐश्वर्यसिद्ध्यर्थं स्वाभाविकमस्य रूपद्वयमुक्तम् -

सर्वज्ञः सर्वशक्तिरिति ।

तस्यापि जीवात्मभ्योऽपि व्यतिरेकात् , न त्वम्पदार्थेन सामानाधिकरण्यमिति स्वमतमाह -

अत्मा स भोक्तुरित्यपरे ।

भोक्तुर्जीवात्मनोऽविद्योपाधिकस्य स ईश्वरस्तत्पदार्थ आत्मा, तत ईश्वरादभिन्नो जीवात्मा । परमाकाशादिव घटाकाशादय इत्यर्थः ।

विप्रतिपत्तीरुपसंहरन् विप्रतिपत्तिबीजमाह -

एवं बहव इति ।

युक्तियुक्त्याभासवाक्यवाक्याभाससमाश्रयाः सन्त इति योजना ।

ननु सन्तु विप्रतिपत्तयः, तन्निमित्तश्च संशयः तथापि किमर्थं ब्रह्ममीमांसारभ्यत इत्यत आह -

तत्राविचार्येति ।

तत्त्वज्ञानाच्च निःश्रेयसाधिगमो नातत्त्वज्ञानाद्भवितुमर्हति । अपि च अतत्त्वज्ञानान्नास्तिक्ये सत्यनर्थप्राप्तिरित्यर्थः ।

सूत्रतात्पर्यमुपसंहरति -

तस्मादिति ।

वेदान्तमीमांसा तावत्तर्क एव, तदविरोधिनश्च येऽन्येऽपि तर्का अध्वरमीमांसायां न्याये च वेदप्रत्यक्षादिप्रामाण्यपरिशोधनादिषूक्तास्त उपकरणं यस्याः सा तथोक्ता । तस्मादियं परमनिःश्रेयससाधनब्रह्मज्ञानप्रयोजना ब्रह्ममीमांसारब्धव्येति सिद्धम् ॥ १ ॥

तत्र साक्षादिति ; जिज्ञासात्विति ; सा हीति ; तेष्विति ; न चेति ; न हीति ; न च स्वार्थपरस्येति ; पूर्वप्रकृतस्येति ; न च प्रकृतानपेक्षेति ; अस्यायमर्थ इति ; परमार्थतस्त्विति ; ब्रह्मेति ; ब्रह्मणोऽपीति ; अत्र चेति ; धर्मशब्दस्येति ; ज्ञानस्यैवेति ; तत्रापीत्यादिना ; तत्त्वमसीति ; तत्किमिति ; प्रत्यक्षादीति ; अन्ये त्विति ; एकस्य त्विति ; विशेषणत्रयवतीति ; न चेति ; द्विरवत्तेति ; स चेत्यादिना ; ततो भिन्नस्य चेति ; न च कूटस्थेति ; अनिर्वचनीयेति ; नन्विति ; न चेति ; दिङ्मोहेति ; न चैष इति ; नचेति ; न चैतावतेति ; सर्वेति ; नचान्तःकरणेति ; अन्यथेति ; नचेति ; न हीति ; नचेति ; तस्मादिति ; नेति ; तस्या इत्यादिना ; सजातीयेति ; अत्रोच्यत इति ; विदुष इति ; क्रियाकर्त्रादीति ; स्यादेतदिति ; मैवमित्यादिना ; अतएवेति ; निर्विचिकित्सेति ; तत्किमिति ; तथा हीति प्रधानेन प्रत्ययार्थेनेच्छयाऽऽख्यातोपात्तभावनायाः कार्यस्य संप्रत्ययात्समन्वयादिति ; नित्येति ; क्लृप्तेनैवेति ; प्रत्यक्षोपपत्तीति ; स्यादेतदिति ; अग्निहोत्रयवागूपाकवदिति ; पाठस्थानेति ; युगपदिति ; एकपौर्णमासीति ; एकाधिकारीति ; एकप्रयोगवचनेति ; एकफलवदिति ; सौर्यार्यमणेति ; नो खल्विति ; अप्प्रणयनाश्रितमिति ; योग्यत्वाच्चेति ; यथा वा दर्शपूर्णमासाभ्यामिति ; यथाग्नेयादीनामिति ; जिज्ञासाया इति ; न केवलमिति ; शाब्दज्ञानेति ; जिज्ञास्यभेदमिति ; भवितेति ; कर्तरि कृत्य इति ; भविता चेति ; भूतमिति ; आज्ञादीनामिति ; स्वसाध्ये इति ; तद्विषये इति ; भावनाया इति ; अवबोधस्येति ; नन्विति ; अयमभिसंधिरिति ; न च बोधस्येति ; तद्विषयश्चेदिति ; कृतमिति ; तथाचेति ; तस्मादिति ; ऋतमिति ; तथाचेति ; तदेतेष्विति ; न खल्विति ; अथास्येति ; जायस्व म्नियस्वेति ; ततोऽस्येति ; ईदृशादिति ; तत इति ; तस्य चेति ; अत्रैवमित्यादिना ; क्षयितेति ; अत्र चेति ; योग्यत्वादिति ; तादर्थ्येति ; प्रकृतीति ; अश्वघासादय इति ; षष्ठीसमासेऽपीति ; न हीति ; नन्वित्यादिना ; निगूढाभिप्राय इति ; सामान्येति ; निगूढेति ; वाच्यस्येति ; प्रत्यक्षेति ; नेति ; तदुपायमिति ; भवतु ब्रह्मविषयावगतिरिति ; एवमपीति ; ब्रह्मावगतिर्हीति ; अविद्येति ; तस्मादित्यादिना ; एषितव्यमिति ; तच्चेति ; इच्छामुखेनेति ; धर्मग्रहणस्येति ; यद्यपीति ; नापीति ; नित्यादिविवेकानन्तर्यायेति ; वेदान्तेभ्य इति ; निश्चयज्ञानेनेति ; अपौरुषेयतेति ; प्रागपि ब्रह्ममीमांसाया इति ; अत्रचेति ; तदस्तित्वस्येति ; अविद्योपाधिकमिति ; शक्तीति ; कुतः पुनरिति ; अनवच्छिन्नमिति ; सर्वस्येति ; प्रतीतिमेवेति ; नन्वहमिति ; अहमस्मीति न प्रतीयादिति ; अहंकारास्पदमिति ; तदस्त्वमेति ; तस्मादिति ; आक्षेप्तेति ; तत्त्वमसीति ; अभेदविवक्षयेति ; तदनेनेति ; विवादाधिकरणमिति ; अन्यथेति ; विरुद्धा हीति ; न हीति ; तस्मादिति   ; तदाभासत्वेति ; अत्रेति ; कर्तृत्वेऽपीति ; अभोक्तृत्वेऽपीति ; अद्वैतेति ; त्वंपदार्थेति ; केवलभोक्तृभ्य इति ; युक्तीति ; अपिचेति ; वेदान्तमीमांसेति ;

अथातो ब्रह्मजिज्ञासा ॥१॥ वृत्तिव्यक्तस्वरूपज्ञानमभिप्रेत्याह —

तत्र साक्षादिति ।

इष्यमाणत्वेन ज्ञानस्य प्रयोजनसूचनमुपपाद्य संशयसूचनमुपपादयति —

जिज्ञासात्विति ।

सा हीति ।

सा न्यायात्मिका मीमांसा अनेन ग्रन्थेन शिष्यत इत्यर्थः । विषयप्रयोजनब्रह्मस्वरूपप्रमाणयुक्तिसाधनफलविचाराणां च प्रतिज्ञानात् बह्वर्थसूचनता । लघूनि असंदिग्धार्थानि । सांशयिकं हि नानार्थस्फोरकत्वेन गुरु । सूचितार्थत्वे हि मुख्यार्थस्यापि अवश्यंभावित्वात् बह्वर्थसिद्धिः ।

बहूनामप्रकृतत्वात्तत्रेति निर्धारणायोगमाशङ्क्याह —

तेष्विति ।

अथैष ज्योतिरित्यत्रापूर्वसंज्ञायोगिविधास्यमानकर्मप्रारंभार्थोऽथशब्दः । अधिकरणं तु (जै. अ.२ पा.२ सू. २२) गुणोपसंहारेऽनुक्रमिष्यते ।

प्रधानस्य जिज्ञासायाः शास्त्रेणाप्रतिपाद्यमानत्वात् तत्प्रतिपादनप्रारंभार्थो मा भूत्, ब्रह्मतज्ज्ञानप्रारंभार्थो भवत्वित्याशङ्क्याह —

न चेति ।

'दण्डी प्रैषानि"त्यत्र हि 'मैत्रावरुणः प्रेष्यति चान्वाहेति' मैत्रावरुणस्य प्रैषानुवचने प्राप्तत्वादविवक्षा, इह तु जिज्ञासाया नाविवक्षा कारणम्, प्रत्युत तदविवक्षायां विषयप्रयोजनसूचनं न स्यादित्यर्थः । ।

ननु किं संशयसूचनेन? निर्दिष्टे ब्रह्मतज्ज्ञाने एव विषयप्रयोजने सिद्ध्यतस्तत्राह —

न हीति ।

अप्रस्तूयमानत्वात् प्रत्यधिकरणमप्रतिपाद्यमानत्वात् । 'मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्ये'ति सूत्रे 'माङ्माने' इत्यस्य ङानुबन्धस्य धातोर्नान्तत्वं निपातितम् । अस्य च पूजितविचारार्थत्वं प्रसिद्धिबलात्वात् स्वतो, नान्तस्य तु तदर्थत्वम् स्मृतिसिद्धमिति । मानित्यादिधातुभ्यः सन् भवत्यभ्यासस्य च दीर्घ इत्यर्थः । धातोः कर्मण इत्युत्तरसूत्रे इच्छार्थे सविधानादयमनिच्छार्थ इति गम्यते ।

लक्षितविचारनारंभार्थोऽथशब्दोऽस्तु नेत्याह —

न च स्वार्थपरस्येति ।

वाच्याया जिज्ञासायाः संशयसूचनेन वाक्यार्थान्वयोपपत्तौ न लक्षणा, अधिगतविषयप्रयोजनस्तु स्वत एव विचारे प्रवर्त्यतीत्यर्थः ।

अथाधिकारार्थ इत्यत्र अथशब्दस्यानन्तर्यार्थत्वं वदन् प्रष्टव्यः, किं पूर्वप्रकृतादथशब्दात् आनन्तर्यम् उत निरन्तरादानन्तर्यपक्षात्, नाद्य इत्याह —

पूर्वप्रकृतस्येति ।

द्वितीये, पूर्वप्रकृतमथशब्दमपेक्ष्य किं निरन्तरानन्तर्यार्थत्वपक्षात् आनन्तर्यं ब्रूयाद्, द्वितीयोऽथशब्दोऽधिकारार्थत्वपक्षस्य, उत अनपेक्ष्यैव । नाद्यः, अवश्यापेक्षणीयत्वात् पूर्वप्रकृतापेक्षाया अथशब्दस्य तादर्थे सति अर्थान्तरकल्पनानवकाशात् ।

न द्वितीयः इत्याह —

न च प्रकृतानपेक्षेति ।

एकधर्म्यपेक्षणे हि तन्निरूपकयोः पक्षयोः तुल्यार्थत्वेन विकल्पः कल्प्यत इत्यर्थः ।

नानेन भाष्येण पूर्वप्रकृतापेक्षाया आनन्तर्यरूपत्वमुच्यते, आनन्तर्यरूपत्वपक्षे विकल्पाप्रतिभानात्, किंतूभयत्रापि ब्रह्मजिज्ञासाहेतुभूतप्रकृतसिद्धिरस्ति प्रयोजनम् अतः फलद्वारेणाव्यतिरेक इत्युच्यते, इत्याह —

अस्यायमर्थ इति ।

ननु उभयथा फलाभेदे किमित्यानन्तर्याग्रहः, तत्राह —

परमार्थतस्त्विति ।

अन्यदप्यदृष्टादिकमपेक्ष्य भवन्ती जिज्ञासा यस्मिन् सति भवत्येव इत्यर्थः ।

ब्रह्मेति ।

स्वाध्यायाध्ययनानन्तरं ब्रह्मजिज्ञासाया भवितुं योग्यत्वात् तदानन्तर्यमथशब्देन वक्तुं युक्तमित्यर्थः ।

योग्यत्वे कारणमाह —

ब्रह्मणोऽपीति ।

अत्र चेति ।

स्वाध्यायस्य नित्यत्वात् तदानन्तर्यमयुक्तमिति तद्विषयमध्ययनं लक्षयतीत्यर्थः ।

ननु धर्मजिज्ञासासूत्रे ब्रह्मानुपादानात् कथं तेन गतार्थता, तत्राह —

धर्मशब्दस्येति ।

ननु इच्छायां विनियोगो न ज्ञाने इति, तत्राह —

ज्ञानस्यैवेति ।

अर्थतः प्राधान्याद् ज्ञानस्य तत्रैव विनियोग इत्यर्थः ।

साक्षात्कारोपयोग यज्ञादीनामाह —

तत्रापीत्यादिना ।

विशेषहेत्वभावोऽसिद्ध इत्याह —

तत्त्वमसीति ।

योग्यतावधारणे कर्म किमप्रमाणतयोपयुज्यते, उत प्रमाणतया ।

नाद्यः, अप्रमाणात् प्रमाणकार्योत्पादव्याघातादित्याह —

तत्किमिति ।

प्रमाणं कारणं यस्य तत्तथा ।

न द्वितीयः, कर्मणः प्रमाणत्वप्रसिद्ध्यभावादित्याह —

प्रत्यक्षादीति ।

पातजलसूत्रे स इति चित्तवृत्तिनिरोध उक्तः । दृढभूमिः तत्त्वप्रतिपत्तौ दृढ उपायः इत्यर्थः ।

नित्यानामेव संस्कारद्वारा भावनाङ्गत्वमुक्त्वा सर्वकर्मणामुत्पत्तिविधिविहितरूपमुपादाय भावनाङ्गतां विनियोगवचन — वशेनाह —

अन्ये त्विति ।

संयोगः शेषत्वबोधनं चतुर्थे चिन्तितम् ।

एकस्य त्विति ।

'खादिरे पशुं बध्नाति', 'खादिरं वीर्यकामस्य यूपं कुर्वीतेति च श्रूयते । तत्र संशयः, किं काम्ये इव खादिरता नित्येपि स्यादुत नेति, तत्र फलार्थत्वेन अनित्यायाः नित्यप्रयोगाङ्गता न युक्ता । यत्तु नित्येऽपि खादिरत्वश्रवणं, तत्काम्यस्यैव पशुबन्धनयुक्तयूपरूपाश्रयदानार्थं, ततो न नित्ये खादिरतेति प्राप्ते — राद्धान्तः, एकस्य खादिरत्वस्य उभयत्वे क्रत्वर्थ — पुरुषार्थलरूपोभयात्मकत्वे वचनद्वयेन क्रतुशेषत्वफलशेषवत्वक्षणसंयोगभेदावगमात् न नित्यानित्यसंयोगविधिविरोधः । न चाश्रयदानाय नित्यवाक्यम्, सन्निधानादेवाश्रयलाभात् । तत उभयार्था खादिरतेति (जै. अ. ४ पा. ३ सू. ५)

विशेषणत्रयवतीति ।

आदरनैरन्तर्यदीर्घकालत्ववतीत्यर्थः ।

कर्मापेक्षत्वेन ब्रह्मभावनायाः तदवबोधापेक्षाम् उपपादयन् कर्मावबोधानन्तर्यमिति भाष्यं घटयति —

न चेति ।

दृष्ट उपकारः तुषविमोकादिः, अदृष्टः प्रोक्षणादिजः प्रयाजादिजश्च । स चासौ यथायोगं सामवायिकः क्रतुस्वरूपसमवायी, आराद् दूरे फलापूर्वसिद्धौ उपकारश्च, तस्य हेतुभूतानि औपदेशिकानि प्रत्यक्षविहितानि आतिदेशिकानि प्रकृतेः विकृतावतिदेशप्राप्तानि क्रमपर्यन्तानि क्रमेणापि अवच्छिन्नान्यङ्गानि तेषां ग्रामः समूहः, तत्सहितं परस्परविभिन्नं कर्मस्वरूपं, तदपेक्षिताधिकारिविशेषश्च, तयोः परिज्ञानं विना कर्माणि न शक्यानि अनुष्ठातुमित्यन्वयः । औपदेशिकातिदेशिकेति शेषलक्षणादारभ्य उपरितनतन्त्रस्य अपेक्षोक्ता । क्रमपर्यन्तेति पञ्चमनयस्य । अङ्गग्रामेति तार्तीयस्य । सहितेति चातुर्थिकस्य प्रयोज्यप्रयोजकविचारस्य । परस्परविभिन्नस्येति द्वितीयलक्षणार्थस्य । तदधिकारीति षष्ठाध्यायार्थस्य । दृष्टादृष्टेति संस्कारकर्मवगुणकर्म स्वप्नधानकर्मत्वादिचिन्तायाश्च द्वितीयाध्यायगताया अपेक्षेत्युक्तम् ।

द्विरवत्तेति ।

दआग्नेययागः स्वोत्पत्तये 'द्व्यवदानं जुहोतीति वचनाद् द्विर्हविषोऽवद्यतीति विहितं द्विरवत्तपुरोडाशमपेक्षत इति । भावनासाध्ये साक्षात्कारे यदि कमापेक्षा, तर्हि स ब्रह्मस्वरूपम्, अन्यो वा ।

स्वरूपत्वे न कर्मापेक्षेत्याह —

स चेत्यादिना ।

पिष्टं संयौतीति विहितमिश्रणस्य पिण्ड उत्पाद्यः, गां दोग्धीति विहितदोहनेन प्राप्यं पयः ।

साक्षात्कारस्य ब्रह्मस्वरूपाद्भेदे ब्रह्म जडं स्यात्, तच्चेन्द्रियाद्यगोचरः शब्दश्च परोक्षप्रमाहेतुरिति केवलभावनाभूः साक्षात्कारः अप्रमा स्यादित्याह —

ततो भिन्नस्य चेति ।

मन्थरः स्तिमितः । स्फुरन्त्यो ज्वाला जटाकारा अस्य सन्तीति जटिलः ।

न च कूटस्थेति ।

कूटस्थनित्यतया पूर्वरूपापायलक्षणो विकारः अभिनवगुणोदयरूपसंस्कारश्च न स्तः, सर्वव्यापितया न प्राप्तिः ।

कूटस्थनित्यत्वाविरुद्धं दोषविघातसंस्कारमाह —

अनिर्वचनीयेति ।

प्रतिसीरा तिरस्करिणी । रङ्गव्यावृतो नटः । आरोह उच्छ्रयः । विस्तारपरिमाणं परिणाहः । उपासना किमापातज्ञानाभ्यासः, निश्चयाभ्यासो वा ।

आद्यं भङ्क्त्वा द्वितीयं शङ्कते —

नन्विति ।

ननु उपासनैव अविद्यां निवर्तयतु, किं साक्षात्कारेण, यत्र कर्मोपयोगस्तत्राह —

न चेति ।

ननु रज्जुसर्पादिभ्रमा अपरोक्षा अपि आप्तवचनादिजनितपरोक्षज्ञानैः निवर्तन्ते — सत्यं, ते निरुपाधिकाः, कर्तृवादिस्तु सोपाधिक इत्यभिप्रेत्य तथाविधमुदाहरति —

दिङ्मोहेति ।

नौस्थस्य तटगततरुषु चलद्वृक्षभ्रमः ।

अपरोक्षे ब्रह्मणि शब्द एव अपरोक्षज्ञानहेतुः, अन्यथा तु तत्र परोक्षज्ञानस्य भ्रमत्वापातादिति, तत्राह —

न चैष इति ।

अयमभिसन्धिः — स्वतोऽपरोक्षस्यापि ब्रह्मणः पारोक्ष्यं भ्रमगृहीतम् । तत्रापरोक्षप्रमाकरणादेव तत्साक्षात्कारः । अन्तःकरणं च सोपाधिके आत्मनि जनयत्यहंवृत्तिम् इति सिद्धम् अस्य आत्मनि अपरोक्षधीहेतुत्वम् । तत्तु शब्दजनितब्रह्मात्मैक्यधीसन्ततिवासितं तत्पदलक्ष्यब्रह्मात्मतां जीवस्य साक्षात्कारयति, अक्षमिव पूर्वानुभवसंस्कारवासितं तत्तेदन्तोपलक्षितैक्यविषयप्रत्यभिज्ञाहेतुः, शब्दस्तु नापरोक्षप्रमाहेतुः क्लृप्तः, प्रमेयापरोक्ष्ययोग्यत्वेन प्रमायाः साक्षात्कारत्वे देहात्मभेदविषयानुमितेरपि तदापत्तिः, दशमस्वमसीत्यत्रापि तत्सचिवादक्षादेव साक्षात्कारः, अन्धादेस्तु परोक्षधीरेव । अपिच — वेदान्तवाक्यजज्ञानभावनाजाऽपरोक्षधीः । मूलप्र माणदायन न भ्रमत्वं प्रपद्यते । 'न च प्रामाण्यपरतस्वापातः अपवादनिरासाय मूलशुद्ध्यनुरोधात् । दृश्यते त्वग्रया बुद्ध्यत्यादेर्नयबृंहितवचनादित्थमुररीकारः ।

साक्षादपरोक्षादित्येवमाकारैव धीः शब्दादुदेति, नतु परोक्षं ब्रह्मति, सा तु करण स्वभावात्परोक्षाऽवतिष्ठते न भ्रम इति सर्वमवदातम् ॥स्वरूपप्रकाशस्याभिव्यक्तिसंस्कारमुपपाद्य व्यञ्जकान्तःकरणवृत्तेरुत्पाद्य तामाह —

नचेति ।

वृत्तिविषयत्वे ब्रह्मणोऽस्वप्रकाशत्वमाशङ्क्यासमुच्चयमतेन कर्मोपयोगाय साम्यमाह —

न चैतावतेति ।

स्वप्रकाशस्यैव शाब्दज्ञानविषयत्वं त्वयाऽपीष्टमित्यर्थः ।

परिहारसाम्यमाह —

सर्वेति ।

ननु निरुपाधिब्रह्मसाक्षात्कारगोचरे कथमुपहिततेति, तत्राह —

नचान्तःकरणेति ।

निरुपाधि ब्रह्मेति विषयीकुर्वाणा वृत्तिः स्वस्वेतरोपाधिनिवृत्तिहेतुरुदयते; स्वस्या अप्युपाधेर्निवर्तकान्तरापेक्षेति भावः । ननु — वृत्तिविशिष्टस्य शबलतया न तत्त्वसाक्षात्कारगोचरता;  वृत्त्यवच्छिन्नात्मविषयत्वे च वृत्तेः स्वविषयत्वापातः, विशेषणाग्रहे विशिष्टाग्रहात्, उपलक्षितस्य तु न वृत्त्युपाधिकता — इति । उच्यते; वृत्त्युपरागोऽत्र सत्तयोपयुज्यते न प्रतिभास्यतयाऽतो वृत्तिसंसर्गे सत्यात्मा विषयो भवति, न तु स्वत इति न दोषः ।

ननूपाधिसंबन्धाद्विषयत्वं, विषयत्वे चोपाधिसंबन्धो विषयविषयित्वलक्षण इतीतरेतराश्रयमत आह —

अन्यथेति ।

न ब्रह्मसाक्षात्कारस्य ब्रह्मविषयत्वप्रयुक्तं चैतन्यप्रतिबिम्बितत्वं, किं तु स्वतः, घटादिवृत्तिष्वपि साम्यात् । चैतन्यं च ब्रह्मेति स्वभाविको वृत्तेस्तत्संबन्ध इत्यर्थः ।

यच्च स्वरूपव्यतिरिक्तसाक्षात्कारस्य भ्रमत्वमिति तत्राह —

नचेति ।

विषयविसंवादाभावात् प्रमात्वमित्यर्थः ।

जीवचैतन्यमात्रापरोक्षेपि शुद्धानन्दात्मत्वादेः पारोक्ष्यान्न तदाकारसाक्षात्कारो यथार्थ इत्याशङ्क्याह —

न हीति ।

शुद्धादीनां स्वभावत्वेऽप्युपाधितिरोधानादविभावनम् ।

वेदान्तजज्ञानेन तत्तदुपाध्यपगमे यथावदभिव्यक्तो जीवो ब्रह्मेति गीयते, स चेदुपाध्यभावस्तर्हि तदतिरिक्तः परोक्षः कथं साक्षात्कारे भायादत आह —

नचेति ।

यथा परैरन्योन्याभावो न भवति घट इति व्यपदिश्यमानोपि घटतदन्योन्याभावव्यतिरिक्तो नाभाव उपेयते, न च घटतदन्योन्याभावयोरेकता, एवमस्माकं निरुपाधिकं ब्रह्म, न चोपध्यभावस्ततोऽन्य इत्यर्थः ।

ननु चैतन्याभिन्नाश्चेदानन्दादयस्तद्वदविद्यादशायां विभाव्येरन्, उपाधिरुद्धाश्चेच्चैतन्येऽपि निरोधस्तुल्यस्तदभेदादिति शङ्कामुपसंहारव्याजेन परिहरति —

तस्मादिति ।

यथा षडजादयो गन्धर्वशास्त्राभ्यासात् प्रागपि स्फुरन्तस्तद्रूपेणानुल्लिखिता न श्रोत्रेण व्यज्यन्ते, व्यज्यन्ते तु शास्त्रवासितेन तेन; एवं वेदान्तवाक्यजन्यब्रह्मात्मैकताकारज्ञानवासितान्तःकरणेन तद्भावाभिव्यक्तिर्न प्रागिति । निषादर्षभगान्धारषड्जमध्यमधैवतपञ्चमाः स्वराः । एषां समुदायो ग्रामः । मूर्च्छना तु तेषामारोहावरोहौ ।˳

समुच्चयपक्षमिदानीं निराकरोति —

नेति ।

तत्र किमिह वा जन्मान्तरे वाऽनुष्ठितं कर्म संस्कारद्वारा ज्ञानोत्पत्तावुपयुज्यते, उतेहैवावगते ब्रह्मणि कृतकर्मणां भावनया समुच्चय इति । द्वितीये किं भावनाफलसाक्षात्कारे कर्मोपयोगः, उत भावनास्वरूपे इति ।

न तावत्कार्य इत्याह —

तस्या इत्यादिना ।

तदुच्छेदकस्य कर्मण इति समानाधिकरणे षष्ठ्यौ ।

सजातीयेति ।

सजातीयाश्च ते स्वयं च परे च तेषां विरोधिनस्तथोक्ताः ।

अवगते तत्त्वे विपर्यासदर्शनेन कर्मानुष्ठानसंभवात् समुच्चय इति प्रत्यवस्थानं दूषयति —

अत्रोच्यत इति ।

विदुष इति ।

क्रियाकर्त्रादिर्वास्तव इति निश्चयवत इत्यर्थः ।

ननु विदुषश्चेदधिकारस्तर्हि क्रियाकर्त्रादेर्वास्तवत्वमित्याशङ्क्याह —

क्रियाकर्त्रादीति ।

विद्वस्यमानः अविद्वानेव विद्वान्भवन्विद्वदाभास इत्यर्थः । लोहितादिडाज्भ्यः क्यषिति क्यषन्तस्य रूपम् । अतएवाविद्वान्कर्मकाण्डेऽधिकार्यभिमत इति । अविद्वद्विषयत्वं शास्त्रस्य वर्णयांबभूवेति । प्राक् चेत्यादिभाष्येणेत्यर्थः ।

यदि प्रतीयमानाधिकारनिमित्तस्य ब्राह्मण्यादेः शास्त्रनिमित्तमिथ्यात्वप्रत्ययादश्रद्दधानो विध्यनधिकारी, तर्ह्यतिप्रसङ्ग इति शङ्कते —

स्यादेतदिति ।

भिन्नमुल्लङ्गितं शास्त्रनिषिद्धं कर्म येन स तथा तस्य भावस्तता अतिक्रान्तनिषेधतेत्यर्थः । अवगतमिथ्याभावस्याप्यधिकारनिमित्तस्य प्रतीयमानत्वान्निषेधाधिकारहेतुता । न च श्रद्धधानता; इहाधिकारहेतुरतत्त्वविदोऽपि नास्तिकत्वेनाश्रद्धधतो निषेधाधिकारात्, इतरथा निषेधलङ्गिनस्तस्य प्रत्यवायाभावापाताद्विधिषु तु श्रद्धाप्यधिकारहेतुरिति ।

ब्रह्मविदो नाधिकार इत्याह —

मैवमित्यादिना ।

यद्यपि यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति श्रद्धारहितमपि कर्म वीर्यवदिति स्थास्यति; तथापि सा श्रद्धा भक्तिरूपा, इयं तु प्रमाणद्वारा विश्वासात्मिकैव तदभावेऽनधिकार एवेति । न श्रद्धधान इति । नकारोऽयं प्रतिषेधवाची । यत एवावगतब्रह्मभावो विधिषु नाधिकार्यत एव ।

ज्ञानानन्तरं कर्मानुष्ठानासंभवान्नोपासनोत्पत्तौ कर्मापेक्षेति द्वितीयकल्पानवकाश इत्याह —

अतएवेति ।

एतद्विभजते —

निर्विचिकित्सेति ।

पितृमनुष्यदेवलोकाप्तिहेतुभिः कर्मप्रजाधनशब्दवाच्यापरविद्याभिर्नामृतत्वमाप्तवन्तः, किंतु त्यागसाध्यज्ञानेनेत्यर्थः । तथा हि श्रुत्यन्तरम् – ‘पुत्रेणैवायं लोको जय्यो विद्यया देवलोकः कर्मणा पितृलोक’ इति ।

इह भवान्तरे वाऽनुष्ठितं कर्म सत्त्वशुद्धिद्वारेण ज्ञानोत्पत्तिहेतुरिति पक्षमङ्गीकर्तुं शङ्कते —

तत्किमिति ।

आरात् दूरे ।

इमं पक्षमुपपादयति —

तथा हीति । प्रधानेन प्रत्ययार्थेनेच्छयाऽऽख्यातोपात्तभावनायाः कार्यस्य संप्रत्ययात्समन्वयादिति ।

अनेन कर्मणा इदं ममाङ्गमन्तःकरणं संस्क्रियते पुण्येन चोपधीयत उपचीयत इति यो विदित्वा चरति कर्म, स आत्मशुद्ध्यर्थं यजन्नात्मयाजी, स च देवयाजिनः काम्यकर्तुः श्रेयानिति शातपथश्रुत्यर्थः । स यदेव यजेतेत्यत्र प्रकृतं यज्ञादि ।

श्रुत्यन्तरमाह —

नित्येति ।

नित्यानां संस्कारद्वारा ज्ञानोत्पादकतोक्ता, इदानीं यदुक्तं समुच्चयवादिना सर्वेषां कर्मणां ज्ञानकार्ये मोक्षे समुच्चय इति तत्राह —

क्लृप्तेनैवेति ।

नित्यानां फलं पापक्षयं ज्ञानमाकाङ्क्षते, न स्वर्गादि । तत्र यथा प्रकृतौ क्लृप्तोपकाराणाम् अङ्गानामतिदेशेन न प्राकृतोपकारातिरिक्तोपकारकल्पनमेवं ज्ञाने विनियुक्तयज्ञादीनां क्लृप्तनित्यफलपापक्षयातिरेकेण न नित्यकाम्यकर्मसाधारणमोक्षोपयोग्युपकारः कल्प्यः । पापक्षयस्य च ज्ञानोत्पत्तिद्वारत्वं ततस्तु तमित्यादिशास्त्रसिद्धम् । न च वाच्यं — नित्येभ्यः पापक्षयस्य तस्माच्च ज्ञानोत्पत्तेरन्यतः सिद्धौ किं यज्ञेनेत्यादिना — इति; नित्यानां ज्ञानोत्पत्तिप्रतिबन्धकदुरितनिबर्हकत्वस्य विशेषतः शास्त्रान्तरादसिद्धेः । अस्मिंश्च विनियोगे सति ज्ञानोद्देशेन नित्यान्यनुतिष्ठतोऽवश्यं ज्ञानं भवति, इतरथा शुद्धिमात्रमनियता च ज्ञानोत्पत्तिरिति विनियोगोपयोगः । ‘ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मण’ इत्यादिस्मृतेरियं श्रुतिर्मूलम् । श्रुतिस्त्वेतादृशी तुल्यत्वे नैतामनुवादयति । न  संयोगपृथक्त्वेन साक्षादङ्गभाव इत्यनेन साक्षादङ्गभावो निषिध्यते, न संयोगपृथक्त्वम्; सर्वापेक्षाधिकरणे (ब्र.अ.३.पा.४.सू.२६.) संयोगभेदस्याश्रयिष्यमाणत्वात् । तस्मादयमर्थः — संयोगपृथक्त्वमस्तीत्येतावता न साक्षादङ्गभावसिद्धिरारादङ्गभावेऽपि तदुपपत्तेरिति । नित्यानां दुरितक्षयफलत्वे नित्यकाम्यवैषम्यायोगमाशङ्क्य — नित्येहितेनेयुक्तम् । चित्तसत्त्वं चित्तगतः सत्त्वगुणः ।

प्रत्यक्षोपपत्तीति ।

संसारस्यासारत्वं दृष्टिविषये प्रत्यक्षग्राह्यमदृष्टे तूपपत्त्या । प्रत्यक्षोपपत्त्योश्च प्रवृत्तिद्वारं चित्तगतसत्त्वं, तस्य पापकपाटनिवृत्त्यपावरणे उद्धाटने सतीत्यर्थः ।

धर्मब्रह्मावबोधयोर्हेतुमद्भावाभावेऽपि क्त्वाश्रुत्या पौर्वापर्यमाशङ्कते —

स्यादेतदिति ।

अग्निहोत्रयवागूपाकवदिति ।

पञ्चमे स्थितम् – ‘अर्थाच्च’ (जै.अ.५.पा.१. सू.२) अग्निहोत्रं जुहोति यवागूं पचतीत्यत्र किं होमपाकयोर्यथापाठं क्रमः, उत पाक एव प्रथम इति संशये, नियामकश्रुत्यभावाद्धोमनिर्वृतेश्च द्रव्यान्तरेण संभवाद्यवागूपाकस्य चारादुपकारकत्वाद्धोमप्राथम्ये प्राप्ते — राद्धान्तः; पदार्थः प्रयोजनापेक्षोऽनुष्ठानविधिरेव प्रयोजनोपयोगिनं क्रमविशेषं नियच्छतीति पक्त्वैव होतव्यम् । न च द्रव्यान्तरानयनं; श्रुतद्रव्यवैयर्थ्यप्रसङ्गात् । न च दृष्टार्थत्वे सत्यारादुपकारकत्वं पाकस्येति ।

पाठस्थानेति ।

क्रमेण वा नियम्येत क्रत्वेकत्वे तद्गुणत्वात् (जै.अ.५.पा.१.सू.४) समिधो यजतीत्यादिषु क्रमपठितप्रयाजेषु चिन्ता — किं यथापाठमनुष्ठानक्रमः, उत न । तत्र वाक्यानां स्वार्थमात्रावसितत्वान्न क्रमपरतेत्यनियमप्राप्तौ सिद्धान्तः; यथैतानि वाक्यानि स्वार्थविधायीनि, तथानुष्ठानापेक्षितस्मृत्युपयोगीन्यपि । तानि च क्रमवन्ति स्वाध्यायविध्यध्यापितानि क्रमवन्त्येव स्मरणानि जनयन्ति, स्मृतस्य चानुष्ठानमिति स्मरणक्रमेणानुष्ठानं नियम्यते, एवं क्रमपाठोऽपि दृष्टार्थो भविष्यति । तस्मात् पाठक्रमेण नियम इति । सूत्रार्थस्तु एकस्मिन् क्रतौ श्रूयमाणानां प्रयाजादीनां पाठक्रमेण प्रयोगक्रमो नियम्येत; तस्य पाठक्रमस्यानुष्ठाने लोके गुणत्वावगमात्, तद्यथा स्नायादनुलिम्पेत भुञ्जीतेति॥

‘स्थानाच्चोत्पत्तिसंयोगात्’ (जै.अ.५.पा१.सू.१३) । ज्योतिष्टोमविकारे साद्यस्कसंज्ञेऽतिदेशप्राप्तेष्वग्निषोमीयादिपशुषु सहत्वगुणविधानार्थं वचनं श्रूयते ‘सह पशूनालभत’ इति । तद्विधानाच्च प्राकृतः प्रथममग्नीषोमीयस्ततः सवनीयः ततोऽनुबन्ध्य इत्येवंरूपः क्रमो निवर्तते । सहत्वं चेदं सवनीयस्थाने; तथा सति हीतरयोस्तुल्यवत् स्थान चलनं भवति । सवनीयश्चाश्विनग्रहग्रहणानन्तरकालः प्रकृतावाम्नायते; आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं सवनीयं पशुमुपाकरोतीति । तत्रैक कालत्वलक्षणसहत्वासंभवादवश्यंभाविनि क्रमे कः प्रथमं प्रयुज्यतामित्यपेक्षाया किमनियमेनैषां प्राथम्यमुत सवनीयस्येति संशयः । तत्र नियामकश्रुत्याद्यभावादनियमे प्राप्ते — राद्धान्तः; स्थानात्सवनीयप्राथम्यं नियम्येत, कुतः? उत्पत्तिसंयोगात्, प्रकृतौ सवनीयस्याश्विनग्रहणानन्तर्यमुत्पत्ताववगतं विकृतौ च तेनैव कालेन स उपस्थापितः, अग्नीषोमीयस्तु सहत्ववचनेन स्वस्थानाच्चालितस्ततः प्रथमं सवनीयस्यैवोपाकरणादिप्रयोगः । इतरयोस्तु तत्साहित्यवचनात् तदानन्तर्यं, मिथस्त्वनियमः । अथवा प्रकृतिदृष्टपौर्वापर्यस्यासति बाधके त्यागायोगात् प्रथममग्नीषोमीयमुपाकृत्यानुबन्ध्य उपाकर्तव्य इति॥ मुख्यक्रमेण चाङ्गानां तदर्थत्वात्’ (जै.अ.५.पा.१.सू.१४) ‘सारस्वतौ भवत एतद्वै दैव्यं मिथुनं यत्सरस्वती सरस्वांश्चेति’ सरस्वतीदैवतं सरस्वद्दैवतं च युगपत्कर्मद्वयं श्रूयते । तत्र च सरस्वतीदैवतस्य याज्यानुवाक्यायुगलं प्रथममाम्नायते, तदनन्तरं पुंदैवतस्य । तत्र मन्त्राणां प्रयोगशेषत्वाद्याज्यानुवाक्यापाठक्रमेण प्रधानक्रमोऽवगतः । अङ्गविशेषे निर्वापादौ संशयः, किमनियतोऽस्य क्रम; उत प्रधानक्रमेण नियत इति । तत्र याज्यानुवाक्यापाठक्रमस्य प्रधानमात्रगोचरत्वादङ्गानामनुष्ठानक्रमे श्रुत्याद्यभावान्मुख्यक्रमस्य च प्रमेयत्वेन प्रमाणत्वानुपपत्तेरनियमे प्राप्ते — सिद्धान्तः; मुख्यक्रमेणाङ्गानां क्रमो नियम्येत, तदर्थत्वात्, प्रधानार्थत्वादङ्गानाम् । यद्यपि मुख्यक्रमस्य याज्यानुवाक्यापाठक्रमापेक्षया प्रमेयत्वं; तथापि प्रमितस्यास्य धूमादेरिवान्यत्र प्रमाणत्वमविरुद्धम् । प्रधानस्य हि प्रयोगविधिना साङ्गस्यैव प्रयोगश्चोदितः, स चावर्जनीयाद्व्यवधानादधिकव्यवधिमङ्गानां न सहते । यदि तु प्रधानान्तरसन्निधा वन्याङ्गानुष्ठानं, तदा तेनैव स्वप्रधानादङ्गानि विप्रकृष्येरन् ; अतो मुख्यक्रमादङ्गक्रमनियम इति॥

‘प्रवृत्या तुल्यकालानां गुणानां तदुपक्रमात्’ (जै.अ.५.पा.१.सू.८) वाजपेये – ‘सप्तदश प्राजापत्यान्पशूनालभत’ इति सप्तदश यागा अङ्गत्वेन श्रूयन्ते ; तेषां च वैश्वदेवीं कृत्वा सह प्रचरन्तीति प्रयोगसाहित्यश्रवणादेकोपक्रमोपसंहार एक एवावान्तरप्रयोगः । तेनैषामतिदेशप्राप्ताः प्रोक्षणादिधर्मा न एकैकत्र समापनीयाः , किं तर्हि , पशुष्वेक एव पदार्थः परिसमापनीयस्ततोऽन्यस्ततोऽन्यः; इतरथा ह्येकस्मिन्पशौ सर्वाङ्गानुष्ठाने प्रधानस्याङ्गैर्विप्रकर्षः स्यात् । तत्र प्रथममेकपदार्थानुष्ठाने विशेषतो वेदाभ्यनुज्ञाभावादिच्छैव नियामिका । तदेवं  स्थिते द्वितीयादिपदार्थप्रयोगे संशयः; किं प्रथम एव द्वितीयादावपीच्छैव कारणमुत प्रथमप्रवृत्त्यैव नियम इति । तत्र पूर्वपक्षः — न तावत् श्रुत्याद्यस्ति नियामकम्; प्रथमाङ्गप्रवृत्तिश्च पौरुषेयी वेदेन नाभ्यनुज्ञायत इति न तद्वशादुक्तरनियमः । तेन प्रथमतराङ्गाश्रितपुरुषेच्छैव चरमतराङ्गनियामिका । प्रयोगसौकर्यं चैवं लभ्यते; इतरथा हि प्रथमं प्रयोगानुसंधानव्यग्रमनस उपरितनं च प्रयोगं तद्वशेन तन्वानस्य मतिक्लेशः स्यात् ।

तस्मादनियम इति प्राप्ते — राद्धान्तः; एकप्रयोगतया तुल्यकालानां प्रोक्षणाद्यङ्गानां प्रवृत्त्या क्रमनियमः ; कुतः? तदुपक्रमात् तेन प्रधानेनाङ्गानामुपक्रमात्, तदेकप्रयोगत्वादित्यर्थः । सप्तदश यागाङ्गानि सह प्रयोज्यानि प्रथमाङ्गानुष्ठाने सति द्वितीयादौ षोडशभिर्व्यवधानमभ्यनुजानन्ति न ततोऽधिकम्; प्रावृत्तिकक्रमाश्रयणे च सप्तदशसु प्रथमाङ्गानुष्ठाने द्वितीयो धर्मः प्रथमादिपशुषु क्रियमाणः षोडशभिरेव व्यवधीयते, क्रमानन्तराश्रयणेऽधिकैरपि व्यवधानं स्यात्; अतः प्रयोगवचनकोपपरिहाराय प्रवृत्त्या नियम इति ।  शेषाणां शेषिणां च क्रमापेक्षायां हेतुमाह —

युगपदिति ।

युगपदनुष्ठानप्राप्तौ क्रमः स्यात्तदेव कुतस्तत्राह —

एकपौर्णमासीति ।

षण्णां मध्ये त्रयः पूर्णमास्या संबद्धास्त्रयोऽमावास्यया ।

कालैक्येऽपि यदि कर्तृभेदः स्यात्, तदा न क्रमोऽपेक्ष्येत तन्माभूदित्याह —

एकाधिकारीति ।

स्वामित्वेनाधिकारित्वं तस्यैवानुष्ठातृत्वेन कर्तृत्वम् ।

एकाधिकारिकर्तृकत्वे हेतुमाह —

एकप्रयोगवचनेति ।

यजेतेत्याख्याते कर्त्रैक्यस्य विवक्षितत्वात्प्रयोगवचने कर्त्रैक्यं सिद्धम् ।

एकप्रयोगवचनपरिग्रहे हेतुमाह —

एकफलवदिति ।

एकश्चासौ फलवतः प्रधानस्य उपकारश्च तस्मिन् समुच्चित्य साधनत्वेन उपनिबद्धाः शेषाः; एकेन फलेनावच्छिन्नाः शेषिणोऽत एकप्रयोगवचनोपगृहीता इति ।

सौर्यार्यमणेति ।

एकादशे स्थितम् – ‘अङ्गवत्क्रतूनामानुपूर्व्यम्’ (जै.अ.५.पा.३.सू.३२) सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकामः’ ‘आर्यमणं चरुं निर्वपेत्स्वर्गकामः’ ‘प्राजापत्यं चरुं निर्वपेच्छतकृष्णालमायुष्कामः’ इत्यादिषु क्रमपठितक्रतुषु चिन्ता । किं पाठक्रमेण प्रयोज्या, उतानियमेनेति । तत्र यथाङ्गानां समिदादीनामेकेन युगपत्करणाशक्तेः क्रमाकाङ्क्षायां पाठात् क्रमनियमः, एवं क्रतूनामपीति प्राप्ते — राद्धान्तः; ‘न वाऽसंबन्धात्’(जै.अ.५.पा.३ सू.३३) अङ्गेष्वेकप्रयोगवचनपरिग्रहादस्ति क्रमाकाङ्क्षा, क्रतुषु नानाफलेषु नैकः प्रयोगवचनोऽस्ति, न च सर्वे मिलित्वा प्रयोजयन्ति, तेनैषामेकप्रयोगवचनसंबन्धाभावान्नास्ति क्रमाकाङ्क्षा, कितु पुरुषस्य । न च तदाकाङ्क्षितं विधिप्रतिपाद्यमिति तदिच्छयैव क्रमः, पाठक्रमस्त्वध्ययनार्थ इति । युगपत्पाठासंभवेनावर्जनीयतया पाठक्रमस्यागतत्वात्तन्नियमस्य चाध्ययनार्थत्वादित्यर्थः । गोदोहनस्य पुरुषार्थत्वं चतुर्थे चिन्तितम् — यस्मिन्प्रीतिः पुरुषस्य तस्य लिप्साऽर्थलक्षणाऽविभक्तत्वात् (जै.अ.४.पा.१.सू.२) दर्शपूर्णमासयोर्गोदोहनेन पशुकामस्य प्रणयेदिति श्रूयते । तत्र गोदोहने क्रत्वर्थत्वपुरुषार्थत्वसंदेहे पशुकामस्येति समभिव्याहाराद्वाक्येन क्रतूपकारकत्वेन चोभयार्थमिति प्राप्ते — सिद्धान्तः; नोपकारकत्वं शेषत्वं, किंतु तादर्थ्यम्; तथाच गोदोहनस्य पशुशेषत्वान्न क्रत्वङ्गत्वम्, अङ्गापेक्षा च क्रतोरुपकाराय; अन्यार्थस्यापि क्रतूपकारकत्वमविरुद्धम्, तेन वाक्यात्पुरुषार्थमेवेति । यस्मिन्निर्वृत्ते पुंसः प्रीतिः फलं भवति, तस्य लिप्सा फलप्रयुक्ता, न विधितः; कुतः? तस्य फलसाधनस्य प्रीत्या विभागाभावादिति सूत्रार्थः ।

अस्य चाप्प्रणयनाश्रितत्वात्तत्क्रम एव क्रम इति गोदोहनस्य प्रणयनाश्रितत्वमुपपादयति —

नो खल्विति ।

कल्प्यतां तर्हि व्यापारान्तरावेशस्तत्राह —

अप्प्रणयनाश्रितमिति ।

प्रणयनान्तरविशिष्टविधिमाशङ्क्य प्रतीयत इत्युक्तम् । सन्निहितलाभेन विशिष्टविधिरित्यर्थः ।

सामर्थ्यरूपाद् लिङ्गाच्चाप्प्रणयनाश्रितत्वमाह —

योग्यत्वाच्चेति ।

यथा वा दर्शपूर्णमासाभ्यामिति ।

चतुर्थे चिन्तितम् — उत्पत्तिकालाङ्गविशये कालः स्याद्वाक्यस्य तत्प्रधानत्वात् (जै.अ.४.पा.३.सू.३७) दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेतेति श्रूयते । तत्र संदेह, किमिदमङ्गस्य विधायकमुत कालस्येति । तत्र क्त्वाश्रुतेरङ्गस्य, तच्चाङ्गत्वं यजेतेति विधिप्रत्यासत्तेः सोमस्यैव । ननु द्रव्यद्वारेणान्यत्र विहितसोमयागस्य प्रत्याभिज्ञानात्कथं तद्विधिः । उच्यते; तत्कार्यस्येहाप्रत्यभिज्ञानाद्वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतेतिवत् । नह्यत्र ब्रह्मवर्चसं बृहस्पतिसवकार्य प्रतीतम्, अतोऽङ्गं बृहस्पतिसवो वाजपेयस्य । एवंच सोमयागोऽपि दर्शपूर्णमासेष्टिं प्रत्यङ्गत्वेन विधीयत इति प्राप्ते — उच्यते ; अस्मिन्कालाङ्गविधिसंशये कालो विधेयः स्यात् । कुतः , अस्य वाक्यस्य कालप्रधानत्वात् । यदि कर्मविधिरेव स्यात् , तर्हि रूपेण द्रव्यदेवतेन भाव्यम् ; नचेह देवतारूपमस्ति । अथाव्यक्तत्वेनोद्भिदादिष्विव सौमिकी देवताऽतिदेशेन प्राप्येत, तर्हि सोमोऽपि प्राप्येतेति सोमेनेति व्यर्थं स्यादतः सोमयागप्रत्यभिज्ञार्थमेव तत् । प्रत्यभिज्ञाने च न विधिसम्भवः ; बृहस्पतिसवस्तु वाजपेयप्रकरणे श्रुतस्तत्र प्रकरणान्तरन्यायात्कर्मान्तरमेव विधीयते । नामधेयमपि यजिपरतन्त्रतया न प्रत्यभिज्ञापकं, किंतु तत्रैव धर्मलक्षणया वर्तते । अतो नाम्नैव प्रसिद्धबृहस्पतिसवधर्माणां प्रापितत्वाद्युक्तं कर्मविधानमिति ।

यथाग्नेयादीनामिति ।

एकादशे चिन्तितम् — प्रयोजनाभिसंबन्धात् पृथक्त्वं ततः स्यादैककर्म्यमेकशब्दाभिसंयोगात् (जै.अ.११,पा.१,सू.१) । आग्नेयादिषु  संशयः किं तन्त्रमेषां फलमुत भेदेनेति । तत्र परस्परनिरपेक्षैरुत्पत्तिविधिभिर्विहितानां प्रधानानां पृथक्फलाकाङ्क्षत्वात्तत्संनिधौ श्रूयमाणं फलं भेदेनाभिसंबध्यते; ततः प्रतिप्रधानं फलभेदे इति प्राप्ते राद्धान्तः । यद्यप्येषां पृथक्त्वं पृथगुत्पत्तिविहितता; तथाप्यैककर्म्यम्, क्रियत इति व्युत्पत्त्या फलं कर्म, एककर्म्यमेकफलत्वमित्यर्थः । कुतः , प्रयोजनेन समुच्चितानां सबन्धाद्धेतोः । स एव कुतः, एकशब्दाभिसंयोगात् । दर्शपूर्णमासशब्देन हि समुदायवाचिना निर्देश्य फले विधीयन्ते आग्नेयादय, यथा ग्रामेणोदपान खेय इति समुदायशब्दनिर्देशात्समुदितैः पुंभिरुदपानः खन्यते, न प्रतिपुरुषं कूपभेदः एवमिहापि । ननु गणायानुलेपनमित्यादौ समुदायशब्दनिर्दिष्टमप्यनुलेपनादि प्रतिपुरुषमावर्तते तद्वत् किं न स्यात् । नेति वदामः; युक्तमनुलेपनादेः संस्कारत्वाद्दृष्टार्थत्वाच्च प्रतिसंस्कार्यमावृत्तिरिह फलमुद्दिश्य विधीयमानानामुपादीयमानानामेवाग्नेयादीनां विवक्षितं साहित्यमिति फलतन्त्रतेति ।

संग्रहे जिज्ञासयोः फलादिभेदं निर्दिश्य विभजने ज्ञानयोस्तत्कथनमयुक्तमित्याशङ्क्याह —

जिज्ञासाया इति ।

इच्छाया ज्ञानपराधीनतया ज्ञानफलमेव तत्फलमित्यर्थः ।

फलभेदे वक्तव्ये कारणभेदकथनं भाष्ये अनुपयोगीत्याशङ्क्याह —

न केवलमिति ।

विधेयाविधेयक्रियाज्ञानफलयोरुत्पाद्यता । व्यङ्ग्यता च भेद इत्यर्थः ।

अनुष्ठानान्तरेत्यत्रान्तरशब्दार्थमाह —

शाब्दज्ञानेति ।

क्वचित् ‘ब्रह्मविदाप्नोति पर’मित्यादौ ज्ञानफलं साध्यत्वेन प्रतीतमपि न्यायबलाद्वचनान्तरवशाच्चाभिव्यक्तिपरत्वेन व्याख्याय फलभेद उक्तः, जिज्ञास्यभेदस्तु प्रतीतिसमय एव स्फुट इत्याह —

जिज्ञास्यभेदमिति ।

ननु भवतेरकर्मकत्वाद्भावार्थत्वे च नंपुसकत्वप्रसङ्गाद्भव्यशब्देन कथं जिज्ञास्यभेदसिद्धिरत आह —

भवितेति ।

ननु ‘तयोरेव कृत्यक्तखलार्थाः’ इति कृत्यानां भावकर्मणोः स्मरणात् ‘अचो यदि’ ति सूत्रविहितयत्प्रत्ययान्तस्य भव्यशब्दस्य कर्तृवाचित्वमयुक्तमित्याशङ्क्याह —

कर्तरि कृत्य इति ।

‘भव्यगेये’त्यादिना हि सूत्रेण भावकर्मवाचितानियममपोद्य कृत्यप्रत्ययान्ता एव भव्यादिशब्दा विकल्पेन कर्तरि निपात्यन्ते । अतो भवतीति व्युत्पत्त्या भव्यशब्दः कर्तृवाची । पक्षे च ‘भावकर्मणोः’ । अस्य च भवतेरनुपसर्गत्वात्प्राप्तिवाचित्वाभावाच्च कर्माप्राप्तिः । भावे तु भव्यमनेनेति स्याद् नेह स; पुंल्लिङ्गनिर्देशात्, उत्पाद्यधर्मापेक्षणाच्च । अतः कर्तरि कृत्य इति ।

ननु भवितुः कथं ज्ञानकाले सत्त्वाभाव इत्याशङ्क्य ज्ञानोत्तरभाविप्रयोजकव्यापारापेक्षणादित्याह —

भविता चेति ।

भवतिर्ह्यसिद्धकर्तृकक्रियावाची न पच्यादिवत्सिद्धकर्तृकक्रियस्ततो भविता स्वतोऽसिद्धः सन्भावकव्यापारापक्षनिष्पत्तिरर्थात्साध्यो भातीति । अत एवाहुः – ‘करोत्यर्थस्य यः कर्ता भवितुः स प्रयोजकः । भविता तमपेक्ष्याथ प्रयोज्यत्वं प्रपद्यते॥‘ इति ।

भाष्ये भूतशब्दस्यातीतवाचित्वभ्रमं निरस्यति —

भूतमिति ।

नन्वाज्ञाभ्यर्थनानुज्ञानां लोके चोदनात्वात्कथं वेदे चोदना? अत आह —

आज्ञादीनामिति ।

उत्कृष्टपुंस स्वाभिलषितोपायकार्यत्वाभिधानमाज्ञा, यथा गामानयेति । एतदेव हीनस्याभ्यर्थना, यथा माणवक्रमध्यापयेति । प्रवृत्तस्य प्रयोज्यस्य तद्धितोपायोक्तिरनुज्ञा, तथा कुरु यथा हितमिति । नैतासां संभवो वेदे इत्युपदेशश्चोदना । उपदेशो ह्यप्रवृत्तनियोज्यस्य प्रयोजनोपायबोधको लोकेऽवगतो, यथा गोपालवचसि सुपथकथनपरेऽनेन पथा याहीति । नहीहाज्ञा; प्रयोक्तुर्निकर्षात् । नाभ्यर्थना; स्वप्रयोजनाभावात् । नाप्यनुज्ञा; प्रयोज्यस्याप्रवृत्तत्वात्तदिह नियोज्यस्याप्रवृत्तस्य हितोपायकर्तव्यतोक्तिरपौरुषेयेऽपि वेदे भवत्येवेति । तस्य धर्मस्य, ज्ञायतेऽनेनेति ज्ञानं, प्रमाणमुपदेशो विधिरिति जैमिनीयसूत्रावयवार्थः ।

स्वविषय इति भाष्ये स्वशब्देन चोदनाभिधीयत इति मत्वाह —

स्वसाध्ये इति ।

स्वस्याः प्रतिपाद्ये विषये भावनायामित्यर्थः ।

धर्मस्येत्युक्त्या भावनोपसर्जनभूताऽपि शब्दतोऽर्थतः प्राधान्यात् स्वशब्दार्थ इति गृहीत्वाऽऽह —

तद्विषये इति ।

ननु भावनाधात्वर्थयोर्विधिशब्देन पुरुषप्रवर्तनमशक्यं; प्रमाणस्य वाय्वादिवत्प्रेरकत्वायोगादित्याशङ्क्याह —

भावनाया इति ।

साक्षाद्भावनायास्तदवच्छेदकत्वद्वारेण चार्थाद्धात्वर्थस्येष्टोपायतां बोधयति, विधिर्बोधयित्वा च तत्रेच्छामुपाहरति, इच्छंश्च पुरुषः प्रवर्तते, तदनेन क्रमेण नियुञ्जाना चोदना धर्ममवबोधयतीत्यर्थः । ब्रह्मचोदना ब्रह्मवाक्यम् ।

यथा धर्मचोदना प्रवृत्तिहेतुं बोधं जनयति, नैवं ब्रह्मचोदनेत्याह —

अवबोधस्येति ।

ब्रह्मचोदनया सिद्धवस्तुविषयस्य प्रवृत्त्यहेत्वर्थमात्रावबोधस्य जन्यत्वादिति भाष्यार्थः ।

ननु — मा नाम जनिधर्मबोधवद्ब्रह्मबोधाद्विषये प्रवृत्तिः, स एव तु विधितः किं न स्यादिति शङ्कते —

नन्विति ।

विध्येकवाक्यत्वेन वस्तुबोधनाद्वेदान्तानां न सिद्धबोधमात्रपर्यवसानमित्यर्थः॥

भाष्येऽवबोधनिर्देश एव विध्यविषयत्वे हेतुगर्भ इति व्याचष्टे —

अयमभिसंधिरिति ।

यथा विशिष्टविधौ विशेषणविधिरर्थात्, न विशेषणे तात्पर्यं , वाक्यभेदादेवं विषयविशिष्टप्रतिपत्तिविधिसामर्थ्याद्ब्रह्मनिश्चय इत्याशङ्क्याह —

न च बोधस्येति ।

विशिष्टक्रियाविधानाद्युक्ता विशेषणस्य प्रमा; वैशिष्ठ्यस्य वास्तवत्वात्, प्रतिपत्तिविधिस्तु न विशेषणसत्तामाक्षिपति; वाचं धेनुमुपासीतेत्यादावारोप्यस्यापि विधेयधीविषयत्वादित्यर्थः । एवं क्रमप्रमाणाभावसिद्धौ – ‘ब्रह्मधीर्न नियोगेन धर्मबुद्धेरनन्तरा ।

तत्क्रमे मानहीनत्वात्स्नानभुज्यादिधीरिव॥‘ नित्यानित्यवस्तुविवेक इति भाष्यमाक्षिपति —

तद्विषयश्चेदिति ।

अनित्यादब्रह्मणो विवेकः किं निश्चयः, उत ज्ञानमात्रम् ।

आद्यं दूषयति —

कृतमिति ।

द्वितीये विपर्ययः, संशयो वा । नाद्यः; ततः शास्त्रश्रवणे प्रवृत्त्ययोगात् ।

न द्वितीयः; प्रपञ्चानित्यत्वानिश्चये तद्वैराग्यायोगादित्याह —

तथाचेति ।

समाधत्ते —

तस्मादिति ।

निश्चय एव विवेकः । न च शास्त्रानारम्भः; इदं नित्यमिदमनित्यमित्यनिश्चयात् । आत्मानात्मसमुदाये नित्यत्वमनित्यत्वं च स्तो धर्मा तयोश्च धर्मिभ्यां भवितव्यमित्येतावन्मात्रं निश्चितम् । यद्यपि घटादेरनित्यतावधारिता; तथापि सकलानात्मसु नावधारितेति ।

नित्यत्वस्य व्याख्या —

ऋतमिति ।

उक्तविवेकस्य प्रयोजनमाह —

तथाचेति ।

सत्यासत्ययोरुपादेयानुपादेयत्वे हेतुमाह —

तदेतेष्विति ।

सुखत्वान्नित्यमुपादेयं दुःखत्वादनित्यं त्याज्यमित्यर्थः । दृष्टेऽनुभवः, उपपत्तिस्त्वदृष्टे ।

विगीतं, सदधिष्ठानम्, असत्यत्वाद्गन्धर्वपुरीवदित्यादिव्याप्त्यसिद्धिमाशङ्क्याह —

न खल्विति ।

न चेयतो विवेकस्य स्वरसत उदये शास्त्रविफलत; सगुणनिर्गुणविवेकाखण्डसमन्वयादेरसिद्धेरिति ।

न नित्यादिविवेकमात्रं वैराग्यहेतुः, किंतु तदभ्यास इत्याह —

अथास्येति ।

अस्य पुरुषश्रेष्ठस्य संसारसमूहेऽ नित्यत्वादिविषयं प्रसंख्यानं धीसन्ततिरुपावर्तते इत्यन्वयः । अवीचिः नरकविशेषः ।

जायस्व म्नियस्वेति ।

पुनः पुनर्जायते म्रियते चेत्यर्थः । क्रियासमभिहारे लोडिति पौनःपुन्ये सर्वलकारापवादेन लोटः स्वादेशस्य च विधानात् । आरभ्य ब्रह्मलोकमवीचिपर्यन्तं जननमरणाभ्यामावर्तमानं क्षणाद्यवान्तरसर्गपर्यन्तैः कालैः संसारसागरस्योर्मिभूतैरनिशमुह्यमानमितस्ततो नीयमानमात्मानमन्यं च जीवसमूहमवलोक्येति योजना ।

उक्तपरिभावनाया इहामुत्रार्थभोगविरागहेतुतामाह —

ततोऽस्येति ।

अनित्यसंसारस्य किंचिदधिष्ठानमस्तीति इयान् विवेको न तु ब्रह्मेति ।

तदुक्तम् —

ईदृशादिति ।

आभोगो मनस्कारः । आदर इति यावत् । अतदात्मिका ।

वैराग्यस्य शमादिहेतुतामाह —

तत इति ।

ज्वाला जटाकारा अस्य सन्तीति तथोक्तः । श्रद्धैव तत्त्वविषया वित्तमस्य न गवादीति तथाऽभिहितः ।

मोक्षेच्छा भवतु, कुतस्तावता ब्रह्मजिज्ञासा? अत आह —

तस्य चेति ।

नित्याऽ नित्यविवेकादिहेतुत्वस्याथशब्दादवगतेः किमतःशब्देनेत्याशङ्क्य नानेन जिज्ञासां प्रति साधनकलापस्य हेतुतोच्यते, किंतु तत्स्वरूपाऽसिद्धिपरिहारहेतुरभिधीयते इत्याह —

अत्रैवमित्यादिना ।

शल्कं शकलम् । शुचि नरशिरःकपालं प्राण्यङ्गत्वाच्छङ्क्षवदित्यस्य ‘नारं स्पृष्ट्वाऽस्थि सस्नेहं सवासा जलमाविशे’दित्यागमविरोधः ।

कृतकत्वानुमानानुगृहीतात्तद्यथेति वाक्याद् न्यायहीनम् अपामेत्यादिवाक्यमापेक्षिकामृतत्वादिपरं व्याख्येयमित्याह —

क्षयितेति ।

यत्त्वभिहितं भास्करेण नित्यानित्यविवेकादेरप्रकृतत्वान्न तदानन्तर्यमथशब्दार्थोऽत एव कर्मणां क्षयिष्णुफलत्वं ब्रह्मज्ञानस्य च मोक्षहेतुत्वमतःशब्देन न पराम्रष्टुं युक्तमिति तं भाष्यभावव्याख्ययाऽनुकम्पते ।

अत्र चेति ।

तर्हि सकला वेदान्ताः परामृश्येरन् नेत्याह —

योग्यत्वादिति ।

अथशब्दोक्तहेतुत्वसमर्थनयोग्यत्वादित्यर्थः । हेतुमद्ब्रह्मजिज्ञासाया हेतूनां नित्यानित्यविवेकादीनां सूत्रकारस्य बुद्धिस्थत्वात्तदानन्तर्यार्थत्वमथशब्दस्य युक्तमेव ।

चतुर्थीसमासाभावे हेतुमाह —

तादर्थ्येति ।

पाणिनिः किल ‘चतुर्थी तदर्थार्थबलिहितसुखरक्षितै’रिति तादर्थ्यसमासं सस्मार । चतुर्थ्यन्तः शब्दस्तदर्थवचनादिभिः शब्दैः समस्यते । चतुर्थ्यन्तशब्दार्थस्तच्छब्देन परामृश्यते । तस्मै इदं तदर्थम् । यथा कुण्डलाय हिरण्यमित्यत्र कुण्डलं चतुर्थ्यन्तशब्दार्थस्तच्छेषो हिरण्यं, तत्र कुण्डलशब्दश्चतुर्थ्यन्तः, कुण्डलशेषवाचिना हिरण्यशब्देन समस्यते, कुण्डलहिरण्यमिति । तथाऽर्थशब्दादिनापि, ब्राह्मणार्थं पयः इत्यादि द्रष्टव्यम् । कात्यायनेन त्वयं समासः प्रकृतिविकृत्योर्नियमितः – ‘चतुर्थी तदर्थमात्रेणेति चेत्तर्हि सर्वत्र प्रसङ्गोऽविशेषात्, ‘प्रकृतिविकृत्योरिति चेदश्वघासादीनामुपसंख्यानम्’ इति ।

एवं चार्थात्प्रस्तुते तन्निषेधसिद्धिरित्याह —

प्रकृतीति ।

इत्येवमादौ ब्रह्मजिज्ञासेत्येवमादावित्यर्थः ।

नन्वश्वार्थो घासोऽ श्वघास इत्यादावप्रकृतिविकारेऽपि तादर्थ्यसमासो दृष्ट इत्याशङ्क्य  कात्यायनेनैव समासान्तरमुपसंख्यातमित्याह —

अश्वघासादय इति ।

ननु षष्ठीसमासाभ्युपगमे ब्रह्मणो जिज्ञासाऽव्यावर्तकत्वेन गुणत्वात्प्रधानपरिग्रह इति भाष्यस्थप्राधान्यभङ्गस्तत्राह —

षष्ठीसमासेऽपीति ।

ब्रह्मोज्झं वेदत्यागः । प्रतिपत्तौ विशेषणत्वेनानुबध्यत इत्यनुबन्धः । स्वरूपेण निरूपितायां जिज्ञासायां पश्चात्संबन्धिन्यपेक्षा, ब्रह्म च ज्ञानद्वारा जिज्ञासारूपनिरूपकमिति प्रथमोदिताकाङ्क्षावशेन ब्रह्म जिज्ञासायाः कर्मत्वेन संबध्यते, ननु संबन्धिमात्रतयेत्यर्थः ।

जिज्ञासाज्ञानयोर्विषयाधीननिरूपणं वैधर्म्यदृष्टान्तेन प्रपञ्चयति —

न हीति ।

ननु — प्रमाणयुक्त्यादि जिज्ञासायाः कर्म भविष्यति, ब्रह्म तु संबन्धित्वेन निर्दिश्यताम् ।

न; निर्दिष्टकर्मलाभे कल्पनानुपपत्तेरित्याह —

नन्वित्यादिना ।

संभन्त्स्यते संबद्धं भविष्यति ।

ननु श्रुतकर्मत्यागायोगे स्थिते कथं शेषषष्ठी शङ्क्यत इत्यत आह —

निगूढाभिप्राय इति ।

प्रमाणादिबहुप्रतिज्ञानां श्रौतत्वसिद्धिरित्यभिप्रायस्य निगूढता ।

ननु ब्रह्मसंबन्धिनी जिज्ञासेत्युक्ते कर्मानिर्देशादनिरूपितरूपा जिज्ञासा स्याद्, नेत्याह —

सामान्येति ।

बहुप्रतिज्ञानां श्रौतत्वलाभात्कथं प्रयासवैयर्थ्येन परिहारस्तत्राह —

निगूढेति ।

एकस्यापि प्रधानस्य श्रौतत्वं वरं, नतु गुणानां बहुनामपीति ।

वाच्यस्येति ।

शब्दोपात्तत्वेन साक्षात्संनिधिः । प्रथमापेक्षितस्येत्याकाङ्क्षा । प्रथमसंबन्धार्हस्येति योग्यता । एतैर्युक्तस्य कर्मत्वस्य संबन्धः प्रथमः सन्नपि जघन्यः । एतैः रहितस्य संबन्धिमात्रस्य संबन्धो जघन्यः सन् प्रथम इति कल्पनं व्याहतमित्यर्थः । ‘कर्तृकर्मणोः कृती’ति कृद्योगे कर्मणि षष्ठीस्मरणाद्वाच्यं कर्मत्वम् । जिज्ञासापदस्य चाकारप्रत्ययान्तत्वात् कृद्योगः । यस्तु ‘कर्मणिचे’ति कर्मणि षष्ठ्या समासप्रतिषेधः, स च ‘उभयप्राप्तौ कर्मणी’ति या कर्तृकर्मणोरुभयोरपि सामर्थ्यादुपादानप्राप्तौ कर्मण्येवेति नियमिता षष्ठी तद्विषयः । यथाऽऽश्चर्यो गवां दोहोऽगोपालकेनेति । एवं ह्यत्राश्चर्यं व्यज्येत यदि दुर्दोहानां गवां दोहे कर्मत्वमकुशलस्य चोगोपालस्य कर्तृत्वम्, प्रस्तुते तु ब्रह्मकर्मत्वमेवोपादीयते, न कर्तृगतोऽ तिशय इत्युभयप्राप्त्यभावात् ‘कर्तृकर्मणोः कृती’त्येव षष्ठी; तेन ब्रह्मजिज्ञासेत्युपपन्नः समासः इति ।

भाष्ये प्रत्यक्षनिर्देशो न युक्त शाब्दत्वात्कर्मत्वस्य, तत्राह —

प्रत्यक्षेति ।

अविरुद्धमपि परोक्षत्वं व्याख्येयप्रत्यक्षत्वस्य प्रतियोगित्वाद्व्याख्यातम् । परमते कर्मत्वस्य लाक्षणिकत्वं चरमान्वयप्रसञ्जनार्थम् ।

नन्वयुक्तमपि ज्ञानस्येच्छाविषयत्वं सौत्रजिज्ञासापदात्प्रमीयताम्? न; न्यायसूत्रे उपदेशमात्रेणाऽविश्वासादित्याह —

नेति ।

साक्षात्कारसाधनं ज्ञानमिच्छाविषय इति प्रतिज्ञाय फलविषयत्वादिच्छाया इति हेतुरयुक्तो व्यधिकरणत्वात्तत्राह —

तदुपायमिति ।

फलेच्छाया एवोपायपर्यन्तं प्रसारादविरोध इत्यर्थः ।

भवतु ब्रह्मविषयावगतिरिति ।

स्वरूपावगतिः स्वविषयव्यवहारहेतुत्वेन तद्विषयोक्ता ।

ब्रह्मणोऽपि धर्मवदसुखत्वान्न तदवगतिः पुमर्थ इत्याह —

एवमपीति ।

श्रुतिस्वानुभवावगतनिर्दुःखानन्दमभिप्रेत्य परिहारः —

ब्रह्मावगतिर्हीति ।

प्रतिभान् प्रतिभासमानः । अर्थ्यमानत्वात् प्रार्थ्यमानत्वात् ।

अविद्यानिवृत्तिर्न स्वरूपावगत्या; नित्यनिवृत्त्यापातात्, अपि तु वृत्तित इत्याह —

अविद्येति ।

विगलित(निखिल?) दुःखेति वृत्तिव्यक्तस्वरूपाभिप्रायम् ।पदार्थान्व्याख्याय सूत्रतात्पर्यमाह —

तस्मादित्यादिना ।

सूत्रस्यानुवादत्वव्यावृत्तये तव्यप्रत्ययमध्याहरति —

एषितव्यमिति ।

किमिति ज्ञानमेषितव्यं वेदान्तेभ्य एव तत्सिद्धेरिति ।

न; संदेहादिना प्रतिबन्धादित्याह —

तच्चेति ।

नन्विच्छाया विषयसौन्दर्यलभ्यत्वात्किं तत्कर्तव्यतोपदेशेन? तत्राह —

इच्छामुखेनेति ।

ज्ञातुमिच्छा हि संदिग्धे विषये निर्णयाय भवति, निर्णयश्च विचारसाध्य इति तत्कर्तव्यताऽर्थाद्गम्यत इत्यर्थः । आर्थिके चास्मिन्नर्थे कर्तव्यपदाध्याहारः । श्रौतस्तु मुमुक्षानन्तरं ब्रह्मज्ञानेच्छा भवितुं युक्ता इत्येष एव । तथा चाधिकारार्थत्वमथशब्दस्य निषेद्धुं ज्ञानेच्छा जिज्ञासाशब्दार्थ इत्युपपादनेन न विरोध इति ।

ननु धर्मग्रहणाद्विधीनामर्थविवक्षा तत्र कृता, न वेदान्तानाम्, नेत्याह —

धर्मग्रहणस्येति ।

उपलक्षणतया वेदान्तानामर्थविवक्षाप्रतिज्ञावद्विचारप्रतिज्ञापि तत्रैवास्त्वित्याशङ्क्योपरि प्रतिपादनादर्शनान्नेत्याह —

यद्यपीति ।

ब्रह्मविचारप्रतिज्ञायास्तत्र संभवमङ्गीकृत्य परिहार उक्तः, इदानीं संभव एव नास्तीत्याह —

नापीति ।

अविरक्तस्य ब्रह्मविचारे प्रवृत्त्ययोगादित्यर्थः । ब्रह्ममीमांसारम्भायेति प्राचा तन्त्रेणागततोक्ता ।

नित्यादिविवेकानन्तर्यायेति ।

तत्रत्यप्रथमसूत्रेणेहत्यप्रथमसूत्रस्य । युष्मदस्मदित्यादिना ह्यहंप्रत्यये जीवस्य प्रसिद्धेरसंसारिब्रह्मात्मत्वस्य चाभावाद् विषयमाचिक्षिपे ।

अत्र तूपेत्य ब्रह्मात्मभावं वेदान्तेभ्यस्तत्सिध्यसिद्धिभ्यामाक्षेप इति विभागमाह —

वेदान्तेभ्य इति ।

संदिग्धप्रसिद्धस्य जिज्ञास्यत्वसंभवादाक्षेपायोगमाशङ्क्याह —

निश्चयज्ञानेनेति ।

अनिश्चायकत्वं तु वेदान्तानामयुक्तं निर्दोषत्वादित्याह —

अपौरुषेयतेति ।

निष्पादिता प्रमितिलक्षणा क्रिया यस्य कर्मणो विषयस्य स इह तथोक्तः ।

यद्यपि निर्दोषो वेदः ; तथापि सामान्यतो दृष्टनिबन्धनवचनव्यक्त्याभासप्रतिबद्धः संदिग्धार्थः स्यादतो विचारात्प्रागापातप्रसिद्धिं दर्शयन्नप्रसिद्धत्वपक्षोक्तं दोषमुद्धरति —

प्रागपि ब्रह्ममीमांसाया इति ।

भाष्ये ब्रह्मास्तित्वप्रतिज्ञा भाति, कथं प्रतीतिपरत्वव्याख्येत्याशङ्क्य प्रत्याय्येन प्रत्ययलक्षणामाह —

अत्रचेति ।

मुख्यार्थपरिग्रहे बाधमाह —

तदस्तित्वस्येति ।

विमर्शे संशये । देहाद्यभेदेनेति भेदाभेदमतेन शङ्का ।

तत्त्वमसिवाक्यनिर्दिष्टतत्पदलक्ष्यप्रसिद्धिमुक्त्वा वाच्यप्रसिद्धिमाह —

अविद्योपाधिकमिति ।

अविद्याविषयीकृतमित्यर्थः ।

शक्तीति ।

शक्तिज्ञानाभ्यां कारणं लक्ष्यते । यो हि जानाति शक्नोति च स करोति, नेतर इत्यनुविधानादित्यर्थः ।

सदेवेत्यादिवाक्यात्प्रसिद्धिमुक्त्वा पदादपि सोच्यत इति वक्तुं पृच्छति —

कुतः पुनरिति ।

वाक्यात्प्रसिद्धस्यैव पुनरपि कुतो हेत्वन्तरात्प्रसिद्धिरित्यर्थः ।

ननु बृहतिधातुरतिशायने वर्ततामापेक्षिकं तु तद्, बृहत् कुम्भ इतिवद् , नेत्याह —

अनवच्छिन्नमिति ।

प्रकरणादिप्रसङ्कोचकाभावादित्यर्थः । पदान्तरं साक्षान्नित्यत्वादिबोधकं नित्यादिपदम् । उक्तविशेषणानामन्यतमेनापि रहितस्य न महत्त्वसिद्धिरतो ब्रह्मपदादुक्तवस्तुसिद्धिरिति । तत्पदार्थस्य शुद्धत्वादेरिति सामानाधिकरणे षष्ठ्यौ । जीवस्य हि  विशुद्धत्वाद्येव तत्पदेन समर्प्यते, न पदार्थान्तरमिति । प्रसिद्धिर्हि ज्ञानं ज्ञातारमाकाङ्क्षति, तेन व्यवहितमपि सर्वस्येत्येतदस्तित्वप्रसिद्धिरित्यनेन संबन्धनीयम् ।

तथा सति प्रतिज्ञाविशेषणं सत्कैमुतिकन्यायं द्योतयिष्यति, नतु सर्वस्यात्मत्वादिति हेतुविशेषणं, वैयर्थ्यादित्यभिप्रेत्याह —

सर्वस्येति ।

पांसुमन्तौ पादौ यस्य स तथा । हलं वहतीति हालिकः ।

सर्वस्य ब्रह्मास्तित्वप्रसिद्धिः, सर्वो हि तत्प्रत्येतीति साध्यहेत्वोरविशेषमाशङ्क्याह —

प्रतीतिमेवेति ।

अहं न नास्मीति प्रत्येतीति योजनायाम् अस्तीत्वं न सिध्द्येत्; असत्त्वनिषेधेऽप्यनिर्वाच्यत्वस्यानिवारणात्, अतोऽहमस्मीति न प्रत्येतीति योजनैव साध्वीति ।

अहमिति प्रतीतेरहंकारमात्रविषयत्वान्नात्मप्रसिद्धिः सिध्येदिति शङ्कते —

नन्वहमिति ।

ऋजुयोजनायां ह्यव्याप्यादव्यापकप्रसञ्जनं स्यात्, नहि प्रसिद्ध्यभावो नास्तित्वप्रतीत्या व्याप्तः; सुषुप्तौ विश्वाभावप्रतीतिप्रसङ्गात्, तन्मा भूदिति व्यवहितेन संबन्धयति —

अहमस्मीति न प्रतीयादिति ।

शङ्कितुरनुशयमपाकरोति —

अहंकारास्पदमिति ।

अहमिति प्रतिभासस्य चिदचित्संवलितविषयत्वमध्यासभाष्ये समर्थितम् । तथाचाहमिति प्रतीतिरात्मविषयापि, अत आत्मप्रसिद्ध्यभावेऽहमिति प्रतीतिर्न स्यादित्यर्थः ।

तदस्त्वमेति ।

‘तत्त्वमसि’ वाक्ये तत्पदस्य प्रकृतसच्छब्दवाच्यब्रह्मपरामर्शिनस्त्वंपदेन समानाधिकरण्यादित्यर्थः ।

ननु ब्रह्मात्मैकत्वस्य वाक्यार्थस्याप्रसिद्धत्वेनाप्रतिपाद्यत्वाक्षेपे पदार्थप्रसिद्धिप्रदर्शनमनुपयोगीत्याशङ्क्याह —

तस्मादिति ।

पदार्थयोरवधृतयोस्ताभ्यां गृहीतसंबन्धपदद्वयसमभिव्याहारादपूर्वो वाक्यार्थः सुज्ञान इत्यर्थः ।

एवं तावदापाततो वाक्यात्पदतश्च प्रसिद्धेर्ब्रह्मणः शास्त्रेण शक्यप्रतिपादनत्वसंबन्धं सामर्थ्यासाधारणरूपविषयत्वं समाधातुमाक्षिपतीत्याह —

आक्षेप्तेति ।

ब्रह्मण आत्मत्वेन लोकप्रसिद्ध्यभावाद्वाक्यीयप्रसिद्धिरनूद्यत इत्याह —

तत्त्वमसीति ।

ननु तृतीयाया इत्थंभावार्थत्वं विहायात्मत्वेन हेतुना ब्रह्म यदि लोके प्रसिद्धमात्मा च ब्रह्मेति त्वयैवोक्तत्वादिति व्याख्यायतां, तदा हि लोकशब्दो रूढार्थः स्यात्, उच्यते; तत्पदार्थमात्रस्य प्रसिद्धिस्तदानूदिता स्यात्, तस्याश्चाजिज्ञास्यत्वं प्रति न हेतुत्वम्; ज्ञातेऽपि पदार्थे वाक्यार्थस्य जिज्ञासोपपत्तेरिति ।

स्यादेतद्यदि ब्रह्मात्मत्वेन प्रसिद्धमिति भाष्यमनुपपन्नम्; नहि महावाक्ये ब्रह्मानुवादेनात्मत्वं विधीयते, किंतु लोकसिद्धजीवानुवादेनागममात्रसिद्धब्रह्मत्वम्, अत आह —

अभेदविवक्षयेति ।

अन्यत्र हि वाक्यार्थबोधोत्तरकालं पदार्थानामुद्देश्योपादेयभावो न व्यावर्तते, अत्र त्वखण्डवाक्यार्थसाक्षात्कारे स बाध्यत इति द्योतयितुमात्मपदे प्रयोज्ये ब्रह्मपदं ब्रह्मपदे चात्मपदं प्रयुक्तमित्यर्थः ।

ननु विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिः, सा च वस्त्वभावसाधिकेति कथं विषयलाभः, तत्राह —

तदनेनेति ।

न विरुद्धप्रतिपत्तिमात्रेणाभावावगमः, किंतु प्रमाणमूलतया; अतः साधकबाधकप्रमाणभावे विप्रतिपत्तिः संशयबीजमित्यर्थः ।

ननु साधारणाकारदृष्टौ संशयो, नत्विह क्षणिकविज्ञानस्थिरभोक्त्रादावस्ति साधारणो धर्मी इत्याशङ्क्य विप्रतिपत्त्यन्यथानुपपत्त्या तं साधयति —

विवादाधिकरणमिति ।

देह आत्मा इत्यादिविवादाश्रयो धर्मी पराग्व्यावृत्तोऽहमास्पदं सर्वतन्त्रेष्वभ्युपगत इति मन्तव्यम् ।

तत्र हेतुमाह —

अन्यथेति ।

आश्रयशब्दो विषयवाची । भिन्नविषया विप्रतिपत्तयो न स्युरतो विवदमानानामप्येकमालम्बनमविगीतम् ।

अत्रोपपत्तिमाह —

विरुद्धा हीति ।

विप्रतिपत्तिशब्दावयवप्रतिपत्तिशब्दार्थस्य ज्ञानस्य सालम्बनत्वात् यत्किंचिदालम्बनं सिद्धम्; वीत्युपसर्गप्रतीतविरोधवशाच्च तदेकमिति सिद्ध्यति ।

एकार्थोपनिपाते हि धियां विरोधः; अत्र वैधर्म्योदाहरणमाह —

न हीति ।

साधारणधर्मिस्फुरणेऽपि न शास्त्रार्थस्य बुद्धि समारोहः, नहि साधारणः शास्त्रार्थस्तत्राह —

तस्मादिति । 

यस्माद्विप्रतिपत्तिरेकालम्बना, यत्तश्चैकस्मिन्नालम्बने पूर्वधीविषयनिषेधेन विरुद्धधीरुदेति; तस्मात्प्रतियोगितया विप्रतिपत्त्येकस्कन्धत्वेन तत्त्वंपदार्थतदेकत्वप्रतीतिर्लोकशास्त्राभ्यां सर्वैरेष्टव्येति ।

तर्हि क्व विगानमत आह —

तदाभासत्वेति ।

लौकायतिकादीनां सा प्रतीतिराभासः । आस्तिकानां तत्पदार्थप्रतीतेस्तत्त्वमर्थैकत्वप्रतीतेश्च गौणतायां तथा त्वंपदार्थधियोऽ सङ्गसाक्ष्यालम्बनत्वे च विगानमिति ।

त्वंपदार्थविप्रतिपत्तिप्रदर्शनस्य वाक्यार्थविप्रतिपत्तौ पर्यवसानमाह —

अत्रेति ।

देहादिक्षणिकविज्ञानपर्यन्तानाम् चैतन्यं चेतनत्वमात्मत्वमित्यर्थः । भोक्तैवात्मेति — पक्षे भोक्तृत्वं किं विक्रिया, उत चिदात्मत्वम् । नाद्यः ।

कर्तृत्वपक्षादविशेषादित्याह —

कर्तृत्वेऽपीति ।

द्वितीयं प्रत्याह —

अभोक्तृत्वेऽपीति ।

सक्रियत्वरूपभोक्तृत्वाभावेऽपीत्यर्थः । संख्या हि जननमरणादिनियमान्निर्विशेषा अपि चेतनाः प्रतिदेहं भिन्ना इति मेनिरे । भिन्नानां च कुम्भवद्विनाशजाड्यापत्तिरतो न नित्यतत्पदार्थैकतेति ।

अथवा मैवानुमायि भेदादनित्यता, आत्मभेदाभ्युपगम एव ब्रह्मात्मैकत्वविरोधीत्याह —

अद्वैतेति ।

लौकायतिकादिनिरीश्वरमतानुभाषणेनैव तत्पदार्थं ईश्वरेऽपि विप्रतिपत्तिः सूचिता, अतस्तादृशब्रह्मात्मैक्यवाक्यार्थेऽपि विप्रतिपत्तिरर्थाद्युक्तेत्याह —

त्वंपदार्थेति ।

वेदप्रामाण्यवादिनो मीमांसकादयः । शरीरादिभ्य इति=शरीरादिशून्यपर्यन्तेभ्य इति । जीवात्मभ्य इति= कर्तृभोक्तृभ्यः ।

केवलभोक्तृभ्य इति ।

स्वाभाविकमस्येति = नैयायिकादिमतेनेत्यर्थः ।

युक्तिवाक्येति भाष्यस्थतच्छब्दस्य प्रत्येकं युक्तिवाक्याभ्यां संबन्धं करोति —

युक्तीति ।

आत्मा स भोक्तुरिति पक्षे मूलं युक्तिवाक्ये, अन्यत्र तदाभासाविति ।

अनर्थं चेयादिति भाष्यार्थमाह —

अपिचेति ।

भाष्ये तर्कस्य पृथगुक्तेर्वेदान्तमीमांसा किं न तर्कः, नेत्याह —

वेदान्तमीमांसेति ।

अर्थापत्तिरनुमानं चात्र तर्कोभिमतः, तद्रूपा वेदान्तमीमांसा, तस्या अविरोधिनः श्रुतिलिङ्गादयस्तार्तीयाः पाञ्चमिकाश्च श्रुत्यर्थादयो वेदप्रामाण्यपरिशोधकाः कर्ममीमांसायां विचारिताः । वेदस्य प्रत्यक्षादीनां तदर्थादीनां च लक्षणादीनि न्यायशास्त्रैर्विचारितानि । स्मृत्यादिभिश्च वेदानुमानेऽनुमानचिन्तोपयोगः । तेन विहितजातिव्यक्तिपदार्थविवेके वेदस्वरूपग्रहणे च न्यायशास्त्रस्योपयोगः । सर्वे चैते प्रमाणानुग्राहकत्वेन तर्का उच्यन्त इति॥ इति जिज्ञासाधिकरणम्॥१॥